बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • गुरवे नमः

    पुरा शिवानन्दः इति कश्चन गुरुः आसीत् । यद्यपि सः विद्वान्, तथापि 'सर्वे शिष्याः मयि महत् गौरवं प्रदर्शयेयुः' इति इच्छा आसीत् तस्य । कदाचित् वृक्षम् आरूढवान् कश्चन शिष्यः गुरुं दृष्ट्वा अपि नमस्कारं न कृतवान्, पतनशङ्कया । गुरुः तं ताडयित्वा, अन्यान् शिष्यान् अपि आहूय 'इतः परं यदा मम शिरः दृश्यते तदा भवद्भिः मां नमस्कृत्य, अनन्तरम् एव अन्यद् कार्यं करणीयम्' इति अवदत् । तस्य अयम् आदेशः कथं फलं ददाति इत्येव अस्याः कथायाः कथावस्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Long ago there was a teacher named Shivananda. Though learned, he desired that all his disciples should show him great respect. One day, a disciple who had climbed a tree, saw the teacher but did not bow to him for fear of falling. The teacher struck him and then summoned the other disciples, saying: ‘From now on, whenever my head is visible, you must first bow to me, and only afterwards attend to any other matter.’ The outcome of this command forms the theme of this story.

    3 min
  • सर्वदा वन्द्यः शिवः

    कश्चन बालकः मात्रा सह प्रतिदिनं शिवालयं गच्छति स्म । कदाचित् सः बालकः एकाकी देवालयम् अगच्छत् । तत्र शिवलिङ्गस्य उपरि अक्षतान्नं खादन्तं मूषकम् अपश्यत् । सर्वशक्तः अपि शिवः कथं मूषकं न निवारयति इति खेदम् अनुभवन् सः बालकः गृहं गत्वा मातरम् अवदत् यत् अहम् इतः परं शिवालयं न गच्छामि इति । कारणे पृष्टे प्रवृत्तं सर्वम् अवदत् सः । तदा माता सान्त्वनवचनैः तम् उपदिशति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A young boy used to visit the Shiva temple daily with his mother. One day he went alone and saw a mouse eating rice grains placed on the Shiva-linga. Feeling upset, he wondered why almighty Shiva did not stop the mouse. Distressed, he went home and told his mother that he would no longer go to the temple. When asked the reason, he narrated everything. Then the mother consoled him with gentle words of guidance.

    3 min
  • अनुचिता स्पर्धा

    परमात्मनः सृष्टौ जीविनां गुणाः स्वभावश्च भिन्नाः भवन्ति । परं तेन कारणेन जिविनां मध्ये कदाचित् अपि स्पर्धा न भवेत् । यतः सर्वेषामपि जीविनां सृष्टेः फलं जगत्कल्याणमेव । कथायाम् अस्याम् अपि काचित् अनुचिता स्पर्धा भवति । नारिकेलवृक्षस्य अपेक्षया अहम् अधमा अस्मि इति आत्महीनभावना कूष्माण्डलतायाम् उत्पद्यते । नारिकेलवृक्षस्य इव उन्नतजीवनं कामयमाना सा कूष्माण्डलता रात्रौ भक्त्या ईश्वरं प्रार्थयत । अग्रिमदिने सा लता देवालयस्य गोपुरं सम्पूर्णं व्याप्य स्थिता । सा सन्तुष्टा जाता । किन्तु तस्याः सन्तोषः दीर्घकालं भवति वा न वा इति सम्पूर्णां कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In creation, the Supreme Being has given different qualities and natures to living beings. Yet, because the purpose of all creation is the welfare of the world, there should never be rivalry among them. In this story, however, an improper rivalry arises. A pumpkin creeper feels inferior to the coconut tree and longs for a lofty life like it. With devotion, she prays to God at night. The next day, the creeper spreads across the temple tower and feels satisfied. But whether her satisfaction lasts long or not is revealed only by hearing the full tale.

    4 min
  • सेवायाः महत्त्वम्

    कस्यचन नृपस्य पुत्रः प्रतिदिनं कस्यचित् साधोः समीपं गत्वा तस्य सेवां करोति स्म । साधोः सहवासतः राजकुमारस्य मनसि वैराग्यभावः अपि उपन्नः । परन्तु अग्रे केनचित् कारणेन राजकुमारस्य मनः चञ्चलम् अभवत् । साधोः सेवनेन किं फलम् ? इति चिन्तयितुम् आरब्धवान् । एकदा सः साधोः निमित्तं गङ्गानदीतः जलम् आनेतुं गतः । तत्र एका विलक्षणा घटना प्रवृत्ता । तेन राजकुमारस्य मनः परिवर्तनं जातम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain king’s son used to visit a sage daily and serve him. From the sage’s company, the prince developed a spirit of renunciation. But later, for some reason, his mind became restless, and he began to wonder what benefit there was in serving the sage. One day, when he went to the Ganga river to fetch water for the sage, a remarkable incident occurred there, which changed the prince’s mind.

    4 min
  • अन्धेनैव नीयमानः....

    कस्यचन ग्रामीणस्य कुम्भकारस्य समीपे बहवः गर्दभाः आसन् । तेषु एकः अन्धः आसीत् । सः अन्धगर्दभः प्रतिदिनम् अन्यैः गर्दभैः सह चरणार्थं ग्रामात् अरण्यं गत्वा सुरक्षितरूपेण प्रत्यागच्छति स्म । कदाचित् सः अरण्ये मार्गभ्रष्टः जातः । रात्रिः जाता । कश्चन उलूकः तस्य गर्दभस्य गृहं प्रति गमनाय साहाय्यं कर्तुम् उद्युक्तः । अहो ! किं वक्तव्यम् ? उलूकस्तु अन्धकारे द्रष्टुम् अशक्तः । अतः अन्धेनैव नीयमानः अन्धः लक्ष्यं प्राप्नोति वा उत न ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Near a potter in a village there were many donkeys, among them one blind donkey. Every day he safely went with the other donkeys to the forest for grazing and returned with them. One day he lost his way in the forest, and night fell. An owl came forward to help him reach home. But alas! The owl cannot see in the dark. Thus, being led by the blind, could the blind donkey reach his destination or not?

    4 min
  • मौनम्

    वयं सर्वे प्रसिद्धं संस्कृतमहाकविं भारविं जानीमः। तस्य प्रमुखं काव्यं ‘किरातार्जुनीयम्’ इति महाकाव्यम् अस्ति। बाल्यकालादेव महामेधावी सः । श्लोकादिरचना बाललीला इव तस्य । इयं कथा तस्य महतः प्रसिद्धस्य च कवेः भारवेः जीवनयात्रां वर्णयति।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    We all know the famous Sanskrit poet Bhāravi. His chief work is the great epic Kirātārjunīya. From childhood he was extraordinarily gifted, composing verses as if it were child’s play. This story narrates the life journey of the great and renowned poet Bhāravi.

    8 min
  • आत्मगुणविकासनम्

    कथायाम् अस्यां कदाचित् सर्वेऽपि प्राणिनः अन्ये जीविवेशेषाश्च सृष्टिकर्तुः ब्रह्मणः समीपं गत्वा परगुणानां प्रशंसां कुर्वन्तः स्वविषये अतृप्तिं च प्राकटयन् । गर्दभः शृगालः भवितुम् इच्छति, काकः कोकिलः भवितुम् इच्छति, कुक्कुरः मार्जालः भवितुम् इच्छति च । अन्येऽपि प्राणीनः स्वेच्छां प्राकटयन् । यद् इष्टं तद् सञ्जातमपि । किन्तु तस्य परिणामः कः अभवत् इत्येव अस्याः कथायाः कथावस्तु वर्तते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In this story, once all creatures and other living beings went to Brahma, the Creator, praising the qualities of others while expressing dissatisfaction with themselves. The donkey wished to become a jackal, the crow wished to become a cuckoo, and the dog wished to become a cat. Other creatures too expressed their desires. Whatever they wished for was granted. But the consequences of those wishes form the theme of this tale.

    6 min
  • बृहस्पतेः चातुर्यम्

    महाराजः नरसिंहः विद्वान् रसिकश्च आसीत् । प्रतिदिनं तस्य आस्थानं प्रति बहवः याचकाः आगत्य स्वकौशलप्रदर्शनं कृत्वा महाराजात् पारितोषिकं प्राप्नुवन्ति स्म । कदाचित् कश्चित् याचकः राजसभाम् आगतः । सः न पण्डितः, न वा कलाकोविदः । धनार्थी आसीत् । सः ज्यौतिषकः इति उक्त्वा महाराजस्य पुरतः उपस्थितः अभवत् । यदा महाराजः नक्षत्राणां नामानि वदतु इति अवदत् तदा केवलं चत्वारि नामानि अवदत् याचकः, तदपि क्रमेण न। आस्थाने स्थितः चतुरः दीनवत्सलः च पण्डितः बृहस्पति: कमपि उपायं कृत्वा याचकाय पारितोषिकं दापितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    King Narasimha was learned and fond of the arts. Every day, many petitioners came to his court, displayed their talents, and received rewards. One day, a petitioner arrived who was neither a scholar nor an artist—he was simply in need of money. Claiming to be an astrologer, he presented himself before the king. When asked to name the stars, he could mention only four, and not even in order. Then Brihaspati, the wise and compassionate scholar in the court, devised a way so that the petitioner too received a reward.

    5 min
  • किं न उदेति शृङ्गे?

    परिश्रमशीलः कृषकः गणपतिः श्रद्धया कृषिं करोति स्म । तस्य गृहे वृषभाः, धेनवः, कुक्कुराः, पालितः मार्जारः च आसन् । तस्य पुत्रः जयन्तः कृषिविज्ञानविषये उच्चविद्याविभूषितः छात्रवृत्तिं सम्पाद्य अमेरिकादेशं गतवान् । संशोधनकार्यसमाप्तेः अनन्तरं सः मुम्बय्याम् उच्चपदस्थः प्रशासनिकः अधिकारी अभवत् । कदाचित् सः ग्रामम् आगत्य गोवत्सं दृष्ट्वा 'एतम् अहं मत्तं पुष्टं च करिष्यामि' इत्युक्त्वा नूतनप्रयोगान् करोति । किन्तु तत् सफलं न भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Ganapati, a hardworking farmer, cultivated his land with devotion. His household had oxen, cows, dogs, and even a pet cat. His son Jayanta, highly educated in agricultural science, went to America on a scholarship. After completing his research, he became a senior administrative officer in Mumbai. Once, when he visited the village and saw a calf, he said, ‘I will make this strong and healthy,’ and tried new experiments. But those attempts did not succeed.

    5 min
  • चतुरा वृद्धा

    काचित् वृद्धा आसीत् यस्याः केऽपि बान्धवाः न आसन् । सा एकाकिनी वसति स्म । कदाचित् तस्याः दृष्टिशक्तिः क्षीणा अभवत् । अल्पेन एव काले सा किमपि द्रष्टुम् अशक्ता अभवत् । तां द्रष्टुम् आगतः चिकित्सकः दुष्टस्वभावकः आसीत् । सा वृद्धायाः वञ्चनां कर्तुम् अचिन्तयत् । किन्तु एषा वृद्धा अपि चतुरा आसीत् । सः चिकित्सकः वृद्धायाः चातुर्येण न्यायालये दण्डनम् अपि प्राप्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    There was an old woman who had no relatives and lived alone. One day her eyesight weakened, and soon she became unable to see at all. A physician came to examine her, but he was of wicked nature and planned to deceive her. However, the old woman was clever too. By her wit, the physician was punished in court.

    3 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।