
Sign up to save your podcasts
Or


अरुणाचलप्रदेशे रूपग्रामे उभौ सहोदरौ निवसतः स्म । तयोः ज्येष्ठः बौद्धसंन्यासी, कनीयान् च व्याधवृत्तिम् आश्रित्य गृहपोषणं करोति स्म । बौद्धसंन्यासिने मांससेवनं न रोचते स्म अतः कदाचित् सः मांसभक्षणं परित्यक्तवान् । सः व्याधवृत्तिं त्यक्तुम् अनुजम् प्रेरयति । अनुजः कथं तां वृत्तिं त्यज्यति इति कथायाः वस्तु वर्तते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village called Rupa in Arunachal Pradesh, two brothers lived together. The elder brother was a Buddhist monk, while the younger one supported the family by hunting. The monk did not like eating meat and had given it up. He encouraged his younger brother to give up hunting as well. This story tells how the younger brother eventually gave up his occupation of hunting.
कृषौ यथाकालं कार्याणि करणीयानि । अन्यथा कृषिः विनश्यति । यथाकालम् अकृतं कार्यं फलं न दादाति । कस्मिंश्चित् राज्ये यद्यपि विशालं कृषिक्षेत्रम् आसीत् तथापि तत् शुष्कम् । कश्चन कृषिकः भूमिगुणम् अधीत्य कृषिम् आरब्धवान् । अन्यान् अपि प्रेरितवान् । तस्मात् पञ्चवर्षाभ्यन्तरे राज्यस्थानि सर्वाणि कृषिक्षेत्राणि धान्यसम्पन्नानि जातानि ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Farm work must be done at the proper time; otherwise, farming suffers. Work that is not done on time does not give good results. In a certain kingdom, there was a large farming area, but it was dry and unproductive. A farmer studied the nature of the soil and began farming properly. He also encouraged others to do the same. As a result, within five years, all the farmlands in the kingdom became rich in crops and grain.
कथायाम् अस्यां देवराजरामदेवयोः स्वभावः विवृतः अस्ति । यः समाजहितं चिन्तयति सः मृतोऽपि जीवति । अतः रामदेवः तु विंशतेः वर्षेभ्यः पूर्वमेव दिवं गतः चेदपि जनाः तं प्रतिदिनं स्मरन्ति । यः स्वार्थमात्रं चिन्तयति सः तु जीवन् अपि मृतः एव । अतः देवराजे जीवति सति अपि कोऽपि तस्मिन् आदरवान् न ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story describes the nature of Devaraja and Ramadeva. A person who thinks about the welfare of society lives on even after death. Therefore, although Ramadeva died more than twenty years ago, people still remember him every day. But a person who thinks only about himself is as good as dead even while living. So, even though Devaraja was alive, no one respected him.
काचित् पुत्री शयनसमये जनकम् एकां कथां श्रावयितुम् अवदत् । तदा पिता कच्छपबककथां वक्तुम् आरभते । तदा पुत्री तम् अवरुणद्धि । यतः तत्र कच्छपस्य मरणं भवति इति कारणतः । किन्तु पिता वदति यत् नूतनां कच्छपबककथां वदामि इति । कथायां तस्यां कच्छपस्य हानिः न भवति इति श्रुत्वा आनन्दिता पुत्री निद्रां कृतवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One night, a daughter asked her father to tell her a story before going to sleep. The father began to tell the story of the tortoise and the cranes. The daughter stopped him because, in that story, the tortoise dies. The father then said that he would tell a new version of the story. When the daughter heard that the tortoise would not be harmed in this version, she became happy and went to sleep.
कस्मिंश्चित् कुटुम्बे पुत्रः माता पिता चेति त्रयः सदस्याः आसन् । पुत्रः रामः यद्यपि अध्ययने निपुणः तथापि कदापि किमपि कार्यं न करोति स्म । विवाहोत्तरमपि सः तथैव आसीत् । तस्य पत्नी उमा बुद्धिमती व्यवहारकुशला च आसीत् । अल्पे एव काले पिता दिवं गतः । तथापि रामः कार्ये धनसम्पादने वा प्रवृत्तः न जातः । माता स्नुषा च मिलित्वा कमपि उपायं कृत्वा रामस्य कर्तव्यं किम् इति ज्ञापयतः । ततः सः परिश्रमपूर्वकं धनसम्पादने उद्युक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a family, there were three members: a son, his mother, and his father. The son, Rama, was good at studies but never did any work. Even after marriage, he remained the same. His wife, Uma, was intelligent and practical. After some time, Rama’s father passed away, but Rama still did not try to work or earn money. Then his mother and wife together found a way to make him understand his responsibilities. After that, Rama began to work hard and started earning money.
देवः देवालये शिलारूपेण मूर्तिरूपेण वा न भवति । सः जनानां हृदये भवति । दीनानां रुग्णानां दरिद्राणां च प्रतिफलनिरपेक्षया सेवा करणीया । तस्मात् देवः सन्तुष्टः भवति । भगवदनुग्रहः अपि प्राप्यते । इयं कथा एतस्य उत्तमम् उदाहरणं भवितुमर्हति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
God does not exist only in temples or in stone idols. He lives in the hearts of people. We should serve the poor, the sick, and the needy without expecting anything in return. This pleases God and brings His blessings. This story is a good example of that teaching.
पिपासया बाधितः कश्चन यात्रिक: कञ्चन कूपम् अपश्यत् । स: कृषकस्य समीपं गत्वा रज्जुं घटं च अयाचत । कृषक: राज्ज्वादिकम् आनीय कूपात् जलम् उद्धृत्य यात्रिकम् अपाययत् । कूपस्य जलम् अमृतोपमयम् आसीत् इति यात्रिक: अवदत् । किन्तु स: कृषक: तावत् पर्यन्तं जलस्य उपयोगं न कृतवान् आसीत् यत: तेन कूपखननार्थम् ऋणं स्वीकृतम् आसीत् । ऋणप्रत्यर्पणपर्यन्तं कूपजलस्य उपयोगे स: अनधिकारी इति मन्यते स्म ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A thirsty traveller saw a well and went to a farmer asking for a rope and a bucket. The farmer drew water from the well and gave it to him. The traveller said that the water tasted like nectar. However, the farmer had never used the water himself because he had taken a loan to dig the well. He believed that until the loan was repaid, he had no right to use the well’s water.
यदा भगवान् ब्रह्मा जगत् असृजत् तदा सर्वान् आहूय पञ्चविंशतिवर्षात्मकम् आयुः किं पर्याप्तम् ? इति अपृच्छत् । तदा मानवः तावत् न पर्याप्तम् इति अवदत् । तदा गर्दभः कुक्कुरः उलूकः च स्वस्य स्वस्य वयसः पञ्चविंशतिं वर्षाणि मनुष्यस्य कृते दातुम् अर्हति भवान् इति भगवन्तम् अवदन् । अधुना मानवेन शतायुष्कत्वं प्राप्तम् । अतः एव मनुष्यः आदौ पञ्चविंशतिं वर्षाणि मनुष्यः इव जीवनं, पुनः पञ्चविंशतिं वर्षाणि गर्दभः इव सर्वकार्याणां वहनं, अग्रे पञ्चविंशतिं वर्षाणि कुक्कुरवत् गृहरक्षणं, अग्रिमेषु पञ्चविंश्त्यां वर्षेषु उलूकः इव अवसरं निरीक्षमाणः जीवत्यागं करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Brahma created the world, he gave every being a lifespan of twenty-five years. The human felt it was too short. So, the donkey, the dog, and the owl each gave twenty-five years of their lives to the human. Thus, humans received a lifespan of one hundred years. It is said that people live the first twenty-five years as humans, the next twenty-five like donkeys carrying burdens, the following twenty-five like dogs guarding the home, and the last twenty-five like owls waiting for the end of life.
सूफीमतस्य साधुषु अन्यतमः खय्यामः शिष्येण केनचित् सह परिभ्रमति स्म । ग्रामात् ग्रामं गच्छाद्भ्यां मार्गस्य निबिडम् अरण्यमेकं क्रमणीयम् अभवत् । तदा विलक्षणं घटनाद्वयं समभवत् । यदा शिष्यः गुरोः विलक्षणस्य व्यवहारस्य कारणम् अपृच्छत् तदा खय्यामः ईश्वरस्य मानवस्य च सङ्गः कारणम् इति विवृत्य ईश्वरे दृढा श्रद्धा स्थापनीया, भगवान् पदे पदे अस्मान् परीक्षते.... इत्यादीनि हितवचनानि अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Khayyam, one of the Sufi saints, was travelling with one of his disciples. As they went from one village to another, they had to pass through a dense forest. During the journey, two unusual incidents took place. When the disciple asked the reason for his teacher’s strange behaviour, Khayyam explained that it was due to the relationship between God and human beings. He advised the disciple to have strong faith in God and said that God tests us at every step of life. He also shared many other wise teachings.
सुवर्धनामकः कश्चन नृपः प्रजानां समस्यानां परिहारं यथाशीघ्रं करोति स्म | कदाचित् कस्यचन साधोः स्थालिकां पीठम् उपाधानं भिक्षापात्रं ढप्पली (एकं वाद्यं) च चोरिताः जाताः | राजा अनुक्षणं भटान् अन्वेषणाय प्रेषितवान् | केषाञ्चन दिनानाम् अनन्तरं कञ्चित् जनं निगृह्य नृपस्य अभिमुखम् आनयन् भटाः | किन्तु तेन चोरेण केवला स्थालिका एव चोरिता आसीत् | तदा साधुः अवदत् सः स्थालिका एव उपाधानत्वे, रोटिकानिर्माणसमये पीठत्वे, वाद्यत्वे, भिक्षापात्रत्वे च उपयुज्यते इति |
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a king named Suvardhana who solved the problems of his people very quickly. One day, a sage complained that his cooking pot, seat, pillow, begging bowl, and a drum had been stolen. The king immediately sent his soldiers to search for the thief. After a few days, the soldiers caught a man and brought him before the king. However, the thief had stolen only a single pot. The sage then explained that he used the same pot as a pillow while sleeping, as a seat, for making bread, as a musical instrument, and also as a begging bowl.
From the publisher's feed