बालमोदिनी

वास्तविकः धनिकः


Listen Later

कस्मिंश्चित् ग्रामे देवालयनिर्माणार्थं धनं प्राप्तुं पञ्च जनाः प्रतिगृहं गतवन्तः । यः अधिकं धन दास्यति तस्य नाम्नः उट्टङ्कनं देवालये भवितुम् अर्हति इति निश्चितवन्तः । कश्चन कोट्यधीशः लक्षरूप्यकपरिमितं धनं दत्तवान् । कदाचित् धनिकेन धनदातॄणाम् आवली दृष्टा । तत्र कश्चन कृषिकः सहस्रं रूप्यकाणि दत्तानि आसन् । कृषिकस्य आर्थिकी स्थितिः शोचनीया चेदपि तेन सहस्रं रूप्यकाणि दत्तानि । मत्तः तस्य हृदयौदार्यम् अधिकम् । अतः तस्य नाम्नः एव टङ्कनं भवेत् देवालये इति अवदत् धनिकः । अन्ततः उभयोः नाम्नोः टङ्कनं भवेत् इति आयोजकाः निर्णीतवन्तः । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village, five men went house to house collecting money for the construction of a temple. It was decided that the name of the person who gave the largest donation would be inscribed on the temple. A millionaire donated one lakh rupees. Later, when he saw the list of donors, he noticed that a poor farmer had given one thousand rupees. Though the farmer’s financial condition was miserable, he had still contributed generously. The millionaire declared, “His heart is greater than mine; his name alone deserves to be inscribed.” Finally, the organizers decided to engrave both names on the temple.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः