बालमोदिनी

अनन्यशरणता


Listen Later

कदाचित् केचन दुष्टाः एकतन्त्रीं वादयन्तं कृष्णस्य परमभक्तं पाषाणैः प्रहरन्तः आसन् । प्रहारजन्यां वेदनाम् असहमानः सः भक्तः कृष्णस्य रक्षणं प्रार्थितवान् ।  भक्तस्य आर्तरवं सोढुम् अशक्नुवन् कृष्णः भोजनस्य मध्ये एव उत्थाय भक्तस्य रक्षणाय प्रस्थितवान् ।  किन्तु यावत् तत्समीपं गतवान् तावता सः भक्तः पाषाणान् स्वीकृत्य तान् दुष्टान् प्रहर्तुम् उद्यतः । सः स्वस्य रक्षणं स्वयमेव विचिन्त्य योग्यम् उपायं चिन्तितवान् इति कारणतः मम किमपि कार्यं नास्ति इति विचिन्त्य कृष्णः प्रत्यागतवान् । यश्च अनन्यशरणः सन् भगवन्तं प्रार्थयेत तं तु भगवान् रक्षति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, some wicked people were attacking a devout follower of Krishna, who was playing a one-stringed instrument, with stones. Unable to bear the pain caused by the attacks, the devotee prayed to Krishna for protection. Unable to bear the devotee's cry of distress, Krishna, even in the middle of his meal, set out to protect the devotee. However, by the time he reached, the devotee had picked up the stones and was ready to strike back at the wicked people. Realizing that the devotee had thought of a suitable way to protect himself, Krishna decided there was nothing for him to do and returned. Whoever seeks refuge in the Lord alone, and prays to Him, is indeed protected by the Lord.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः