बालमोदिनी

सौभाग्यवती भव


Listen Later

'ज्येष्ठाः नन्तव्याः‌' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सहजतया 'अखण्डसौभाग्यवती भव' इति आशीर्वादं कृतवान् । द्रौपद्याः एकेन नमस्कारेण पाण्डवानां जीवदानं लब्धम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There is a custom in the world that the elders should be respected. By nurturing love, trust, and closeness, one builds a protective shield through the act of salutation. This story serves as an example of that. During the Kurukshetra war, when Bhishma declared that he would kill the Pandavas, Krishna instructed Draupadi to visit Bhishma’s camp and get his blessings. Following Krishna’s advice, Draupadi went to Bhishma’s tent at midnight and respectfully bowed to him. Seeing his granddaughter-in-law bowing, Bhishma naturally blessed her, saying, "May you be eternal Sowbhagyavati". Through this single act of respect, Draupadi ensured the Pandavas' survival.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः