
Sign up to save your podcasts
Or


श्रान्तः पुत्रः नौदण्डचालनं परित्यज्य गृहं गच्छाम इत्यवदत् यतः बलवद्भ्यः तरङ्गेभ्यः नौका अग्रे न गच्छति स्म । तदा पिता अवदत् 'समुद्रस्य गभीरता यावत् वर्धेत तावता प्रमाणेन तरङ्गाघातः अपि न्यूनः भवेत् । गभीरस्थलप्राप्तिपर्यन्तमपि प्रयत्नः न परित्यक्तव्यः । ये शान्तस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव । यः प्रयत्नकारणात् भीतः भवेत् सः कदापि अग्रे न गच्छेत्, प्रगतिं न प्राप्नुयात्, सुस्थितिं च न लभेत' इति । पुत्रः विना प्रतिवचनं पुनरपि नौदण्डचालने मग्नः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A tired son stopped rowing and said, “Let us go home, for the strong waves do not let the boat move forward.” The father replied: “The deeper the sea, the weaker the force of the waves. Effort must not be abandoned until we reach the deep waters. Those who attain calm stability have made countless efforts. One who fears effort can never move forward, gain progress, or find stability.” Hearing this, the son silently resumed rowing.
कश्चन जनः कञ्चित् गुरुम् उप्सर्प्य विजयप्राप्तिमार्गम् अपृच्छत् । तदा गुरुः बोधयति – ’विजयप्राप्तिमार्गः पार्थक्येन न भवति । स्थिरतया स्थित्वा कष्टपरमपरां सम्मुखीकृत्य यः अग्रे गच्छेत् सः एव विजयं प्राप्नुयात्' इति । एवमेव सम्भाषणम् अनुवर्तते तयोः मध्ये । सन्तोषसन्तृप्तादयः कथं प्राप्येरन् ? सन्तोषस्य जयपराजयोः च किं न कोSपि सम्बन्धः? तेषां सर्वेषां प्रश्नानां समाधानं बोधयति सः गुरुः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A man approached a teacher and asked about the path to victory. The teacher explained: “The way to victory is not separate. One who stands firm and faces the greatest difficulties with steadiness alone attains success.” Their dialogue continued: How are satisfaction and contentment attained? Is there any relation between joy, victory, and defeat? The teacher then answered all these questions, giving clarity on the true meaning of victory and contentment.
कश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगमये वातावरणे तिष्ठतः अपि मम दृष्टिः तु भवति स्वकर्तव्ये एव । कर्तव्ये यः दत्तदृष्टिः भवेत् तेन सर्वत्र यशः प्राप्येत एव' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A teacher sent his student to a king to learn the path of success. The student wondered how a pleasure-loving king could teach him. The guards took him to a guest chamber with a soft bed and many fruits. When he lay down, he noticed a sharp sword hanging above his head and spent the whole night watching it in fear. The next day, the king explained: “Even while living amidst luxury, my focus always remains on my duty. One who keeps his attention fixed on his duty will surely attain success everywhere.”
फ्रान्स्-देशस्य कश्चन लघुग्रामः महता अरण्येन आवृतः आसीत् । ततः अनतिदूरे कश्चित् महापर्वतः विराजते स्म । कदाचित् तद्ग्रामस्य अष्टवर्षीयः बालं तं पर्वतम् आरुह्य एकस्यां महाशिलायाम् उपविश्य निसर्गसौन्दर्यम् आस्वादयन् आसीत् । अन्धकारः प्रसृतः चेदपि बालः गृहं न आगतः इति चिन्तायां सत्यां तस्य पितामही प्रतिवेशिजनैः सह पौत्रस्य अन्वेषणं कुर्वती पर्वतसमीपम् अगच्छत् । तत्र कस्याञ्चित् महाशिलायां तूष्णीम् उपविष्टः बालः तैः दृष्टः । भीतेः स्वरूपमेव अजानतः स्वस्य पौत्रस्य धीरतां दृष्ट्वा पितामही तम् आलिङ्गितवती । स्वीये अष्टमे वयसि अपि भीतिम् अजानन् सः बालः अग्रिमे काले स्वकीयं बलम् एव साधनं मत्वा फ्रान्स्-देशस्य सेनानेतृत्वं निरूढवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In France, a small village was surrounded by a great forest, with a mountain nearby. One day, an eight-year-old boy climbed the mountain and sat on a large rock, enjoying nature. When darkness fell and he did not return, his grandmother, worried, searched with neighbors and found him calmly seated on the rock. Amazed at his fearlessness, she embraced him. Even at eight he knew no fear, and later, considering his courage as his strength, he rose to become the commander of France’s army.
इयं कथा धर्मत्त्वं बोधयति । कस्यचन वणिजः जिज्ञासा आसीत् । सा च लोके स्थितानां बहूनां मतानां मध्ये परस्परं कलहाः भवन्ति । सर्वाणि अपि मतानि स्वचिन्तानुगुणं धर्मस्य स्वरूपं विवृण्वन्ति । किन्तु धर्मस्य वास्तविकं स्वरूपं किम् इति न ज्ञायते इति । अथ कदाचित् सः वणिक् कञ्चित् तत्त्वज्ञानिनम् उपसर्प्य स्वजिज्ञासां कथयित्वा तत्त्वज्ञानिना ज्ञातं धर्मत्त्वं बोधयितुं प्रार्थयते । स च तत्त्वज्ञानी स्वस्य अनुभवानुसारं प्राप्तं धर्मविषयकज्ञानं वणिजं बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A merchant wondered about the true nature of dharma, since people held conflicting views. He approached a wise philosopher, who explained dharma based on his own realized experience. Dharma is understood through true wisdom, not mere opinions.
शैत्यकालस्य रात्रिः । केचन बालाः छात्रावासस्य पुरतः अग्निं प्रज्वाल्य तस्य पार्श्वे उपविश्य पुस्तकानि पठन्ति स्म । तदवसरे कश्चन पान्थः आगत्य अग्निपार्श्वे उपविशति शैत्यकारणेन । किञ्चित्कालं तत्र उपविश्य शैत्यनिवारणम् अनुभूय छात्रेभ्यः कृतज्ञतां समर्प्य ततः निर्गच्छति । किञ्चित्कालानन्तर्म् अध्ययनरतः कश्चन छात्रः पान्थस्य ग्रन्थिम् पश्यति । तस्मिन् प्रभूतं धनम् आसीत् । सः धावित्वा तस्मै पान्थाय धनग्रन्थिं समर्पितवान् । छात्रस्य निर्लोभतां निष्कपटतां च दृष्ट्वा सन्तुष्टः सः पान्थः छात्राय कानिचन रूप्यकाणि दातुं यदा उद्यतः तदा छात्रः तत् निराकरोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On a cold night, boys studied by a fire outside their hostel. A traveler warmed himself there, thanked them, and left behind a bundle of money. A student found it and returned it honestly. Pleased, the traveler offered him silver coins, but the student refused.
रामः यदा वनवासं प्रति प्रस्थितवान् मार्गे एकं कण्टकं रामस्य पादे लग्नम् । वेदनाम् अनुभवन् सः भूदेवीं प्रार्थितवान् 'मातः! यदा भरतः मम अन्वेषणं कुर्वन् अत्र आगच्छेत् तदवसनरे मार्गे कण्टकानि शिलाखण्डाः च यथा न भवेयुः तथा अनुगृहाण' इति । 'किमर्थम् एवं प्रार्थितम्?’ इति कुतूहलेन सीता अपृच्छत् । तदा रामः अवदत् 'अन्वेषणसमये यदि भरतेन कण्टकवेधः प्राप्येत तर्हि सः चिन्तयेत् यत् मम अग्रजः एतादृशैः कियद्भिः कण्टकैः विद्धः स्यात् इति न ज्ञायते इति । तदीयं हृदयं नितरां व्यथितं भवेत् । अतः एव मया भूदेवी तथा प्रार्थिता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Rama set out for exile, a thorn pierced his foot along the way. Feeling the pain, he prayed to Mother Earth: “When Bharata comes here searching for me, please ensure that there are no thorns or stones on the path.” Curious, Sita asked, “Why did you pray so?” Rama replied: “If Bharata were pricked by a thorn during his search, he would worry, thinking how many such thorns might have pierced his elder brother. His heart would be deeply troubled. That is why I prayed to Mother Earth.”
कस्यचन राज्ञः सभायाम् 'अस्मिन् राज्ये जनानां सन्तोषजीवनस्य कारणं किं भवितुम् अर्हति?’ इति विषयम् अधिकृत्य चर्चा जाता । अन्ते निर्णीतं यत् सेना, देशसमृद्धिः, राष्ट्रश्रद्धा चेति त्रीणि तत्त्वानि मुख्यानि इति । एतेषु अपि मुख्यं किम् इति जिज्ञासायां राजा कञ्चन संन्यासिनं दृष्ट्वा स्वस्य जिज्ञासां तस्य पुरतः उपस्थापितवान् । सुदीर्घायाः चर्चायाः अनन्तरं राज्ञा ज्ञातं यत् राष्ट्रश्रद्धा एव सर्वातिशायिनी इति । यदि सा न भवेत् तर्हि सैन्यसमृद्ध्योः सत्योः अपि राष्ट्रं सुदृढं न भवेत् । विपत्तिकाले अपि सा श्रद्धा एव दृढाधारः । अतः महता प्रयत्नेन राष्ट्रश्रद्धा परिरक्षणीया इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a king’s court, a discussion arose on the question: “What should be the cause of a happy life for the people of this kingdom?” Finally, it was decided that three factors are essential—army, national prosperity, and national faith. To know which among these is supreme, the king consulted a sage. After a long discussion, the king realized that national faith is the highest. Without it, even with a strong army and prosperity, the nation cannot remain firm. In times of crisis too, faith alone is the solid foundation. Therefore, national faith must be preserved with great effort.
कदाचित् कश्चन भक्तः कस्यचन माहात्मनः कुटीरे एकस्यां रात्रौ वासम् अकरोत् । इष्टिका एव उपाधानम्, जीर्णः च कटः एव शय्या आसीत् तस्य माहात्मनः । एतत् दृष्ट्वा सः भक्तः तस्य कष्टमयं जीवनं दृष्ट्वा उत्तमव्यवस्थां व्यवस्थापयिष्यामि इति अवदत् । किन्तु भगवता यत् दत्तं तत् एव परमप्रियम् इति महात्मा मन्यते स्म । इदानीं यावत् स्यात् तावता एव सः नितरां सन्तुष्टः आसीत् । एतादृशस्य कारणतः एव सः महात्मा जाता इति विचिन्त्य सः भक्तः तं महात्मानं नमस्कृत्य ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a devotee spent a night in the hut of a saint. The saint used bricks as a pillow and an old mat as his bed. Seeing his difficult life, the devotee offered to arrange better facilities. But the saint believed that whatever is given by God is most precious, and he remained completely content with what he had. Realizing that such contentment was the reason for his greatness, the devotee bowed to the saint and departed.
शरीरहीनताकारणतः कश्चन दुर्बलकायजनः भृतिकार्यं न प्राप्नोति स्म । यदा सः देवं प्रार्थितवान् तदा देवः स्वप्ने प्रत्यक्षीभूय 'शिलानोदनं कुरु' इत्यवदत् । मासत्रयम् अतीतं चेदपि तां महाशिलां कम्पयितुम् अपि न शक्तवान् सः । अतः सः खिन्नः जातः । कदाचित् स्वप्ने यदा देवः दृष्टः स्वस्य दौर्भाग्यम् अकथयत् सः जनः । तदा देवः अवदत् 'भवता सा महाशिला कम्पयितुं न शक्या इति जानामि अहम् । किन्तु मासत्रयं यावत् यः नोदनप्रयासः कृतः ततः भवतः दृढाकायता प्राप्ता । अतः अधुना यत्किमपि कार्यं कर्तुं समर्थः भवान्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Because of his weak body, a man could not obtain employment. When he prayed to God, the deity appeared in his dream and said: “Strike the great rock.” Even after three months, he was unable to move the rock and became disheartened. Later, when the deity appeared again in his dream, the man expressed his misfortune. The deity replied: “I know you cannot move that great rock. But through your effort of striking it for three months, your body has become strong. Now you are capable of doing any work.”
From the publisher's feed