बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • लक्ष्यपथे बधिरता

    कदाचित् मण्डूककुलेन स्पर्धा आयोजिता । समुच्चस्य स्तम्भस्य शिखरं यः आदौ प्राप्नुयात् सः विजयी भवेत् इति निर्णीतम् । बहवः मण्डूकाः अल्पस्य भागस्य आरोहणमात्रेण एव पतिताः अभवन् । किन्तु कश्चन लघुकायः मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान् । अन्ये मण्डूकानां मुखात् नैराशपूर्णानि वचनानि निर्गतानि । तथापि सः निरन्तरम् अग्रे अगच्छत् लक्ष्यं च प्राप्तवान्  । अन्ते ज्ञातं यत् सः मण्डूकः बधिरः इति । लक्ष्यैकदृष्टिः निरन्तरप्रयत्नः च तस्य साफल्यस्य कारणं जातम् । लक्ष्यपथे अस्माभिः अपि नैराश्यपूर्णानां वचनानां विषये बधिरता अवलम्बनीया  ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a frog competition was held. The frog that first reached the top of a tall pillar would be the winner. Many frogs fell after climbing only a short distance. A small frog slowly continued climbing while the others discouraged him with negative comments. Yet he kept moving forward and finally reached the top. In the end, it was discovered that the frog was deaf. His success came from his focus on the goal and his constant effort. The story teaches us to ignore discouraging words and stay focused on our goals.

    4 min
  • नन्दिनः प्रमादः

    इयं तु चिरपरिचिता एव कथा । शिवेन नन्दी उक्तः आसीत् यत् मानवैः कृषिकार्यं करणीयं, द्विवारं स्नानं कर्तव्यम्, एकवारं भोक्तव्यम् इति । किन्तु नन्दिना प्रमादः आचरितः । सः आगत्य मानवान् विपरीतम् अवदत् 'भवद्भिः कृषिकार्यं कृत्वा दिने द्विवारं भोक्तव्यम्, एकवारं स्नानं कर्तव्यम्' इति । प्रतिदिनं द्विवारं भोजनं कृतम् इत्यतः तैः जनितं धान्यम् अल्पेनैव कालेन समाप्तम् अभवत् । यदा शिवेन नन्दिनः प्रमादः ज्ञातः तदा सः नन्दिनं दण्डितवान् यत् तस्य कुले जाताः वृषभाः मानवानां कृषिकार्ये सहायाः भूत्वा क्षेत्राणि कर्षेयुः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This is a well-known story. Lord Shiva told Nandi to inform humans that they should farm, bathe twice a day, and eat once a day. But Nandi made a mistake and told them the opposite: to farm, eat twice a day, and bathe once a day. Because people ate more, their grain was quickly used up. When Shiva learned of Nandi’s mistake, he punished him by declaring that bulls born in Nandi’s lineage would help humans by ploughing their fields.

    7 min
  • शिलाखण्डायते स्पर्शमणिः अपि

    कदाचित् परशुरामभागवता स्पर्शमणिः लब्धः । गृहम् आगत्य पत्न्यै अयच्छत् । सख्याः नामदेवस्य पत्न्याः गृहे महती निर्धनता अस्ति इति कारणतः सा सख्यै 'अपेक्षितप्रमाणेन सुवर्णं प्राप्य मणिं प्रत्यर्प्यताम्' इत्युक्त्वा मणिम् अयच्छत् । सखी मणेः साहाय्येन सुवर्णं प्राप्य तं विक्रीय तण्डुलादिकम् आनीय पाकं सज्जीकृतवती । प्रवृत्तं सर्वं ज्ञात्वा नामदेवः दुराशामूलं मणिं नद्यां क्षिप्तवान् । तत् ज्ञात्वा यदा भगवान् मणिं प्रत्यर्पयितुम् अवदत् तदा नामदेवः नदीजले हस्तं प्रसार्य कञ्चित् शिलाखण्डम् उपरि आनीतवान् । शिलाखण्डस्य स्पर्शनेन तीरे पतितः अयोदण्डः सुवर्णखण्डः जातः  ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Parashurama received a philosopher’s stone and gave it to his wife, who lent it to Namdev’s poor wife. She used it to obtain gold and buy food. When Namdev learned of this, he threw the stone into the river, considering it a source of greed. Later, when he was asked to return the stone, he simply picked up an ordinary stone from the river. When it touched an iron rod lying on the bank, the rod turned into gold, showing Namdev’s spiritual power.

    4 min
  • असदृशं देशप्रेम

    वयं सर्वे महापुरुषं सुभाषचन्द्रं जानीमः एव  । लघुनि एव वयसि देशप्रेम्णा, धर्मप्रेम्णा  च सम्पन्नः आसीत् सः । आङ्ग्लमाध्यमशालायां पठन् अपि सः सूट् बूट् इत्यादिकं परित्यज्य भारतीयां वेष्टीं, युतकं, शिरस्त्रं च धर्तुम् आरब्धवान् । अपि च सः सर्वान् सहपाठिनः प्रेरयित्वा भारतीयेषु विद्यालयेषु प्रवेशितवान्, स्वयं च प्रविष्टवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    We all know the great leader Subhas Chandra Bose. Even at a young age, he was filled with love for his country and his religion. Although he studied in an English-medium school, he gave up wearing Western clothes such as suits and boots and started wearing traditional Indian dress. He also inspired his classmates to leave their schools and join Indian-run schools, and he did the same himself.

    3 min
  • स्पर्शमणितः अपि श्रेष्ठम्

    कश्चन स्वाभिमानी शास्त्रज्ञः च ब्राह्मणः गर्वं प्रदर्शयतः धनिकान् दृष्ट्वा 'मया अपि प्रभूतं सुवर्णं सम्पादनीयम्' इति विचिन्त्य द्वादशवर्षाणि कठोरं तपः आचरितवान् शिवं तोषययितुम्  । शिवः सन्तुष्टः भूत्वा तस्य स्वप्ने प्रत्यक्षीभूय 'वरः याच्यताम्' इति अवदत्  । 'स्पर्शमणिं प्राप्तुम् इच्छामि' इति अवदत् ब्राह्मणः । क्षणं विचिन्त्य शिवः 'तस्य प्राप्त्यर्थं वृन्दावने यमुनातीरे वसन्तं सनातनगोस्वामिमुनिम् उपसर्प्य पृच्छतु । सः दास्यति' इति अवदत् । तत्र गत्वा ब्राह्मणेन स्पर्शमणितः अपि श्रेष्ठं वस्तु अस्ति इति ज्ञातम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A proud and learned Brahmin wanted to become wealthy after seeing rich people showing off their riches. To please Lord Shiva, he performed severe penance for twelve years. Pleased with him, Shiva appeared in his dream and asked him to choose a boon. The Brahmin asked for the philosopher’s stone (a magical stone that turns iron into gold). Shiva told him to meet the sage Sanatana Goswami, who lived on the banks of the Yamuna in Vrindavan. When the Brahmin met the sage, he learned that there was something far more valuable than the philosopher’s stone.

    6 min
  • विचित्रा अपेक्षा

    वीरपुरस्य राजा जयसिंहः शान्तिप्रियः प्रजावत्सलः च आसीत् ।  तस्य देशः सम्पत्समृद्धः आसीत् । प्रतिवेशी राजा विजयसिंहः युद्धप्रियः । तस्य सैन्यं महत् आसीत् । कदाचित् विजयसिंहः स्वस्य सामन्तत्वम् अङ्गीकर्तुं जयसिंहाय वार्तां प्रेषयति । जयसिंहः चिन्ताक्रान्तः जातः । किन्तु तस्य मन्त्री सुबुद्धिः तं सान्त्वयन् 'अहम् उपायेन कार्यं साधयिष्यामि' इति उक्त्वा विजयसिंहस्य आस्थानं प्रति गच्छति । तत्र उपायेन विजयसिंहं पराजयते । विजयसिंहः अपि युद्धविचारं परित्यजति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    King Jayasimha of Virapura was peace-loving and cared deeply for his people. His kingdom was prosperous. The neighboring king, Vijayasimha, loved war and had a large army. One day, he demanded that Jayasimha accept his rule. Jayasimha became worried, but his wise minister, Subuddhi, assured him that he would solve the problem. He went to Vijayasimha's court and cleverly defeated him through strategy. As a result, Vijayasimha gave up his plans for war.

    4 min
  • धीरा बाला

    काचित् पञ्चदशवर्षीया धीरा बालिका पित्रा सह नौकायाम् उपविश्य रथोत्सवार्थं गच्छति स्म । नद्याः‌ अपरस्मात् भागात् कौचित् भीत्या त्वरया च जले तरन्तौ आगच्छन्तौ दृष्टौ । तयोः भयहेतुः आसीत् - कश्चन अनुधावन् मकरः । सा धीरा बालिका नौकातः जले कूर्दित्वा तौ नौकां‌ प्रति आनीतवती । बाल्यावस्थायामेव एतादृशं‌ साहसं प्रदर्शितवती सा एव झान्सीराज्ञी लक्ष्मीबाई । तस्याः‌ बालायाः पिता एव भारतस्य प्रातःस्मरणीयेषु देशभक्तेषु अन्यतमः मोरोपन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A brave fifteen-year-old girl was travelling by boat with her father to attend a chariot festival. She saw two people swimming in fear, chased by a crocodile. Without hesitation, she jumped into the river and brought them safely to the boat. That courageous girl was none other than Rani Lakshmibai of Jhansi. Her father was Moropant Tambe, one of India's respected patriots.

    3 min
  • कुशला पत्नी

    कश्चन गृहस्थः प्रतिदिनं भोजनसमये स्वस्य पात्रस्य पार्श्वे एकां सूचीम्, एकं जलपात्रं च स्थापयति स्म ।  तस्य कारणं किम् इति तस्य गृहस्थस्य गुणवती कार्यकुशला च पत्नी सुशीला न जानाति स्म । एवमेव वर्षाणि अतीतानि । अथ कदाचित् मरणावस्थां प्राप्तवतीं सुशीलां कापि अपेक्षा अस्ति चेत् वदतु इति पतिः अवदत् । तदा सा सूच्याः जलपात्रस्य च विषयम् अपृच्छत् । तदा पतिः अवदत् 'भवती परिवेषणसमये यदि अन्नपुलकान् पातयेत् तर्हि तेषाम् उन्नयनाय क्षालनाय च तौ पार्श्वे स्थापयामि स्म । किन्तु जागरूकतया भवती परिवेषयति स्म सदापि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A man always kept a needle and a bowl of water beside his plate during meals. His wife, Sushila, never knew why. When she was nearing the end of her life, she asked him about it. He explained that they were meant to pick up and clean any grains of food that might fall while she served. However, because she always served so carefully, he never had to use them.

    5 min
  • तृष्णासर्पस्य दंशनम्

    कौशम्ब्याः राजपुरोहितस्य पुत्रः अभिरूपकपिलः अध्ययानाय आचार्यस्य इन्द्रदत्तस्य समीपं गतः । तस्य गृहे काचित् सेविका अभिरूपस्य सेवाम् अकरोत् येन सः सन्तुष्टः जातः । कदाचित् सा सेविका उत्तमानि वस्त्राणि आभरणानि च अयाचत । किन्तु अभिरूपः अकिञ्चनः आसीत् । सा एकम् उपायम् अवदत् 'प्रातःकाले यः प्रथमम् अभिवादनं करोति तस्मै द्विमाषमितं सुवर्णं ददाति राजा' इति । किं अभिरूपः तस्याः सेविकायाः कथनानुसारं करोति ? राज्ञः प्रासादं गत्वा सुवर्णं प्राप्स्यति उत न इति सम्पूर्णां कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Abhirupa Kapila, the son of the royal priest of Kaushambi, went to study under the teacher Indradatta. In his teacher’s house, a maidservant looked after him well, and he was pleased with her service. One day, she asked him for fine clothes and ornaments. But Abhirupa was poor and had no money. The maid then told him of a way to earn some gold: the king gave two gold coins to the person who greeted him first in the morning. Whether Abhirupa followed her advice, went to the king’s palace, and received the gold is revealed in the rest of the story.

    3 min
  • क्व गतं धनम्?

    कश्चन सुहृदयः दयालुः च राजा दरिद्राः अपि धनवन्तः स्युः इति विचिन्त्य धनिकेभ्यः धनं स्वीकृत्य दरिद्रेभ्यः दत्तवान् । किन्तु देशस्य दुस्स्थितिः अनुवर्तमाना एव अस्ति इति राजा अवगतवान् । राज्ञः चिन्ता आसीत् 'दरिद्रेभ्यः दत्तं धनं क्व गतम्?' इति । तदा मन्त्री तस्य कारणम् अवदत् । अपि च अग्रे किं किं करणीयम् इत्यपि अवदत् । तस्मात् अल्पे एव काले तदीयं राज्यं निर्धनतारहितं जातम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A kind and compassionate king wanted even the poor people in his kingdom to become wealthy. So, he collected money from the rich and gave it to the poor. However, he noticed that the condition of the country had not improved. The king wondered where the money given to the poor had gone. The minister explained the reason and also suggested what should be done next. Following this advice, the kingdom soon became free from poverty.

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।