श्रीरामरक्षा स्तोत्रम् #श्रीराम #सीताराम #जानकी श्रीगणेशाय नमः अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे जपेविनियोगः । अथ ध्यानम् । ध्यायेदाजानबाहुं धृतशरधनुषंबद्धपद्मासनस्थम् । पीतं वासो वसानंनवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारुढसीतामुखकमलमिलल्लोचनंनीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनंरामचंद्रम् ॥ इति ध्यानम् ।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ ध्यात्वा नीलोत्पलश्यामं रामंराजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥२॥ सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्। #स्वलीलया जगत् त्रातुम् आविर्भूतमजंविभुम् ॥३॥ रामरक्षां पठेत् प्राज्ञः पापघ्नींसर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः॥४॥ कौसल्येयो दृशौ पातुविश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखंसौमित्रिवत्सलः ॥५॥ जिव्हां विद्यानिधिःपातु कण्ठंभरतवन्दितः । स्कन्धौ दिव्यायुधःपातु भुजौभग्नेशकार्मुकः ॥६॥ करौ #सीतापतिःपातु हृदयंजामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिंजाम्बवदाश्रयः ॥७॥ सुग्रीवेशः कटी पातु सक्थिनीहनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥ जानुनी सेतुकृत् पातु जङ्घेदशमुखान्तकः । पादौ बिभीषणश्रीदः पातु रामोऽखिलंवपुः ॥९॥ एतां रामबलोपेतां रक्षां यः सुकृतीपठेत् । सचिरायुः सुखी पुत्री विजयी विनयीभवेत् ॥१०॥ पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितंरामनामभिः ॥११॥ #रामेति रामभद्रेति रामचंद्रेति वास्मरन् । नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥ जगज्जेत्रैकमन्त्रेणरामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्था सर्वसिध्दयः ॥१३॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्॥१४॥ आदिष्टवान् यथा स्वप्नेरामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुध्दोबुधकौशिकः ॥१५॥ आरामः कल्पवृक्षाणां विरामःसकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् सनः प्रभुः ॥१६॥ तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौचीरकृष्णाजिनाम्बरौ ॥१७॥ फलमूलाशिनौ दान्तौ तापसौब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौरामलक्ष्मणौ ॥१८॥ शरण्यौ सर्वसत्त्वानां श्रेष्ठौसर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नौरघूत्तमौ ॥१९॥ आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथिसदैव गच्छताम् ॥२०॥ संनद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२१॥ रामो दाशरथिः शूरो लक्ष्मणानुचरो बली। काकुत्स्थः पुरुषः पूर्णः कौसल्येयोरघुत्तमः ॥२२॥ वेदान्तवेद्यो यज्ञेशःपुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः॥२३॥ इत्येतानि जपन् नित्यं मद्भक्तःश्रध्दयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति नसंशयः ॥२४॥ रामं दूर्वादलश्यामं पद्माक्षंपीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न तेसंसारिणो नरः ॥२५॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिंसुंदरम् काकुत्स्थं करुणार्णवं गुणनिधिंविप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयंश्यामलं शान्तमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवंरावणारिम् ॥२६॥ रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः॥२७॥ श्रीराम राम रघुनंदन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥२८॥ श्रीरामचंद्रचरणौ मनसा स्मरामि श्रीरामचंद्रचरणौ वचसा गृणामि । श्रीरामचंद्रचरणौ शिरसा नमामि श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥२९॥ माता रामो मत्पिता रामचंद्रः । स्वामी रामो मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुर्नान्यंजाने नैव जाने न जाने ॥३०॥ दक्षिणे लक्ष्मणो यस्य वामे तुजनकात्मजा । पुरतो मारुतिर्यस्य तं वंदेरघुनंदनम् ॥३१॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रंरघुवंशनाथम् । कारुण्यरुपं करुणाकरं तंश्रीरामचंद्र शरणं प्रपद्ये ॥३२॥ मनोजवं मारुततुल्यवेगं जितेंद्रियंबुध्दिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतंशरणं प्रपद्ये ॥३३॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥ आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयोनमाम्यहम् ॥३५॥ भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम्॥३६॥ रामो राजमणिः सदा विजयते रामं रमेशंभजे रामेणाभिहता निशाचरचमू रामाय तस्मैनमः । रामान्नास्ति परायणं परतरं रामस्यदासोऽस्महं रामे चित्तलयः सदा भवतु मे भो राममामुध्दर ॥३७॥ रामरामेति रामेति रमे रामे मनोरमे । सहस्रनामतत्तुल्यं रामनाम वरानने॥३८॥ #इति श्रीबुधकौशिकविरचितंश्रीरामरक्षास्तोत्रं संपूर्णम् । #॥ श्रीसीतारामचंद्रार्पणमस्तु ॥