Sign up to save your podcasts
Or

कश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगमये वातावरणे तिष्ठतः अपि मम दृष्टिः तु भवति स्वकर्तव्ये एव । कर्तव्ये यः दत्तदृष्टिः भवेत् तेन सर्वत्र यशः प्राप्येत एव' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A teacher sent his student to a king to learn the path of success. The student wondered how a pleasure-loving king could teach him. The guards took him to a guest chamber with a soft bed and many fruits. When he lay down, he noticed a sharp sword hanging above his head and spent the whole night watching it in fear. The next day, the king explained: “Even while living amidst luxury, my focus always remains on my duty. One who keeps his attention fixed on his duty will surely attain success everywhere.”
By सम्भाषणसन्देशःकश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगमये वातावरणे तिष्ठतः अपि मम दृष्टिः तु भवति स्वकर्तव्ये एव । कर्तव्ये यः दत्तदृष्टिः भवेत् तेन सर्वत्र यशः प्राप्येत एव' इति ।