Lecture was given by Swami Tattwamayananda on June 6 at 3 PM PDT.
Chapter - 1 Verses:
तस्य ह नचिकेता नाम पुत्र आस ।। 1.1.1 ।।
त्ँह कुमार्ँसन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ।। 1.1.2 ।।
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ।। 1.1.3 ।।
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः ।। 1.1.6 ।।
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैता्ँशान्तिं कुर्वन्ति हर वैवस्वतोदकम् ।। 1.1.7 ।।
तिस्रो रात्रीर्यवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ।। 1.1.9 ।।
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत् प्रत्यवदद् यथोक्तमथास्य मृत्युः पुनरेवाऽऽह तुष्टः ।। 1.1.15 ।।
Vedanta Society of Northern California
www.sfvedanta.org