
Sign up to save your podcasts
Or


कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्रियान् अंशान् बहुधा श्रावितवान् तथापि भवता तस्मै प्रभूतं धनं किमर्थं दत्तम्?’ इति । तदा सः महाजनः अवदत् ' सः यद्यत् अवदत् ते दुर्गुणाः मयि सन्ति । अतः तदीयं सामर्थ्यं पुरस्कुर्वन् अहं तस्मै प्रभूतं धनं दत्तवान् । किन्तु तेन अनुक्तः कश्चन विशेषगुणः अस्ति मयि । सा अस्ति आत्मनिग्रहशक्तिः । ताम् अवलम्ब्य अहं तान् दुर्गुणान् निगृहीतवान् अस्मि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A renowned scholar once visited an astrologer, accompanied by a few followers. The astrologer, known for describing a person’s nature just by looking at their face, observed the scholar briefly and listed many faults in him. Yet, the scholar gave the astrologer a large sum of money and departed. On the way back, one follower asked, “Though he spoke so many unpleasant things, why did you reward him so generously?” The scholar replied: “What he said about my faults is true. I honored his ability by giving him wealth. But there is one special quality in me that he did not mention—self-control. By relying on it, I have subdued those faults”.
कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम् अवदत् । अनन्तरदिने यदा सः युवकः अगच्छत् तदा रामन्-वर्यः तस्य निमित्तम् एकं पदं सृष्टवान् । यद्यपि सः भौतशास्त्रस्य परीक्षायाम् अधिकाङ्कान् न प्राप्तवान् तथापि परिशुद्धतापरीक्षायां सफलः अभवत् इति कारणतः । सः एव भाविनि काले विश्वस्तरे ख्यातः वैज्ञानिकः समभवत् । तस्य नाम 'सुब्रह्मण्यं चन्द्रशेखरः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At a research centre’s final round of interviews, Sir C. V. Raman selected three out of six candidates. He informed the authorities to provide travel allowance to all six. One young man, who was not selected, approached Raman and said, “By mistake, seven rupees extra were given in the allowance.” Raman accepted the money and asked him to come the next day. When the youth came, Raman created a position for him, saying that although he had not scored highest in physics, he had passed the test of integrity. That young man later became a world-renowned scientist—Subrahmanyan Chandrasekhar.
कस्यचन आश्रमस्य अर्थस्थितिः नास्ति इत्यतः तत्रत्यः आचार्यः आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति स्म । अतः कश्चन शिष्यः आचार्यम् उपसर्प्य 'भवान् आश्रमस्य अर्थक्लेशस्य निवारणाय किमर्थं भगवन्तं न प्रार्थयते?’ इति अवदत् । तदा आचार्यः अवदत् 'प्रतिफलम् अपेक्ष्य भगवदुपासना न करणीया वत्स ! असीमानन्दानुभूत्यै वयं निसर्गं पश्यामः, न तु प्रतिफलापेक्षया । एवमेव भगवदुपासना अपि असीमानन्दस्य अनुभूत्यै एव करणीया, न तु प्रतिफलं किमपि एष्टव्यम् । व्यक्तिगतप्रयोजनाय क्रियमाणा उपासना वाणिज्यमिव स्यात् । तादृशी उपासना न हि प्रशस्ता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In an ashram where financial resources were lacking, the teacher often struggled to maintain it. One disciple asked, “Master, why don’t you pray to God to remove these financial troubles?”. The teacher replied: “Worship of God should never be done with expectation of reward, my child. Just as we look at nature for boundless joy, not for gain, so too worship is meant for experiencing infinite bliss, not for seeking benefits. Worship done for personal profit becomes like trade, and such worship is not noble”.
अस्यां कथायां कश्चन महात्मा बहून् ग्रन्थान् अधीतवन्तं कञ्चन पण्डितं भगवतः साक्षात्कारस्य विषये वदति । भगवान् प्रत्यक्षतः स्वप्ने वा प्रकटीभवेत् यत् तदेव भगवतः साक्षात्कारः इति मन्यमानं पण्डितं महात्मा वदति 'भगवान् सर्वेषु जीविषु अस्ति । अतः दीनदुर्गतानां सेवां कुर्वन् भवान् भगवत्स्वरूपं पश्यतु । परोपकारः भवतः स्वभावः भवतु । नदीतरुगुल्मादिषु अपि भगवत्स्वरूपं द्रष्टव्यम् । एतादृशात् आचरणात् एव सर्वत्र भगवन्तं द्रष्टुम् अर्हति भवान् । एषः एव भगवतः साक्षात्कारः नाम' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In this story, a sage speaks to a scholar who believed that seeing God directly or in dreams was the true realization of God. The sage explained: “God is present in all beings. By serving the poor and distressed, you see the divine form. Let compassion and selfless service be your nature. God’s presence must also be seen in rivers, trees, and plants. Through such conduct, one truly perceives God everywhere. This alone is called realization of God”.
'आकाशस्य आधारः एव नास्ति । निराधारः आकाशः ममोपरि पतेत् चेत् मम का गतिः ?’ इति कश्चन बालकः स्वस्य चिन्तनं कस्मैचित् संन्यासिने अवदत् । मन्दहासं प्रकटयन् संन्यसी बुभुक्षाग्रस्तं बालकं 'भिक्षायाचनं कृत्वा आहारं प्राप्य बुभुक्षां निवारय' इति असूचयत् । भिक्षायाचनाय गतः बालकेन किमपि न प्राप्तम् । नितरां खिन्नेन तेन ग्रामात् बहिः कश्चन उटजः प्राप्तः । तत्र काचित् माता तस्मै प्रीत्या भोजनं दत्तवती । प्रवृत्तं सर्वं यदा बालकः संन्यासिनम् अवदत् तदा संन्यासी प्रत्यवदत् 'तया मात्रा यादृशं प्रेम दर्शितं तादृशं प्रेम, वात्सल्यं, परोपकारः, दया, करुणा इत्यादयः सद्गुणाः एव आकाशस्य आधारः । एते गुणाः यावत् लोके तिष्ठेयुः तावत् आकाशस्य पतनं न संभविष्यति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A boy once expressed his wonder to a saint: “The sky has no support. If an unsupported sky were to fall on me, what would happen?” Smiling gently, the saint advised him to beg for food to ease his hunger. The boy tried but received nothing, until a kind mother outside the village lovingly gave him a meal. When he told the saint what had happened, the monk explained: “The love, compassion, kindness, and selfless care shown by that mother are the true supports of the sky. As long as such virtues exist in the world, the sky will never fall”.
कदाचित् कश्चन राजा कस्मैचित् संन्यासिने सुवर्णमयं भिक्षापात्रम् अयच्छत् । संन्यासी तेन भिक्षापात्रेण भिक्षायाचनं करोति स्म । कश्चन चोरः तत् पात्रं चोरयितुं तं संन्यासिनं रहसि अनुसृतवान् । एतत् ज्ञातवान् संन्यासी भिक्षापात्रं बहिः अक्षिपत् । तत् दृष्ट्वा निर्व्यामोहम् अमूल्यं भिक्षापात्रं बहिः क्षिप्तवान् अयं महात्मा इति विचिन्त्य अन्तः गत्वा महात्मानं नमस्कृत्य 'कथम् अमूल्यं वस्तु बहिः क्षिप्तं भवता ?’ इति अपृछत् चोरः । संन्यासी तस्मै उपदेशम् अकरोत् । गच्छता कालेन चोरेण चौर्यं कर्तुमपि न शक्तम् । अल्पे एव काले सुवर्णधनादयः शिलामृत्तिकादयः इव अभासन्त । अन्ते सः संन्यासिनः शिष्यः भूत्वा आत्मशुद्धिं प्राप्य उत्तमजीवनम् अयापयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king once gifted a saint a golden begging bowl. The saint used it for alms, but a thief secretly followed him, hoping to steal it. Realizing this, the saint threw the bowl away. Amazed at such detachment, the thief approached and asked, “How could you discard such a precious thing?” The saint gave him a teaching. Over time, the thief lost his desire to steal, seeing gold and wealth as mere dust and stones. Eventually, he became the saint’s disciple, attained inner purity, and lived a noble life.
कस्यचन विद्याकेन्द्रे ज्योतिष-वैद्यकीय—शिल्पशास्त्रादयः जीवनोपयोगिन्यः विद्याः प्राधान्येन अध्याप्यन्ते स्म । देशस्य नानाकोणेभ्यः विदेशेभ्यः च अध्ययनोत्सुकाः तत् विद्याकेन्द्रं प्रति आयान्ति स्म । कदाचित् तं विद्याकेन्द्रं द्रष्टुम् आगतेन केनचित् महात्मना दिनद्वयं स्थित्वा सर्वा व्यवस्था परिशीलिता । सः यदा प्रस्थातुम् उद्यतः तदा तस्य विद्याकेन्द्रस्य प्राचार्यः तस्य अभिप्रायम् अपृच्छत् । तदा महात्मा अवदत् 'अत्र यथा सम्पादनमार्गाः बोध्यन्ते तथैव गुणवृद्धिमार्गः अपि बोधनीयः, आचारेण दर्शनीयः, वृत्तिमतां व्यवहारे ते गुणाः यथा दृष्येरन् तथा प्रयासः करणीयः च‘ इति । सूक्ष्मतया अवलोक्य अपेक्षितं परिष्कारम् उक्तवते महात्मने प्राचार्यः धन्यवादान् समर्पितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A learning center taught practical sciences like astrology, medicine, and engineering, attracting students from across the country and abroad. A sage visited, observed for two days, and when asked for his opinion, said: “Along with teaching methods of knowledge, ways of cultivating virtues must also be taught and shown through conduct, so that they are reflected in the behavior of the learned”. The principal thanked him for his valuable advice.
कदाचित् कश्चन राजा कस्यचन आश्रमस्य गुरुम् उपसर्प्य स्वस्य व्यवहारः कीदृशः भवेत् इति मार्गदर्शनं प्रार्थयते । तदा गुरुः 'चतुर्विधा शुद्धिः अपेक्ष्यते' इति अवदत् । ताः काः इति राज्ञा पृष्टे गुरुः अवदत् 'कायिकी, मानसिकी, आर्थिकी, आन्तरङ्गिकी' चेति । ततः गुरुः तासां शुद्धीनां विवरणं ददाति । तासां च प्राप्त्यर्थं किं किं करणीयम् इति सर्वं राजानं बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king approached the teacher of an ashram and asked for guidance on how he should conduct himself. The teacher replied, “Four kinds of purity are required”. When the king asked what they were, the teacher said: “Physical purity, mental purity, financial purity, and inner purity”. The teacher then explained each of these in detail and instructed the king on what must be done to attain them.
आ बाल्यात् परोपकारी सेवातत्परः च रामरमणः जगन्नाथस्य भक्तया मात्रा कनककुमार्या सर्वदा बोधितः भवति स्म - 'दुःखग्रस्तानां साहाय्यं यदि क्रियेत तर्हि भगवान् सन्तुष्टः भवेत्' इति । कदाचित् शिरोभ्रमणं प्राप्य पतितवतः कस्यचन वृद्धस्य सेवां करोति रामरमणः । वृद्धस्य वस्तूनि स्वशिरसि संस्थाप्य यदा वृद्धेन सह प्रस्थितः तदा 'निम्नजातीयस्य मम वस्तूनि भवता न वोढव्यानि' इति अवदत् वृद्धः। 'भगवतः दृष्ट्या सर्वे समानाः । वृद्धस्य भवतः सेवा मम कर्तव्यम्' इत्यवदत् रामरमणः । तावता तत्र आगतवती माता पुत्रस्य साहाय्यप्रवृत्तिं दृष्ट्वा नितरां सन्तुष्टा । अग्रे अयमेव रामरमणदासत्वेन ख्यातिं प्राप्तवान् समग्रे अपि उत्कलराज्ये ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
From childhood, Ramaramana was devoted to service and helping others. His mother, Kanaka Kumari, a devotee of Lord Jagannath, always taught him: “If you help those in distress, God will be pleased”. One day, Ramaramana helped an old man who had fainted and fallen. Carrying the old man’s belongings on his own head, he walked with him. The old man said: “You should not carry my things as i am from lower caste”. Ramaramana replied: “In God’s eyes, all are equal. Serving you is my duty”. At that moment, his mother arrived and was deeply pleased to see her son’s spirit of service. Later, Ramaramana became famous throughout the kingdom of Utkala as Ramaramana Dasa.
कश्चन राजा कञ्चन संन्यासिनम् अपृच्छत् 'आवयोः भेदः कः?' इति । तदा संन्यासी अवदत् 'किञ्चिद्दूरं सञ्चराव । तत्र अहं ज्ञापयिष्यामि' इति । ततः प्रस्थितवन्तौ । बहवः ग्रामाः अतिक्रान्ताः । सुदूरम् अतिक्रान्तं चेदपि संन्यासी किमपि न अवदत् । एतत् असहमानः राजा 'कियद्दूरम् एव गमनम्?’ इति यदा अपृच्छत् तदा 'अग्रे गच्छाव तावत्' इति अवदत् संन्यासी । तदा राजा वदति 'मया प्रासादः प्रतिगमनीयः। मम राज्यम् अस्ति, पत्नीपुत्रादयः सन्ति, दैनन्दिककर्तव्यानि सन्ति.....’ इति । अन्ते संन्यासी वदति 'अयमेव आवयोः भेदः । अहं सवर्मपि परित्यज्य संन्यासी जातः । भौतिकबन्धनानि छित्त्वा अग्रे प्रस्थितः अहम् । भवान् तु तत्रैव बद्धः' इत्युक्त्वा अग्रे गतवान् संन्यासी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain king once asked a sanyasi, “What is the difference between us?”. The monk replied, “Let us walk a little distance, then I will show you”. They set out together, passing through many villages. Even after traveling far, the monk said nothing. The king, growing impatient, asked, “How much farther must we go?” The monk answered, “Let us go on ahead for now” said the sanyasi. Then the king said, “I must return to my palace. I have a kingdom, a wife, children, and daily duties to attend to”. At last the sanyasi declared, “This is the difference between us. I have renounced everything and freed myself from worldly bonds, moving forward without attachment. You, however, remain bound to them”. Saying this, the sanyasi continued on his way.
From the publisher's feed