Sign up to save your podcasts
Or

कस्मिंश्चित् उदारचरिते राजनि प्रजाजनाः विशेषादरवन्तः आसन् । तस्मिन् राज्ये कश्चन निन्दाशीलः जनः अपि आसीत् । राजा एतत् ज्ञात्वा कदाचित् गोधूमपूर्णम् एकं स्यूतम्, एकं फेनकम्, एकं खण्डशर्करायुक्तं स्यूतं च निन्दकाय प्रेषितवान् । सः सन्तुष्टः निन्दकः अचिन्तयत् 'मम योग्यताम् अभिज्ञाय आदरार्थम् एतानि वस्तूनि महाराजेन प्रेषितानि' इति । किन्तु यदा तस्य सुहृत् 'एतानि उपायनानि राज्ञा विशेषाभिप्रायेण प्रेषितानि सन्ति' इति उक्त्वा तेषाम् अभिप्रायान् अकथयत् तदा सः निन्दकः स्वस्य व्यवहारं स्मरन् महतीं लज्जाम् अनुभूतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain kingdom, the people greatly respected their noble king. Yet among them lived a man fond of criticism. Learning of this, the king once sent him three gifts: a sack of wheat, a piece of cloth, and a bag of sugar. The critic, pleased, thought the king had recognized his worth. But when a friend explained the deeper meaning behind these gifts, the critic realized they symbolized the flaws in his behavior. Remembering his own conduct, he felt deep shame.
By सम्भाषणसन्देशःकस्मिंश्चित् उदारचरिते राजनि प्रजाजनाः विशेषादरवन्तः आसन् । तस्मिन् राज्ये कश्चन निन्दाशीलः जनः अपि आसीत् । राजा एतत् ज्ञात्वा कदाचित् गोधूमपूर्णम् एकं स्यूतम्, एकं फेनकम्, एकं खण्डशर्करायुक्तं स्यूतं च निन्दकाय प्रेषितवान् । सः सन्तुष्टः निन्दकः अचिन्तयत् 'मम योग्यताम् अभिज्ञाय आदरार्थम् एतानि वस्तूनि महाराजेन प्रेषितानि' इति । किन्तु यदा तस्य सुहृत् 'एतानि उपायनानि राज्ञा विशेषाभिप्रायेण प्रेषितानि सन्ति' इति उक्त्वा तेषाम् अभिप्रायान् अकथयत् तदा सः निन्दकः स्वस्य व्यवहारं स्मरन् महतीं लज्जाम् अनुभूतवान् ।