का ते कान्ता कस्ते पुत्रः, संसारोऽयमतीव विचित्रः। त्रिजगति सज्जनसंगतिरेका, भवति भवार्णव तरणे नौका।। चर्पट पंजरिका, 20।।विशेषेण महाबुद्धे संसारोत्तरणे नृणाम्। सर्वत्रोपकरोतीह साधुः साधु समागमः।। अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः। मनागपि न संत्याज्या मानवैः साधुसंगतिः।। संतोषः परमो लाभः सत्संगः परमा गतिः।विचारः परमं ज्ञानं शमो हि परमं सुखम्।।