Sign up to save your podcasts
Or

कदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्यप्रकरणस्य कस्यचित् विचारणा जाता । तदा रजकेन कश्चन कठोरदण्डः विहितः । तावता लिपिकारः न्यायनिर्णायकम् उपसर्प्य 'एषः अस्मदीयः जनः' इति मन्दस्वरेण अवदत् । तस्मै अपि कठोरदण्डः विहितः । ततः देशे अपराधकृत्येषु महती न्यूनता जाता ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king in disguise saw a washerman punishing donkeys that broke the line. Impressed by his strict fairness, the king made him judge. In his very first case of theft, the washerman imposed a harsh punishment. When a clerk whispered that the accused was his own man, the washerman punished him equally without hesitation. His impartiality and firmness soon brought a remarkable decline in crime throughout the land.
By सम्भाषणसन्देशःकदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्यप्रकरणस्य कस्यचित् विचारणा जाता । तदा रजकेन कश्चन कठोरदण्डः विहितः । तावता लिपिकारः न्यायनिर्णायकम् उपसर्प्य 'एषः अस्मदीयः जनः' इति मन्दस्वरेण अवदत् । तस्मै अपि कठोरदण्डः विहितः । ततः देशे अपराधकृत्येषु महती न्यूनता जाता ।