Sign up to save your podcasts
Or

पूर्वं वारणास्यां स्थितस्य बनारसहिन्दुविश्वविद्यालयस्य कुलपतिः आसीत् आचार्य: नरेन्द्रदेवः । अस्वस्थं बन्धुं द्रष्टुं कदाचित् सः सैकल्-रिक्षायानेन गच्छन् आसीत् । तं दृष्ट्वा कश्चन सुहृद् पृच्छति यत् सर्वकारस्य कार्-यानेन गन्तुम् अर्हति खलु इति । तदा आचार्यः वदति 'उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया । यदि मादृशानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत्? अतः मया वैयक्तिककार्याय सर्वकारीयव्यवस्थायाः उपयोगः न क्रियते' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Acharya Narendra Dev, once the Vice Chancellor of Banaras Hindu University, went by cycle-rickshaw to visit an ailing relative. A friend asked why he did not use the government car available to him. Narendra Dev replied: “In a high position, I must preserve purity of conduct. If people like me do not maintain integrity in personal behavior, how can society uphold morality? Therefore, I do not use government facilities for private purposes.”
By सम्भाषणसन्देशःपूर्वं वारणास्यां स्थितस्य बनारसहिन्दुविश्वविद्यालयस्य कुलपतिः आसीत् आचार्य: नरेन्द्रदेवः । अस्वस्थं बन्धुं द्रष्टुं कदाचित् सः सैकल्-रिक्षायानेन गच्छन् आसीत् । तं दृष्ट्वा कश्चन सुहृद् पृच्छति यत् सर्वकारस्य कार्-यानेन गन्तुम् अर्हति खलु इति । तदा आचार्यः वदति 'उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया । यदि मादृशानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत्? अतः मया वैयक्तिककार्याय सर्वकारीयव्यवस्थायाः उपयोगः न क्रियते' इति ।