कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः। इति परिभावय सर्वमसारं, विश्वं त्यक्त्वा स्वप्नविचारम्।। च.प. 12।। कोऽहं कस्य च संसारः इत्यापद्यपि धीमता। चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना।। यो.वा. 2.14.37।। कोऽहं कथमयं दोषः संसाराख्य उपागतः। न्यायेनेति परामर्शो विचार इति कथ्यते।।यो.वा.2.14.50।।