बन्धोऽयं दृश्यसद्भावातद् दृश्याभावेन बन्धनम्।न सम्भवति दृश्यं तु यथेदं तच्छृणु क्रमात्।।उत्पद्यते यो जगति स एव किल वर्धते। स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा।।न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थता।।ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः। कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः।। वेदव्यासजी ने भी कहा है - यच्चाऽपानोति यदादत्ते यच्चात्ति विषयानिह यच्चास्य संततो भावस्तस्मादात्मेति शब्द्यते।।