बालमोदिनी

अत्याज्या जन्मभूमिः


Listen Later

पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः‌ जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति स्म । कदाचित् शौचार्थं गतेन वृद्धेन पत्रविहीने शुष्के आम्रवृक्षे एकः काकः दृष्टः । तत् दृष्ट्वा वृद्धः अचिन्तयत् यत् शुष्केऽपि वृक्षे अयं काकः वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः?’ इति । एतत् सर्वं ज्ञात्वा गृहजनाः ग्रामत्यागस्य विचारं त्यक्तवन्तः । अनन्तरं तस्मिन् ग्रामे एव कृषिकार्यं सम्यक् सम्पाद्य सः वृद्धकृषकः पुनः धनाढ्यः सन् महत् सुखम् अनुभूतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Long ago, due to the overflowing waters of the Kaushiki River, many villages became deserted. A poor farmer and his family also suffered hardships and considered leaving their village. One day, while going out for his morning routine, the farmer spotted a crow perched on a barren mango tree. He wondered, ‘Even this crow refuses to abandon the dry tree. Are we, as humans, weaker than a mere bird?’. Realizing this, his family abandoned their plan to leave. They stayed back, worked diligently on their land, and over time, their efforts bore fruit. The farmer regained prosperity and lived a life of contentment in the same village.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः