बालमोदिनी

वणिजः कृपणता


Listen Later

कस्यचन कृपणस्य वणिजः धनस्यूतः च्युतः जातः । तस्मिन् चतुस्सहस्ररूप्यकाणि आसन् । ग्रामप्रमुखस्य द्वारा घोषणं कारितवान् यत् यः तं धनस्यूतं यच्छति तस्मै चतुश्शतं रूप्यकाणि ददामि इति । कयाचित् वृद्धया सः धनस्यूतः प्राप्तः । ग्रामप्रमुखं गत्वा दत्तवती । कृपणः वणिक् वृद्धायै चतुश्शतं रूप्यकाणि दातुं नेच्छत् । सः अवदत् 'अस्मिन् धनस्यूते चतुश्शताधिकचतुस्सहस्रं रूप्यकाणि आसन् । एषा वृद्धा पूर्वमेव चतुश्शतं रूप्यकाणि स्वीकृतवती अस्ति' इति । ग्रामप्रमुखेन ज्ञातं यत् एषः असत्यं वदन् अस्ति इति । 'भवता केवलं चतुस्सहस्ररूप्यकाणि एव आसन् इति उक्तमासीत् अतः एषः भवतः स्यूतः नास्ति' इत्युक्त्वा तं धनस्यूतं स्वीकृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A miserly merchant lost his money bag, which contained four thousand rupees. He announced through the village chief that whoever returned the bag would receive four hundred rupees as a reward. An old woman found the bag and handed it over to the village chief. However, the miserly merchant refused to give her the promised reward. He falsely claimed that the bag originally contained four thousand four hundred rupees, implying that the old woman had already taken four hundred rupees. The village chief realized that the merchant was lying and said, "You had stated that the bag contained only four thousand rupees. Therefore, this bag does not belong to you". He then kept the money bag, denying the merchant's claim.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः