Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Shakambhari Mahatmya शाकम्भरी माहात्म्य


Listen Later

Shakambhari Mahatmya शाकम्भरी माहात्म्य
जनमेजय उवाच -
विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् ।
शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १॥
शताक्षी सा कुतो जाता देवी भगवती शिवा ।
तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २॥
को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः ।
पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ ३॥
व्यास उवाच -
शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् ।
तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ ४॥
दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः ।
हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ ५॥
देवानां तु बलं वेदो नाशे तस्य सुरा अपि
नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ ६॥
विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये ।
ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ ७॥
सहस्रवर्षपर्यन्तं चकार परमं तपः ।
तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ ८॥
ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः ।
ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ ९॥
समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः ।
वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ १०॥
तवाद्य तपसा तुष्टो वरदेशोऽहमागतः ।
श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ ११॥
पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर ।
त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ १२॥
विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर ।
बलं च देहि येन स्याद्देवानां च पराजयः ॥ १३॥
इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् ।
जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ १४॥
ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः ।
स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ १५॥
विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् ।
किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ १६॥
वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् ।
इति भूमौ महानर्थे जाते परमदारुणे ॥ १७॥
निर्जराः सजरा जाता हविर्भागाद्यभावतः ।
रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ १८॥
अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च ।
पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ १९॥
निलयं गिरिदुर्गेषु रत्नसानुगुहासु च ।
संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ २०॥
अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप ।
वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ २१॥
कूपवापीतडागाश्च सरितः शुष्कतां गताः ।
अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ २२॥
मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा ।
गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ २३॥
अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः ।
गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ २४॥
समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् ।
निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ २५॥
दयां कुरु महेशानि पामरेषु जनेषु हि ।
सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ २६॥
कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि ।
त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ २७॥
नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।
यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ २८॥
समुद्धर महेशानि सङ्कटात्परमोत्थितात् ।
जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ २९॥
प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ ३०॥
नमः कूटस्थरूपायै चिद्रूपायै नमो नमः ।
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ ३१॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ ३२॥
इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी ।
अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ ३३॥
नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् ।
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ ३४॥
बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।
शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ ३५॥
क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः ।
सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ ३६॥
कोटिसूर्यप्रतीकाशं करुणारससागरम् ।
दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ ३७॥
मोचयामास लोकेषु वारिधारां सहस्रशः ।
नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ ३८॥
दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ ३९॥
नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ ४०॥
मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ ४१॥
स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ ४२॥
नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः ।
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ ४३॥
त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।
क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ ४४॥
कृपां कुरु महेशानि वेदानप्याहराम्बिके ।
व्यास उवाच -
इति तेषां वचः श्रुत्वा शाकान्स्व
...more
View all episodesView all episodes
Download on the App Store

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersBy Rajat Jain

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings


More shows like Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

View all
Mantra, Kirtan and Stotra: Sanskrit Chants by Sukadev Bretz

Mantra, Kirtan and Stotra: Sanskrit Chants

59 Listeners

Hanuman Aarti Sangrah by Rajshri Entertainment Private Limited

Hanuman Aarti Sangrah

0 Listeners

Shri Hanuman Chalisa श्री हनुमान चालीसा by Bhakti Darbar

Shri Hanuman Chalisa श्री हनुमान चालीसा

0 Listeners