बालमोदिनी

सुखस्य मन्त्रः


Listen Later

कदाचित् कश्चन कुक्कुरः दिल्लीतः हरिद्वारं प्रति अधावत् । मार्गे केचन कुक्कुराः भषन्तः एतं कुक्कुरम् अनुसृतवन्तः ।  एषः कुक्कुरः तैः सह सङ्घर्षम् अकृत्वा हरिद्वारं प्रति अधावत् । यदि सङ्घर्षं कृतवान् स्यात् तर्हि अन्ये कुक्कुराः तस्य महतीं हानिं कृतवन्तः स्युः । तेन समयश्रमयोः महती हानिः अभविष्यत्, अपायः अपि अभविष्यत् । लक्ष्यप्राप्तिमार्गे ये विरोधिनः सन्ति तैः सह सङ्घर्षः न करणीयः अस्माभिः । लक्ष्यप्राप्तिविषये अत्यधिकशक्त्या निष्ठया यत्नाः करणीयाः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a dog ran from Delhi to Haridwar. Along the way, some dogs barked and chased after him. This dog did not engage in conflict with them but continued running towards Haridwar. If he had engaged in conflict, other dogs might have caused him significant harm. It would have resulted in great loss of time and effort, and even danger. On the path to achieving a goal, we must not engage in conflict with those who oppose us. Instead, we must strive with immense determination, dedication, and effort towards achieving our objectives.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः