Sign up to save your podcasts
Or

कस्यचन राज्ञः चिन्ता आसीत् यत् स्वस्य द्वयोः पुत्रयोः कः तस्य उत्तराधिकारी भवेत् इति । तौ परीक्षितुं पञ्चाशत्सहस्रं सुवर्णनाणकानि दत्त्वा 'वर्षाभ्यन्तरे पञ्चाशति ग्रामेषु अस्मद्वासयोग्यानि गृहाणि निर्मातव्यानि' इति अवदत् । वर्षम् अतीतम् । अल्पेन धनेन अल्पेन कालेन च सम्पूर्णगृहनिर्माणकार्यं कर्तुं न शक्तम् इति ज्येष्ठः पुत्रः अवदत् । द्वितीयः पुत्रः तु राज्ञा दत्तं समग्रमपि धनं प्रत्यर्प्य अवद्त् 'पञ्चाशदधिकेषु ग्रामेषु मया सुहृदः सम्पादिताः । ते सर्वे अस्मान् स्वागतीकृत्य आतिथ्यादिना सत्करिष्यन्ति' इति । यत्र आत्मीयाः सुहृदः स्युः तत्र स्वीयस्य गृहस्य न आवश्यकता । राज्ञि एषः गुणः अवश्यमेव भवेत् इत्युक्त्वा द्वितीयपुत्रम् उत्तराधिकारित्वेन नियोजितवान् राजा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king tested his two sons by giving them money to build houses in fifty villages. The elder son failed, saying it was impossible. The younger son returned the money, explaining he had gained friends in more than fifty villages who would host them with honor. The king, valuing friendship over wealth, chose the younger son as his heir.
By सम्भाषणसन्देशःकस्यचन राज्ञः चिन्ता आसीत् यत् स्वस्य द्वयोः पुत्रयोः कः तस्य उत्तराधिकारी भवेत् इति । तौ परीक्षितुं पञ्चाशत्सहस्रं सुवर्णनाणकानि दत्त्वा 'वर्षाभ्यन्तरे पञ्चाशति ग्रामेषु अस्मद्वासयोग्यानि गृहाणि निर्मातव्यानि' इति अवदत् । वर्षम् अतीतम् । अल्पेन धनेन अल्पेन कालेन च सम्पूर्णगृहनिर्माणकार्यं कर्तुं न शक्तम् इति ज्येष्ठः पुत्रः अवदत् । द्वितीयः पुत्रः तु राज्ञा दत्तं समग्रमपि धनं प्रत्यर्प्य अवद्त् 'पञ्चाशदधिकेषु ग्रामेषु मया सुहृदः सम्पादिताः । ते सर्वे अस्मान् स्वागतीकृत्य आतिथ्यादिना सत्करिष्यन्ति' इति । यत्र आत्मीयाः सुहृदः स्युः तत्र स्वीयस्य गृहस्य न आवश्यकता । राज्ञि एषः गुणः अवश्यमेव भवेत् इत्युक्त्वा द्वितीयपुत्रम् उत्तराधिकारित्वेन नियोजितवान् राजा ।