मातः परात्परे देवि सर्वज्ञानमयीश्वरि ।
कथ्यतां मे सर्वपीठशक्तिभैरवदेवताः ॥१॥
शृणु वत्स प्रवक्ष्यामि दयाल भक्तवत्सल ।
याभिर्विना न सिध्यन्ति जपसाधनसत्क्रियाः ॥२॥
पञ्चादशेकपीठानि एवं भैरवदेवताः ।
अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च
ममाद्यवपुषो देव हिताय त्वयि कथ्यते ॥३॥
ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ।
कोट्टरी सा महादेव त्रिगुणा या दिगम्बरी ॥४॥
करवीरे त्रिनेत्रं मे देवी महिषमर्दिनी ।
क्रोधीशो भैरवस्तत्र सुगन्धायाञ्च नासिका ॥५॥
देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता ॥६॥ काश्मीरे कण्ठदेशञ्च त्रिसन्ध्येश्वरभैरवः ।
महामाया भगवती गुणातीता वरप्रदा ॥७॥ ज्वालामुख्यां तथा जिह्वा देव उन्मत्तभैरवः ।
अम्बिका सिद्धिदा नाम्नी स्तनं जालन्धरे मम ॥८॥ भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी ॥९॥ हार्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ।
देवता जयदुर्गाख्या नेपाले जानु मे शिव ॥१०॥ कपाली भैरवः श्रीमान् महामाया च देवता ॥११॥ मानसे दक्षहस्तो मे देवी दाक्षायणी हर ।
अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥१२॥ उत्कले नाभिदेशञ्च विरजाक्षेत्रमुच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः ॥१३॥ गण्डक्यां गण्डपातञ्च तत्र सिद्धिर्न संशयः ।
तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः ॥१४॥ बहुलायां वामबाहुर्बहुलाख्या च देवता ।
भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥१५॥ उज्जयिन्यां कूर्परञ्च माङ्गल्य कपिलाम्बरः
भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका ॥१६॥ चट्टले दक्षबाहुर्मे भैरवञ्चन्द्रशेखरः ।
व्यक्तरूपा भगवती भवानी यत्र देवता ।
विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥१७॥ त्रिपुरायां दक्षपादो देवी त्रिपुरसुन्दरी ।
भैरवस्त्रिपुरेशञ्च सर्वाभीष्टप्रदायकः ॥१८॥ त्रिस्रोतायां वामपादो भ्रामरी भैरवेश्वरः ॥१९॥ योनिपीठं कामगिरौ कामाख्या तत्र देवता ।
यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ॥२०॥ यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः ।
सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः ॥२१॥ तत्र श्रीभैरवी देवी तत्र च क्षेत्रदेवता ।
प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुराम्बिका ।
वगला कमला तत्र भुवनेशी सधूमिनी ॥२२॥ एतानि परपीठानि शंसन्ति वरभैरवाः ।
एवं तु देवताः सर्वा एवं तु दश भैरवाः ॥२३॥ सर्वत्र विरला चाहं कामरूपे गृहे गृहे ।
गौरि शिखरमारुह्य पुनर्जन्म न विद्यते ॥२४॥ करतोयां समारम्य यावद्दिक्करवासिनीम् ।
शतयोजनविस्तीर्णं त्रिकोणं सर्वसिद्धिदम् ।
देवा मरणमिच्छन्ति किं पुनर्मानवादयः ॥२५॥ क्षीरग्रामे महामाया भैरवः क्षीरखण्डकः ।
युगद्या सा महामाया दक्षाङ्गुष्ठं पदो मम ॥२६॥ नकुलीशः कालीपीठे दक्षपादाङ्गुली च मे ।
सर्वसिद्धिकरी देवी कालिका तत्र देवता ॥२७॥ अङ्गुलीवृन्दं हस्तस्य प्रयागे ललिता भवः ।
जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः ॥२८॥ भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः
देवता विमला नाम्नी संवर्त्तो भैरवस्तथा ॥२९॥ वाराणस्यां विशालाक्षी देवता कालभैरवः ।
मणिकर्णीति विख्याता कुण्डलं च मम श्रुतेः ॥३०॥ कन्याश्रमे च पृष्ठं मे निमिषो भैरवस्तथा ।
सर्वाणी देवता तत्र कुरुक्षेत्रे च गुल्फतः ॥३१॥ स्थाणुर्नाम्ना च सावित्री देवता मणिवेदके ।
मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः ॥३२॥श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता।
भैरवः सम्बरानन्दो देशो देशो व्यवस्थितः ॥३३॥काञ्चीदेशो च कङ्कालो भैरवो रुरुनामकः।
देवता देवगर्भाख्या नितम्बः कालमाधवे ॥३४॥भैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा।
दृष्टा दृष्टा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् ॥३५॥ कुजवारे भूततिथौ निशार्द्धे यस्तु साधकः।
नत्वा प्रदक्षिणीकृत्य मन्त्रसिद्धिमवाप्नुयात् ॥३६॥शोणाख्या भद्रसेनस्तु नर्मदाख्ये नितम्बकः।
रामगिरौ स्तनान्यञ्च शिवानी चण्डभैरवः ॥३७॥ वृन्दावने केशजालमुमा नाम्नी च देवता।
भूतेशो भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥३८॥ संहाराख्य ऊर्द्धदन्तो देवीऽनले नारायणी श्रुचौ।
अधोदन्तो महारुद्रो वाराही पञ्चसागरे ॥३९॥ करतोयातटे कर्णे वामे वामनभैरवः। अपर्णा देवता यत्र ब्रह्मरूपाकरोद्भवा ॥४०॥ श्रीपर्वते दक्षगुल्फस्तत्र श्रीसुन्दरी परा।
सर्वसिद्धीश्वरी सर्वा सुन्दरानन्दभैरवः ॥४१॥ कपालिनी भीमरूपा वामगुल्फो विभाषके।
भैरवश्च महादेव सर्वानन्दः शुभप्रदः ॥४२॥ उदरञ्च प्रभासे मे चन्द्रभागा यशस्विनी।
वक्रतुण्डो भैरव ऊर्ध्वोष्ठो भैरवपर्वते ॥४३॥ अवन्ती च महादेवी लम्बकर्णस्तु भैरवः ॥४४॥चिवुके भ्रामरी देवी विकृताक्षो जनस्थाने।
गण्डो गोदावरीतीरे विश्वेशी विश्वमातृका ॥४५॥दण्डपाणिभैरवस्तु वामगण्डे तु राकिणी।
भैरवो वत्सनाभस्तु तत्र सिद्धिर्न संशयः ॥४६॥ रत्नावल्यां दक्षस्कन्धः कुमारी भैरवः शिवः।
मिथिलायामुमा देवी वामस्कन्धो महोदरः ॥४७॥ नलाहाट्यां नलापातो योगीशो भैरवस्तथा।
तत्र सा कालिका देवी सर्वसिद्धिप्रदायिका ॥४८॥कालीघाटे मुण्डपातः क्रोधीशो भैरवस्तथा ।
देवता जयदुर्गाख