बालमोदिनी

मा कुरु गर्वम्


Listen Later

कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता ।  सहसा तस्याः‌ दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च  । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अविचित्य देवविग्रहस्य चरणयोः समर्पितवान् । स्वस्य अधोगतिं दृष्ट्वा कलिकया महान् खेदः अनुभूतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, a bud admired her unparalleled beauty and became proud. Suddenly, her gaze fell upon a nearby dust-covered piece of stone and she said, 'What a distorted state the Creator has placed you in!' The stone remained silent and unresponsive. The next day, a sculptor arrived and carved that stone into an idol of a deity, which he then placed in a temple. On the following day, the bud, now turned into a flower, was plucked by a devotee and offered at the feet of the deity's idol. Witnessing her own downfall, the bud felt immense regret.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः