
Sign up to save your podcasts
Or


भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः । अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं कीदृशं भवति इत्यस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कथायाम् अस्यां कश्चन किरातः कस्यचित् बालकस्य अतिथिसत्कारकरणेन अग्रिमजन्मनि राजकुमाररूपेण जन्म प्राप्नोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Indian culture, hospitality holds a special place. The saying "Atithi Devo Bhava" teaches us to treat a guest like God. Serving guests with respect brings great rewards. This story beautifully illustrates that truth—a hunter who warmly welcomed a young guest was rewarded by being reborn as a prince in his next life.
रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा श्वशुरालयगमनसमये सः शिशुभ्यः मिष्टान्नं नयति स्म किन्तु कदाचित् सः इक्षून् नीतवान् । कुतूहलेन यदा वृद्धा जामातरम् अपृच्छत् तदा तस्य वाक्चातुर्यं दृष्ट्वा सर्वे परिवारजनाः तूष्णीम् अभवन् । तदनन्तरं वृद्धा अपि स्वस्य चातुर्यं दर्शयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
An elderly woman lived in the village of Ratnapura with her four sons and a married daughter. Her son-in-law was cheerful and witty. Whenever he visited, he brought sweets for the children, but one day he brought sugarcane instead. Curious, the old woman questioned him. His clever reply left the entire family speechless. The old woman then displayed her own wit, making for an entertaining exchange.
कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् । किञ्चित् दूरगमनानन्तरं सः परस्परं कलहमग्नौ द्वौ युवकौ दृष्टवान् । कलहस्य कारणम् आसीत् तयोः मध्ये कः बुद्धिमान् ? कः बलवान् ? इति । तत् श्रुत्वा सः वृद्धः तौ सान्त्वयन् अहं निर्णयं करोमि इत्युक्त्वा कञ्चित् उपायं करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
An old man was walking from the city to his village. Though he walked steadily, the long journey soon made him tired. On the way, he came across two young men arguing over who was stronger and wiser. Hearing their dispute, the old man offered to settle it and came up with a clever plan.
प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य समर्थस्य साहाय्यकस्य नियोजनं चिन्तितवान् । यद्यपि तस्य शताधिकाः छात्राः आसन् तथापि मौखिक-व्यावहारिकयोः परीक्षयोः अनन्तरं वेणुगुप्तः शीलादित्यः चेति द्वौ एव सफलतां प्राप्तवन्तौ । तयोः अपि परिक्षायां शिलादित्यः एव जयं प्राप्नोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In ancient India, Nagarjuna was a renowned teacher of Ayurveda and an expert in alchemy. As old age made it difficult for him to continue his work, he decided to appoint a capable assistant. Out of more than a hundred students, only Venugupta and Shiladitya passed both the oral and practical tests. In the final test, Shiladitya emerged as the winner.
कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति स्म । कदाचित् कश्चन दयालुः गजः क्रीडतः शशकान् दृष्ट्वा चिन्ताक्रान्तः भूत्वा 'भवतां मातापितरौ कुत्र?’ इति पृच्छति पितृभ्यां सूचनार्थम् । किन्तु प्रत्यागतौ मातापितरौ प्रवृत्तं सर्वं विदित्वा 'सः दुष्टगजः स्यात्' इति मत्वा कुपितौ जातौ । तं दण्डयितुम् अपि उद्युक्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A rabbit lived in a forest with his family. Although he and his wife repeatedly told their young ones not to wander outside, the little rabbits often went out to play. One day, a kind elephant saw them alone and asked where their parents were so he could inform them. But when the parents returned and heard what had happened, they misunderstood the elephant's intentions, assumed he was dangerous, and even decided to punish him.
केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति सः ? बौद्धभिक्षुद्वयस्य एषा कथा अस्य प्रश्नस्य उत्तरं ददाति।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Some people quickly forget painful experiences, while others carry them in their hearts for years, holding on to anger, hatred, and hurt. So who is truly at fault—the one who causes the pain, or the one who keeps carrying it? This story of two Buddhist monks offers a thought-provoking answer.
आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं कृतवान् । भीमस्य तु धनस्य चिन्ता नासीत् । तयोः यात्रा कथं प्रचलति, किं किं जायते, यात्रा सफला भवति वा न वा इत्येव अस्याः कथायाः कथावस्तु वर्तते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Rama and Bhima were two close friends who earned their living through farming. One day, they decided to go on a pilgrimage to Kashi. Rama collected money for the journey with the help of his family and relatives, while Bhima did not worry about money at all. This story tells how their journey unfolded, the challenges they faced, and whether their pilgrimage was successful.
कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः स्वपरिचयम् उक्त्वा स्वामिनं राजभवनं नीतवान् । सत्कारानन्तरं स्ववैभवं दर्शयितुम् अभिलषितवान् । यदा सः कोषागारं दर्शितवान् तदा 'अनेन कोषागारेण किं प्रयोजनम्?' इति अपृच्छत् स्वामी । 'यत् सम्पादितं तत् प्रजानां प्रयोजनाय भवेत् । विद्यालयानाम् आरम्भं करोतु' इति अवदत् स्वामी । महाराजः रत्नभाण्डागारं विक्रीय विश्वविद्यालयं संस्थापितवान् । अनेकाः पाठशालाः अपि उद्घाटिताः तेन ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Swami Satchidananda gave a discourse in Kashi, where King Natwar Singh attended in disguise. Impressed, the king invited the Swami to his palace and proudly showed him the royal treasury. The Swami advised him to use the wealth for the welfare of the people by building schools. Inspired, the king sold his treasures, founded a university, and opened many schools.
कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः पुरुषाः एव सर्वाधिकम् आदरणीयाः भवन्ति' इति महाराजः अवदत् । किन्तु साधुः अवदत् 'भवान् एव महात्यागी' इति । तदनन्तरं या चर्चा प्राचलत् तया चर्चया महाराजस्य ज्ञानोदयः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king once visited a saint who had renounced all worldly attachments. Seeing the king, the saint was surprised. The king praised him, saying, "You are a true renunciant. Such people are the most respected in society." But the saint replied, "No, Your Majesty, you are the greater renunciant." The conversation that followed opened the king's eyes and gave him a new understanding of true renunciation.
कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं मारितवन्तः । किन्तु हरिणस्य समग्रमपि शरीरं स्वयम् एव खादनीयम् इति विचिन्त्य शृगालः एकम् उपायं करोति । चतुरः शृगालः स्वबुद्ध्या सर्वान् निवार्य सर्वमपि हरिणमांसं खादति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A jackal, a tiger, a mouse, a wolf, and a mongoose lived together as friends in a forest. One day, they spotted a healthy deer. Following the jackal's clever plan, they managed to kill it. But the jackal wanted the entire deer for himself. Using his wit, he tricked all his friends one by one and drove them away, keeping all the meat for himself.
From the publisher's feed