बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • उष्ट्रः हर्म्यतले भवेत् कथम् ?

    पूर्वं कश्चित् राजा सर्वदा संन्यासिनः धर्मोपदेशकादीन् च मोक्षमार्गं पृच्छति स्म । सर्वैः स्वमत्यनुगुणं दत्तेन उत्तरेण नृपः सन्तुष्टमनस्कः न जातः । अथ कदाचित् कश्चन संन्यासी 'राजा सम्यक् बोधनीया' इति विचिन्त्य मध्यरात्रसमये राजभवनं गत्वा हर्म्यतलम् आरूढः । निद्राम् अलभमानः राजा झटिति उत्थाय 'कः भवान्?’ इति पृष्टे संन्यासी 'विनष्टं मम उष्ट्रम् अन्वेष्टुम् अहमत्र आगतः' इत्यवदत् । उच्चैः हसता नृपेण अवदत् 'किं हर्म्यतले उष्ट्रः केनापि कदाचिदपि प्राप्येत?' इति । सहासं संन्यासिना अपि उक्तं 'मोक्षः प्रासादे उपविशता केनचिद् यदि प्राप्येत तर्हि हर्म्यतले उष्ट्रः कथं न प्राप्येत?’ इति । संन्यासिनः कथनस्य आशयं ज्ञात्वा राजा प्रासादं परित्यज्य संन्यासं गृहीतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a king often asked monks and teachers about the path to liberation, but was never satisfied with their answers. One night, a monk thought, “The king must be properly awakened.” He went to the palace at midnight and climbed to the upper floor. The sleepless king suddenly rose and asked, “Who are you?” The monk replied, “I came here searching for my lost camel”. The king laughed loudly: “How could a camel ever be found on the palace roof?” The monk responded with equal humor: “If someone sitting in a palace could attain liberation, then why not find a camel on the roof?” Understanding the deeper meaning of the monk’s words, the king renounced his palace and accepted the life of renunciation.

    3 min
  • मार्गः अनुसरणीयः

    अहङ्कारद्वेषलोभमोहादीन् त्यक्त्वा जीवनं यापनीयम् इति कश्चन महात्मा कस्मिंश्चित्त् प्रवचनकार्यक्रमे जनान् उपदिशति स्म । कश्चन श्रोता आगत्य 'यद्यपि भवतः प्रवचनं प्रतिदिनं शृणोमि तथापि मयि कापि प्रगतिः न जाता' इति अवदत् । तयोः मध्ये सम्भाषणं प्राचलत् । प्रश्नोत्तरानन्तरं महात्मा 'यथा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः, तथा प्रगतिं प्राप्तुम् अपि केचन मार्गाः भवितुम् अर्हन्ति । केवलेन उपदेशश्रवणेन न किमपि प्रयोजनम् । कश्चन मार्गः अनुस्रियताम् । मार्गानुगुणं फलं प्राप्येत' इति बोधितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A saint was once giving a discourse, teaching that life should be lived free from ego, hatred, greed, and delusion. Afterward, a listener approached him and said: “Though I hear your teachings daily, I find no progress within myself”. The saint explained: “Just as there are many roads to reach your village, so too there are various paths to attain progress. Merely listening to teachings is of no use. One must choose and follow a path. Only then will the fruits of progress be attained”.

    3 min
  • चत्वारः अवसराः

    केनचित् चतुरेण जनेन मृत्योः मैत्री सम्पादिता आसीत् । कदाचित् सः मृत्युम् अवदत् 'मैत्रीकारणतः एकं निवेदनं यत् प्राणहरणात् पूर्वं भवता अहं सकृत् स्मारणीयः' इति । 'त्रिचतुरवारम् एव स्मारणं करिष्यामि' इत्यवदत् मृत्युः । तस्मात् सन्तुष्टः जनः वर्षाणि यावत् स्वच्छन्देन जीवनम् अकरोत् । कदाचित् मृत्युः तदीयान् प्राणान् अपहर्तुम् यदा आगतः तदा 'स्मारणमेव न कृत्वा आगतः भवान्' इति अवदत् सः जनः । तदा मृत्युः अवदत् यत् चतुर्वारं स्मारणे कृते अपि तेषाम् आशयम् अनवगच्छन् तेषाम् उपेक्षां दर्शितवान् भवान् इति । ते चत्वारः सन्देशाः के ? ते कथं अनेन जनेन उपेक्षिताः ? अन्ते मृत्युः तस्य प्राणान् अपहरति वा ? इति कुतूहलेन कथाम् इमां शृण्वन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A clever man once befriended Death. He requested: “Because of our friendship, please remind me once before taking my life.” Death replied: “I will remind you three or four times”. Satisfied, the man lived freely for many years. When Death finally came to take his life, the man protested: “You did not remind me at all!” Death answered: “I reminded you four times, but you ignored the meaning of those signs”. What were those four messages? How did the man neglect them? And in the end—did Death take his life? Listen to the story with curiosity.

    4 min
  • कुशलस्य सत्यनिष्ठा

    पूर्वं सारङ्गिपुरनामके राज्ये कुशलनामकः युक्तिशाली मन्त्री आसीत् । सः न केवलं धीमान् अपि तु सत्यनिष्ठापरः प्रभुनिष्ठापरः च आसीत् । कदाचित् अन्यदेशे निवसन् तदीयः जामाता गृहम् आगतः । यदा तौ राजमार्गे गच्छन्तौ आस्तां तदा जामाता राज्ञः सैन्यशक्तिविषयम् अपृच्छत् । राज्यस्य आन्तरिकः विषयाः कस्मैचिदपि कदापि न वक्तव्याः इति प्रतिज्ञातवान् आसीत् कुशलः । परिवारात् अपि राज्यं मुख्यम् इत्यतः राज्यसम्बद्धं विवरणं परिवारजनानां पुरतः न वदिष्यामि इत्युक्तवान् कुशलः । श्वशुरस्य सत्यनिष्ठापरतां स्वामिनिष्ठां च दृष्ट्वा जामाता सन्तुष्टान्तरङ्गः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Long ago, in the kingdom of Sārangapura, there was a wise minister named Kushala. He was not only intelligent but also deeply devoted to truth and loyalty to his king. Once, his son-in-law, who lived in another country, came to visit. As they walked along the royal road, the son-in-law asked about the king’s military strength. Kushala, who had vowed never to reveal internal matters of the kingdom to anyone, replied: “The kingdom is more important than family. Therefore, I will not disclose state secrets even before my relatives”. Seeing his father-in-law’s steadfastness in truth and loyalty, the son-in-law felt deeply satisfied and inspired.

    3 min
  • महाराजस्य राज्यम्

    कदाचित् जनकस्य आस्थाने 'राज्यं परित्यज्य गन्तव्यम्' इति दण्डनं कस्मैचित् निर्दोषिणे जनाय दत्तम् आसीत् । तत् श्रुत्वा सः जनः अपृच्छत् 'राजसीमा कियत्पर्यन्तम् अस्ति इति ज्ञायते चेत् मम आनुकूल्यं स्यात् । मिथिलायाः सीमादिकम् अहं जानामि किन्तु महाराजस्य राज्यस्य न' इति । तत् श्रुत्वा राजा अचिन्तयत् 'एतत् राज्यं पूर्वजेभ्यः मया प्राप्तम् । अहं निर्वहणकर्तृषु अन्यतमः अस्मि । एतस्य स्वामित्वं नास्ति ममापि' इति । अयं कश्चन महात्मा एव । दोषारोपः मिथ्या स्यात् इति विचिन्त्य मिथ्यारोपस्य मूलम् अन्विष्य दोषिणं दण्डनम् आदिशत् । ततः महात्मानं क्षमां याचित्वा उपायनदानादिभिः तं सत्कृत्य सगौरवं प्रेषितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, in King Janaka’s court, an innocent man was punished with exile from the kingdom. Hearing this, the man asked: “If I knew the exact boundaries of the king’s realm, it would help me. I know the limits of Mithila, but not of the Maharaja’s kingdom”. This made Janaka reflect: “This kingdom came to me from my ancestors. I am only one among its caretakers. Even I am not its true owner”. Realizing that the accused was a noble soul, Janaka investigated further, found the real culprit, and punished him instead. Then, seeking forgiveness, the king honored the innocent man with gifts and respect, and sent him away with dignity.

    4 min
  • वैविध्यं गुणाय

    कश्चन राजा राज्ये स्थितानां विविधपूजापद्धतीनां मध्ये ऐकमत्यं नास्ति इत्यतः या पूजापद्धतिः श्रेष्ठा सा एव देशस्थैः सर्वैः अनुस्रियेत इति अघोषयत् । अथ कदाचित् कश्चन माहात्मा तत् राज्यम् आगत्य राज्ञः चिन्तनं ज्ञातवान् । राज्ञा सह धान्यागारं गत्वा अनेकविधानि धान्यानि किमर्थम् अस्ति इति महात्मा अपृच्छत् । तदा राजा 'प्रभेदभेदात् वातावरणभेदात् च आवश्यकतासु अपि भेदः भवति । आरोग्यदृष्ट्या अपि एकस्यैव धान्यस्य वर्धनं न युक्तम्' इति अवदत् । तदा महात्मा अवदत् 'यथा धान्ये वैविध्यम् अपेक्ष्यते तथैव पूजापद्धत्यादिषु अपि । जनानां रुचयः, आसक्तयः, प्रीतयः च भवन्ति भिन्नाः । अतः पूजापद्धतिषु अपि वैविध्यं गुणाय एव' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain kingdom, the king noticed that people followed different forms of worship and there was no unity. He therefore declared that only one form of worship, considered supreme, should be followed by all. Later, a saint visited the kingdom and learned of the king’s decision. He took the king to the granary and asked why there were so many varieties of grain stored. The king replied: “Because needs differ according to people and climate. Even for health, it is not proper to depend on only one kind of grain”. The saint then said: “Just as variety in grains is necessary, so too in worship. People’s tastes, inclinations, and affections differ. Therefore, diversity in worship is itself beneficial”.

    4 min
  • जीवने हानिः लाभः च

    कश्चन युवकः वणिक् वाणिज्ये महतीं हानिं प्राप्य गुरोः समीपे आगत्य बहुधा विलपितवान् । गुरुः  'भवतः जीवने किं नष्टं, किं च प्राप्तम् इति किञ्चित् परिशील्यताम्' इत्युक्त्वा एकं कागदम् अयच्छत् । यत् नष्टं तत् कागदस्य वामभागे, यत् प्राप्तं तत् दक्षिणभागे च लेखनीयम् इत्यवदत् गुरुः । दक्षिणभागस्था आवली सुदीर्घा जाता । एतस्य दर्शनात् युवकस्य उत्साहः प्रवृद्धः । सः अवदत् 'धनेन क्रेतुम् अयोग्याः बहवः अंशाः मयि सन्ति । आरोग्यम्, उत्साहः, आत्मीयतावर्षकाः, पत्नीपुत्रादयः, प्रोत्साहकाः सुहृदः, अमूल्यः अनुभवः च । इतःपरं पुनरपि प्रयत्नं कृत्वा नूतनं वाणिज्यम् आरभ्य सफलतां प्राप्स्यामि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A young merchant, having suffered great loss in business, went to his teacher and lamented bitterly. The teacher gave him a sheet of paper and said: “Write on the left side what you have lost, and on the right side what you still possess”. When the merchant did so, the list on the right side became very long. Seeing this, his enthusiasm grew. He said: “I have many things that money cannot buy—health, energy, loving family, supportive friends, and priceless experience. With these, I will make fresh efforts and start a new business to achieve success”.

    4 min
  • लोककल्याणकार्यं लघुत्वाय न

    आसीत् पुरा इक्ष्वाकुकुले पुरञ्जयनामकः त्रैलोक्ये प्रसिद्धः कश्चन महायोधः । कदाचित् देवानाम् असुराणां च मिथः सङ्घर्षे जाते देवेन्द्रः पुरञ्जयं साहाय्यम् अयाचत । 'यदि भवान् वृषभरूपेण मम वाहनं भवेत् तर्हि मया साहाय्यं दीयते' इति अवदत् पुरञ्जयः । वृषभत्वस्य अङ्गीकारः अपमानकरः इति चिन्तितवते इन्द्राय विष्णुः 'चिन्तां विना लोकहिताय वृषभरूपेण पुरञ्जयस्य वाहनं भवतु भवान्' इत्यवदत् । भगवतः वचनानि श्रुत्वा सः पुरञ्जयस्य वृषभवाहनं भूत्वा युद्धाय सन्नद्धः जातः । युद्धे वृषभस्य ककुदि एव उपविश्य असुराः पराजिताः पुरञ्जयेन । तस्मात् कारणात् तस्य नाम 'काकुत्स्थः' इति प्रसिद्धम् अभवत् । तस्य वंशः अपि काकुस्थवंशः इति ख्यातिम् अवाप्नोत् । लोककल्याणाय कृतं कार्यं कदापि लघु न स्यात् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Long ago, in the Ikshvaku dynasty, there was a great warrior named Puranjaya, renowned throughout the three worlds. Once, when a battle arose between the gods and the demons, Indra sought Puranjaya’s help. Puranjaya agreed, saying: “I will assist only if I fight seated upon you in the form of a bull”. Indra felt this humiliating, but Vishnu advised him: “For the welfare of the world, become Puranjaya’s bull-mount without hesitation”. Indra accepted, and Puranjaya fought seated upon the bull’s hump, defeating the demons. From then on, he became famous as Kākutstha (“he who sat upon the hump”), and his lineage was known as the Kākutstha dynasty.

    3 min
  • सत्यवादी तीक्ष्णमती च

    कस्याञ्चित् कक्ष्यायां हरिः नरेन्द्रः शिवः च एकस्मिन् उपवेशनपीठे उपविष्टाः आसन् । नरेन्द्रः सुहृदौ एकां स्वारस्यकारीं कथां वदन् आसीत् तावता अध्यापकः आगत्य सस्यस्य अङ्गानि पाठयितुम् आरब्धवान् । हरिशिवयोः कथाश्रवणे महत् कुतूहलम् आसीत् इति कारणतः नरेन्द्रः कथाश्रवणम् अनुवर्तितवान् । तावता अध्यापकदृष्टिः तेषु पतिता । एतावता मया किं किं बोधितम् इति अध्यापकेन पृष्टे हरिः शिवः च उत्तरं वक्तुम् न शक्तवन्तौ । नरेन्द्रः तु कथां श्रावयन् एव पाठे अवधानवान् आसीत् इत्यतः सर्वम् अवदत् । यदा अध्यापकः त्वया पाठः श्रुतः इति अवदत् तदा नरेन्द्रः प्रवृत्तं सर्वं विदित्वा क्षमाम् अयाचत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a classroom, Hari, Narendra, and Shiva were seated together. Narendra was narrating an interesting story to his friends when the teacher entered and began teaching about the parts of a plant. Hari and Shiva, curious about the story, continued listening to Narendra and missed the lesson. When the teacher noticed them and asked what had been taught, Hari and Shiva could not answer. But Narendra, though narrating the story, had also paid attention to the lesson and was able to explain everything. The teacher acknowledged that Narendra had listened to the lesson, and Narendra, realizing his mistake, asked for forgiveness.

    4 min
  • अनन्यगामिनी निष्ठा

    मरणशय्यायां स्थितस्य कस्यचित् धनिकस्य त्रयः‌ पुत्राः‌ तु धनिकस्य ऐश्वर्यविषये आसक्ताः । धनिकस्य समीपे तिस्रः देवताः अपि सन्ति - सम्पत्तिः, प्रीतिः, निष्ठा च । धनिकस्य श्वासोत्क्रमणं यदा आरब्धं तदा सम्पत्तिः अवदत् 'यः मम वर्धने रक्षणे च आसक्तः तम् अहं सेवे' इति । प्रीतिः अवदत् 'धनिकस्य इहलोकव्यापारसमाप्तिसमनन्तरमेव अहम् इतः निर्गमिष्यामि । यः मां तीव्रतया स्मरेत् तस्य उपसर्पणं करिष्यामि' इति । निष्ठा अवदत् 'यः मां प्राप्तुं श्रमं नितरां कुर्यात्, यस्य आत्मदृढत्वं स्यात्, यस्य श्रद्धा अचला स्यात् तम् एव उपसर्पामि अहम् । मम संविभागः भवितुं न अर्हति' इति । अतः अस्मासु यः निष्ठाभावः स्यात् सः प्रयत्नेन परिरक्षणीयः । संविभक्तुम् अनर्हं तत्त्वं तत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    On his deathbed, a wealthy man lay surrounded by his three sons, all attached to his riches. Near him also stood three divine powers—Wealth, Affection, and Faith. As his breath began to fade, Wealth said: “I serve only those who are devoted to increasing and protecting me”. Affection said: “I depart as soon as worldly life ends. I will approach only those who remember me intensely”. Faith declared: “I come only to those who strive hard to attain me, who possess firmness of spirit and unwavering devotion. I cannot be divided or shared”. Thus, it is Faith that must be carefully preserved, for it is indivisible and eternal.

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।