Sign up to save your podcasts
Or

सातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तवान् । कदाचित् सातारानगरम् आगतवन्तं रामं वार्धक्यं प्राप्तवान् सः धनिकः देवरायः एव स्वागतीकृत्य सत्कृत्य पूर्वतनघटनां स्मरन् क्षमायाचनाम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Satara city, a wealthy man named Devaraya once mocked his poor servant Rama for his poverty. Believing that effort could achieve anything, Rama undertook a difficult journey to Kashi. There, he found shelter in a teacher’s house and, through twelve years of hard study, mastered grammar, logic, Vedanta, and economics. Impressed by his learning, the Peshwa appointed him to a high position. Later, when Rama returned to Satara, Devaraya himself welcomed him with honor and, recalling the past incident, apologized.
By सम्भाषणसन्देशःसातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तवान् । कदाचित् सातारानगरम् आगतवन्तं रामं वार्धक्यं प्राप्तवान् सः धनिकः देवरायः एव स्वागतीकृत्य सत्कृत्य पूर्वतनघटनां स्मरन् क्षमायाचनाम् अकरोत् ।