#श्री राघवाष्टकम् ।। #Raghav AShtakam.
#राम राम नमोऽस्तु ते जय #रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥
राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।वालिसूनु-हितैषिणं हनुमत्प्रियं कमलेक्षणं यातुधान-भयंकरं प्रणमामि राघवकुञ्जरम् ॥ १॥मैथिलीकुच-भूषणामल-नीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।नागरी-वनिताननांबुज-बोधनीय-कलेवरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २॥हेमकुण्डल-मण्डितामल-कण्ठदेशमरिन्दमं शातकुंभ-मयूरनेत्र-विभूषणेन-विभूषितम् ।चारुनूपुर-हार-कौस्तुभ-कर्णभूषण-भूषितं भानुवंश-विवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३॥दण्डकाख्यवने रतामर-सिद्धयोगि-गणाश्रयं शिष्टपालन-तत्परं धृतिशालिपार्थ-कृतस्तुतिम् ।कुंभकर्ण-भुजाभुजंगविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४॥केतकी-करवीर-जाति-सुगन्धिमाल्य-सुशोभितं श्रीधरं #मिथिलात्मजाकुच-कुंकुमारुण-वक्षसम् ।देवदेवमशेषभूत-मनोहरं जगतां पतिं दासभूतभयापहं प्रणमामि #राघवकुञ्जरम् ॥ ५॥यागदान-समाधि-होम-जपादिकर्मकरैर्द्विजैः वेदपारगतैरहर्निशमादरेण सुपूजितम् ।ताटकावधहेतुमंगदतात-वालि-निषूदनं पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६॥लीलया खरदूषणादि-निशाचराशु-विनाशनं रावणान्तकमच्युतं हरियूथकोटि-गणाश्रयम् ।नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं देवकार्य-विचक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७॥कौशिकेन सुशिक्षितास्त्र-कलापमायत-लोचनं चारुहासमनाथ-बन्धुमशेषलोक-निवासिनम् ।वासवादि-सुरारि-रावणशासनं च परांगतिं नीलमेघ-निभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८॥राघवाष्टकमिष्टसिद्धिदमच्युताश्रय-साधकं मुक्ति-भुक्तिफलप्रदं धन-धान्य-सिद्धि-विवर्धनम् ।रामचन्द्र-कृपाकटाक्षदमादरेण सदा जपेत् रामचन्द्र-पदांबुजद्वय-सन्ततार्पित-मानसः ॥ ९॥
राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।देवदेव नमोऽस्तु ते जय #देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १०॥
॥ इति श्रीराघवाष्टकं संपूर्णम् ॥