बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • सिद्धिः चिन्तनानुरिणी

    काचन लोकोक्तिः श्रूयते -’सिद्धिः सदा अस्माकं चिन्तनम् अवलम्बते' इति । कदाचित् अनावृष्ट्या सरोवरस्थानां जलचराणां मरणम् आरब्धम् । तत्रत्याः भीताः त्रयः मण्डूकाः अन्यत् जलस्थानम् अन्विष्यतः अग्रे अचलन् । किन्तु तैः कुत्रापि जलस्रोतः न प्राप्तम् । अग्रे कश्चन कूपः दृष्टः । प्रथमः वदति अत्र अवतरामः इति । द्वितीयः वदति अन्धकारकारणतः कूपे जलम् अस्ति वा न वा इति न ज्ञायते इति । अतः पूर्वतनं सरोवरं प्रति गच्छामः इति । किन्तु तृतीयः वदति अस्मासु चलितुम् इतोऽपि शक्तिः अस्ति खलु? अग्रे महत् जलस्रोतः एव प्राप्येत इति । ततः चलद्भिः तैः अनतिदूरे एव सुविशाला पुष्करिणी प्राप्ता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A saying goes: “Success always depends on our thinking.” Once, due to drought, aquatic life in a lake began to perish. Three frightened frogs set out in search of another water source. After a long search, they found a well. The first frog said, “Let’s jump in.” The second hesitated, saying, “It’s dark. We don’t know if there’s water inside. Let’s return to the old lake.” The third said, “We still have strength to move ahead. Surely, a better water source lies ahead.”Trusting their belief, they continued onward and soon discovered a vast, beautiful pond.

    3 min
  • प्रजाहितचिन्तकः देवापिः

    पूर्वं कश्चन प्रतीपनामा राजा आसीत् यस्य देवापिः, शन्तनुः, बाह्लीकः चेति त्रयः पुत्राः आसन् । ज्येष्ठः देवापिः श्वेतकुष्ठरोगग्रस्तः इति कारणतः प्रतीपे दिवङ्गते द्वितीयः पुत्रः शन्तनुः सिंहासनम् आरूढवान् । शन्तनुः यद्यपि धर्मेण एव राज्यं पालितवान् तथापि द्वादशवर्षाणि यावत् वृष्टिः एव न जाता । कारणम् आसीत् यत् ज्येष्ठपुत्रे सति अनन्तरजः सिंहासनम् आरूढवान् यत् तत् धर्मलोपाय । इदम् एव क्षामस्य कारणम् इति । सिंहासनाधिकारः न प्राप्तः चेदपि अल्पम् अपि खेदम् अप्राप्नुवन् देवापिः क्षामनिवारणाय राजधानीम् आगत्य यागं निवर्तितवान् । सन्तुष्टः इन्द्रः‌ वृष्टिम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    King Pratipa had three sons: Devapi, Santanu, and Bahlika. Though Devapi was the eldest, he suffered from leprosy, so after Pratipa’s death, Santanu ascended the throne. Santanu ruled righteously, yet for twelve years, no rain fell. The reason: the throne had passed to a younger son while the elder was still alive — a violation of dharma. Despite being denied kingship, Devapi bore no resentment. To end the drought, he came to the capital and performed a sacred ritual. Pleased, Indra sent rain, restoring prosperity.

    4 min
  • बीजभूतं सम्भाषणम्

    डा. राजेन्द्रप्रसादस्य गान्धिवर्यस्य च एकदा मेलनं जातम् । गान्धिविषये विशेषाभिमानः आसीत् राजेन्द्रप्रसादस्य  ।  चम्पारणीयकृषिकाणां विषये शुल्कं विना न्यायालये वादं कृत्वा राजेन्द्रप्रसादः तेषां पक्षे समुचितं कार्यं करोति इति गान्धिना ज्ञातम् । सम्भषणसमये 'समग्रे देशे जनाः दुराचारविषयतां गताः सन्ति । तेषां विषये कः सङ्घर्षं कुर्यात् ....’ इति राजेन्द्रप्रसादः अवदत् । तदा क्षणं विचिन्त्य गान्धिः 'अहम् एतस्मिन् क्षेत्रे कार्यं कर्तुं शक्नोमि' इति अवदत् । एतस्य सम्भाषणस्य परिणामतः एव गान्धिवर्यः स्वान्तन्त्र्यसङ्ग्रामस्य नेतृत्वं अवहत् ।  
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Dr. Rajendra Prasad once met Mahatma Gandhi, for whom he held great admiration. Gandhi learned that Rajendra Prasad had represented the farmers of Champaran in court without charging any fee, working sincerely for their cause. During their conversation, Rajendra Prasad remarked, “People across the country are steeped in injustice. Who will fight for them?” After a moment of reflection, Gandhi replied, “I can take up this task.” This pivotal exchange inspired Gandhi to take up leadership of India’s freedom movement.

    4 min
  • आसन्दस्य न्यायनिर्णयः

    रोमहर्षनामा कश्चन वणिक् विदेशगमनात् पूर्वं स्वधनं रक्षितुं मित्रं लोभनाथं याचितवान् । दीर्घकालानन्तरं रोमहर्षः प्रत्यागत्य स्वधनं प्रत्यर्पितुम् अवदत् किन्तु धनं बहोः कालात् पूर्वमेव प्रत्यर्पितवान् इति असत्यम् अवदत् लोभनाथः । ततः ताभ्यां न्यायालयं प्रति गतम् । तत्र कस्यचन आसन्दस्य  दक्षिणभागे प्रतिनिबद्धः तीक्ष्णः खड्गः अपराधिनः सत्यतायाः परीक्षां कृत्वा असत्यवादिनः हस्तं कर्तयति ।  आसन्दे रोमहर्षः उपविश्य लोभनाथेन मम धनं प्रतिदातव्यम् इति उक्तवान् । आसन्दः खड्गप्रहारं न अकरोत् । लोभनाथः आसन्दम् उपसर्प्य रोमहर्षाय एकं दण्डं दत्त्वा आसन्दे उपविश्य 'मया धनं तस्मै प्रतिदत्तम्' इति उक्तवान् । आसन्देन तूष्णीं स्थितम् । आसन्देन विपर्यस्तं वचनद्वयं कथम् अङ्गीकृतम् ? तयोः कः सत्यं वदति ? अग्रे किं भवति ? इति जिज्ञासायां कथां शृण्वन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Romaharṣa, a merchant, entrusted his wealth to his friend Lobhanātha before traveling abroad. Years later, Lobhanātha falsely claimed he had already returned it long ago. They went to a court where a special seat had a sharp sword fixed to its side — it would strike the hand of anyone who lied. Romaharṣa sat first and declared, “Lobhanātha must return my money.” The sword did nothing. Then Lobhanātha approached, handed Romaharṣa a small stick, sat on the seat, and said, “I already returned the money to him” and the sword remained still. Why did the sword not react to these contradictory claims? Who was truly honest? What happens next? The mystery deepens… listen on to uncover the truth.

    3 min
  • शक्तिशाली कः?

    कश्चन पिता पुत्रस्य अध्ययनाय उत्तमं प्रयासं कृतवान् । पुत्रः अपि उत्तमम् अध्ययनं कृत्वा उद्योगे सफलः अभवत् । विवाहः अपि सम्पन्नः । सः संस्थायाः प्रमुखः अपि अभवत् । कदाचित् पिता कार्यालयं गत्वा पुत्रं दृष्ट्वा सन्तुष्टः अभवत्, प्रश्नम् अपृच्छत् 'एतस्मिन् प्रपञ्चे शक्तिशाली जनः कः?'। पुत्रः स्वम् एव शक्तिशालिनम् अवदत्, यत् श्रुत्वा पितुः मुखं म्लानं जातम् । कारणं पिता एव शक्तिशाली इति वदेत् पुत्रः इति आशयः आसीत् पितुः । पिता पुनः पृष्टवान् 'किमर्थं आत्मानं शक्तिशालिनम् उक्तवान्?'। पुत्रः उत्तरयति 'प्रश्नकरणसमये भवतः हस्तः मम स्कन्धे आसीत् । यस्य स्कन्धे पितुः हस्तः स्यात् सः एव शक्तिशाली ' । पुत्रस्य वचनं श्रुत्वा तं दृढतया आलिङ्ग्य आनन्दाश्रूणि स्रावितवान् पिता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A father worked tirelessly to support his son's education. The son studied well, succeeded in his career, got married, and eventually became the head of an organization. One day, the proud father visited his son's office and asked, “Who is the most powerful person in the world?” The son replied, “I am.” The father’s face fell—he had hoped the son would say, “You are.” When asked why he considered himself powerful, the son gently said, “When you asked me, your hand was on my shoulder. Whoever has his father's hand on his shoulder is truly powerful.” Hearing this, the father embraced his son tightly, tears of joy flowing from his eyes.

    4 min
  • अभ्यर्थिनः परीक्षा

    कस्मिंश्चित् गुरुकुले शिक्षकस्य आवश्यकता आसीत् । तदर्थं त्रयः अभ्यर्थिनः उपस्थिताः । आचार्यः जवनिकायाः पृष्ठतः स्थित्वा प्रश्नं कृतवान् "ज्ञानं प्रमुखम् उत छात्रप्रीतिः?" प्रथमः ज्ञानस्य प्राधान्यम् उक्तवान्, द्वितीयः उभयोः महत्त्वम् अङ्गीकृतवान् । तृतीयः छात्रप्रीतिः प्रमुखा इति मत्वा, ज्ञानं प्रयत्नेन अपि वर्धयितुं शक्यम् इति अवदत् । गुरुणा पुनः प्रश्नः कृतः "किमर्थं जवनिकायाः पृष्ठतः स्थित्वा मया प्रश्नः कृतः?" अभ्यर्थिनः पक्षपातं न भवेत्, रूपं वा वाणी वा प्रभावं न जनयेत् इति द्वौ अभ्यर्थिनौ विभिन्नं कारणम् अवदताम् । तृतीयस्य उत्तरं युक्ततमम् आसीत् - अभ्यर्थिनः ज्ञानं, छात्रप्रीतिं, मधुरभाषितां च परीक्षितुम् एव भवता एवं कृतम् इति । अतः आचार्यः तम् एव अध्यापकत्वेन चितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain gurukula, a teacher was needed. Three candidates appeared. The acharya, hidden behind a curtain, asked, “What is more important—knowledge or affection for students?” The first emphasized knowledge, the second valued both equally, and the third said student affection is primary, as knowledge can be cultivated with effort. The acharya then asked why he had questioned them from behind a curtain. Two gave varied reasons to avoid bias, but the third insightfully replied, “It was to assess our knowledge, student empathy, and gentle speech without external influence.” Impressed, the acharya chose him as the teacher.

    3 min
  • कर्मयोगिनी अहल्याबाई

    कदाचित् मालवादेशस्य नृपतिः सुबेदारः मल्हाररावहोलकरः, पट्टमहिषी गौतमबायी, तनयः खण्डेरावहोलकरः च 'चौण्डि' नामके ग्रामे प्रवासरतः आसन् । तदा कस्यचन देवालयस्य कलशस्थापनार्थं राज्ञी समाहूता । यदा पूजाकार्याणि आरब्धानि तदा सहसा तत्र जलोद्भवः अभवत् । यदा राज्ञी अर्चकैः सूचिते गर्ते पवित्रां शिलां स्थापयितुम् ऐच्छत् तदा कस्याश्चित् बालिकायाः ध्वनिः श्रुतः 'स्थग्यतां महाराज्ञि ! ग्रामे कुत्रापि पेयजलस्य स्त्रोतः नास्ति, अत्र कूपं पुष्करिणीं वा निर्मास्यामः' इति । औचित्यपूर्णं कथनं श्रुत्वा पुष्करिणीं निमातुं सुबेदारः आदिशत् । बालिकायाः धैर्यं दृष्ट्वा सः तां स्वस्नुषां अकरोत् । सा एव प्रातस्स्मरणीया राज्ञी अहल्याबायीहोलकरः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, the ruler of Malwa, Subedar Malharrao Holkar, along with his queen Gautamabai and son Khanderao Holkar, was residing in the village of Chaundi. The queen was invited for a temple ceremony to install a sacred finial. During the rituals, a water spring emerged. When she wished to place a sacred stone, a brave girl suggested building a pond instead, as the village lacked drinking water. Impressed, Subedar Malharrao Holkar ordered the pond’s construction and later made the girl his daughter-in-law. She became the revered queen Ahilyabai Holkar.

    4 min
  • पितुः विषये श्रद्धा

    कश्चन महाधनिकः कस्यचन रत्नविक्रेतुः आपणं गत्वा अधिकमूल्ययुक्तानि रत्नानि दर्शयितुम् उक्तवान् । रत्नविक्रेता दर्शितवान् । इतो‌Sपि अमूल्यानि रत्नानि दर्शयताम् इति पृष्टे विक्रेता अवदत् यत् अन्यस्मात् प्रकोष्ठात् आनयामि इति । यदा अन्यस्मिन् प्रकोष्ठे विक्रेता प्रविष्टः, सुप्तः पिता दृष्टः तेन । सुप्तः पिता यावत् न जागृयाद् तावत् कवाटोद्घाटनं कर्तुं न शक्यम् इति कारणतः सः रिक्तहस्ततया प्रत्यागतः । तथैव तेन धनिकः उक्तः च । पितुः विषये आपणिकस्य श्रद्धां दृष्ट्वा सन्तुष्टः धनिकः किञ्चित् प्रतीक्ष्य रत्नं क्रीत्वा ततः निर्गतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain wealthy man went to the shop of a gem-seller and asked to be shown gems of high value. The gem-seller showed him some. When the wealthy man asked to see even more priceless gems, the seller replied that he would bring them from another chamber. When the seller entered the other chamber, he saw his father sleeping there. Since the door could not be opened without waking his father, he returned empty-handed. He explained this to the wealthy man. Seeing the seller’s reverence for his father, the wealthy man was pleased. After waiting a little while, he purchased a gem and then departed.

    3 min
  • दानसंस्कारः

    कदाचित् कश्चन महात्मा कस्यचन निर्धनगृहस्य पुरतः स्थित्वा भिक्षां याचितवान् । तदा तस्मिन् गृहे काचित् बालिका अवदत् 'गृहे दानयोग्यं किमपि नास्ति' इति । महात्मा अवदत् 'दानक्रिया एव मुख्या । मूल्यं वस्तुनि नास्ति, भावे एव अस्ति । गृहस्य पुरतः स्थितां धूलिमपि दातुं शक्यते' इति । बालिका श्रद्धया धूलिं गृहीत्वा महात्मनः पात्रे न्यवेशयत् । एतत् दृष्ट्वा शिष्यः पृष्टवान् यत् धूलिदानेन किं प्रयोजनम् अस्ति इति । 'दानम् अवश्यं करणीयम् इति बुद्धिः एतस्याः घटनायाः कारणतः तस्यां बालिकायाम् उत्पद्यते । अतः धूलिदानम् अपि महत्त्वपूर्णं फलदं च भविष्यति' इति अवदत् महात्मा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a noble sage stood before a poor household and asked for alms. A young girl from the house replied, “There is nothing in our home worthy of being given.” The sage gently said, “The act of giving itself is what matters. Value lies not in the object, but in the intention. Even the dust lying in front of the house can be offered.” With devotion, the girl picked up some dust and placed it in the sage’s bowl. Witnessing this, a disciple asked, “What purpose does giving dust serve?” The sage replied, “This incident awakens the understanding in the girl that giving is essential. Therefore, even the offering of dust will bear meaningful fruit.” This story beautifully conveys that the spirit of generosity matters more than the material value of the gift.

    3 min
  • आहारसेवनक्रमः पशूनाम् इव स्यात्

    कश्चन महात्मा आश्रमम् आगतान् भक्तान् स्वागतीकृत्य भोजनाय निमन्त्रितवान् । भोजनसमये सः महात्मा अवदत्  'मानवस्य आहारसेवनक्रमः पशूनामिव स्यात् । पशवः केवलं बुभुक्षायां सत्याम् एव खादन्ति । भगवता विहितम् आहारम् एव सेवन्ते । मानवः तु बुभुक्षायाम् अजातायाम् अपि खादति, विवाहादौ मितम् अतिक्रम्य भोजनं करोति, स्वस्य आरोग्यं नाशयति । स्वास्थ्यरक्षणं मानवाधीनम् अस्ति, किन्तु तत्र आदरः न दृश्यते । व्यायामेन च स्वास्थ्यदोषाणां निवारणं शक्यं, तथापि मानवः तदपि न करोति । अन्नं ब्रह्म, पूज्यं च । एकः अपि अन्नकणः न व्यर्थीकरणीयः । सद्विचारपूर्वकं सेवनम् एव सत्फलं ददाति' इति । भक्ताः एतान् विचारान् स्मरन्तः तृप्त्या भोजनं कृत्वा निर्गताः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a revered sage welcomed devotees to his ashram and invited them for a meal. During the meal, he shared a profound reflection: “A human’s eating habits often resemble those of animals. Animals eat only when hungry and consume what nature has assigned to them. But humans eat even without hunger, and during occasions like weddings, they overindulge, harming their own health.” He emphasized that maintaining health is within human control, yet people neglect it. Though exercise can prevent health issues, many avoid it. He reminded everyone that food is sacred—Annam Brahma—and must be respected. Not even a single grain should be wasted. Only food consumed with thoughtful awareness yields true benefit. The devotees, deeply moved by these insights, ate mindfully and departed with a sense of fulfillment.

    5 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।