बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • निर्लिप्तभावेन प्रशासनम्

    व्यासपूजादिने गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । राजा शिवराजः अपि तत्र आगत्य साष्टाङ्गप्रणामं कृत्वा एकं कागदं स्थालिकां संस्थाप्य गुरुदेवस्य पुरतः‌ अस्थापयत् । तत्र लिखितम् आसीत् 'मम राजपदवीं, राज्यं, सम्पत्तिं च गुरुदेवस्य पदतले अर्पितम् अस्ति' इति । सः संन्यासी भूत्वा गुरोः सेवां कर्तुम् इच्छति स्म । तदा गुरुः अवदत् 'स्वराज्यं सुराज्यं क्रियताम् । संन्यासिनः यः‌ मनोभावः तेनैव निर्लिप्तमनोभावेन कार्यं क्रियताम् । तस्य सङ्केतरूपेण राज्यध्वजः काषायवर्णीयः भवतु' इति । तस्मात् दिनात् शिवराजप्रशासनस्य ध्वजः काषायवर्णीयः जातः । सः एव भगवद्-ध्वजः इति निर्दिश्यते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    On the day of Vyasa Puja, devotees came to the ashram of Guru Ramdas to offer their respects. King Shivaji also arrived, bowed fully, and placed a paper before the Guru. It read: “I place my throne, kingdom, and wealth at the feet of my Guru.” Shivaji wished to renounce and serve as a monk. The Guru then said: “Let your kingdom become Swarajya (self rule) and Surajya (good governance). Perform your duties with the same detachment as a monk. As a symbol of this spirit, let the royal flag be saffron in color.” From that day, Shivaji’s administration adopted the saffron flag, known as the Bhagavad-dhvaja.

    4 min
  • सन्तोषप्राप्त्यै मार्गः

    सन्तोषप्राप्तिमार्गम् इच्छन्तं कञ्चन गृहस्थं कश्चन महात्मा स्वस्य आश्रमे कूपखननकार्ये नियोजयति । सः गृहस्थः काञ्चित् नीतिम् अनुसृत्य कूपखननं करोति । जलम् अपि उद्भवति । तदा परस्परसम्भाषणावसरे महात्मा वदति 'कूपखननस्य या नीतिः सा एव सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अपनीताः चेत् सन्तोषः स्वयमेव उद्गच्छति । निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् । मनसः नैर्मल्यं सम्पादितं चेत् सन्तोषः स्वयमेव प्राप्येत' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A householder seeking the path to contentment was engaged by a saint in digging a well at the hermitage. Following proper method, he dug, and water eventually emerged. In conversation, the saint explained: “The principle of well digging is the same for attaining contentment. When the obstacles above are removed, water rises naturally; likewise, when impurities of the mind are cleared, contentment arises on its own. Constant effort is required, but once purity of mind is achieved, satisfaction flows naturally.”

    4 min
  • देशीया विदेशीया च संस्कृतिः

    भारतीयः कश्चन युवा संन्यासी विदेशम् अगच्छत् । काषायं कञ्चुकं शिरोवेष्टं धृत्वा सर्वत्र अटति स्म । एकदा कश्चन विदेशी तम् उपसर्प्य अवदत् 'सर्वदा इदमेव वस्त्रं धृतवता भवता लज्जा न अनुभूयते वा? कीदृशी दारिद्र्योपेता संस्कृतिः स्यात् भवताम्' इति । तदा सः युवा संन्यासी अवदत् 'भवतां संस्कृतेः निर्माणं भवद्देशस्य सौचिकाः कुर्युः । किन्तु अस्माकं सनातनीं संस्कृतिम् अस्माकं चारित्र्यं निर्माति । कस्यचन देशस्य सांस्कृतिकः विकासः तत्रत्येन चारित्र्यबलेन मापनीयः, न तु सौचिककौशलेन' इति । स च युवा संन्यासी अस्ति स्वामी विवेकानन्दः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    An Indian young monk traveled abroad, wearing his saffron robe and turban everywhere. One day, a foreigner asked him: “Do you not feel ashamed to always wear such clothing? Is your culture so poor?” The monk replied calmly: “Your culture is shaped by your tailors. But our ancient culture is shaped by our character. The true measure of a nation’s cultural progress lies in the strength of its character, not in the skill of its tailors.” That young monk was Swami Vivekananda.

    3 min
  • स्वरक्षणं स्वयमेव करणीयम्

    कस्मिंश्चित् अरण्ये उषितवतः कस्यचन शशस्य विश्वासः आसीत् यत् सर्वे प्राणिनः मम सुहृदः इति । यश्च विश्वासः परावलम्बनं द्योतयति स्म । एकदा क्रीडाङ्गणे खेलता शशकेन दूरात् शुनकानां भषणं श्रुतम् ।  शशः ततः न अधावत् । तस्य चिन्तनम् आसीत् कश्चन सुहृद् मम साहाय्यं करिष्यति इति । ततः सः अश्वं गर्दभं मेषं च उपसर्प्य स्वं रक्षितुं प्रार्थयते । किन्तु ते सर्वे किञ्चन कारणम् उक्त्वा सहकर्तुं निराकुर्वन्ति । एतावता अनतिदूरे एव शुनकानां भषणं श्रुत्वा 'आत्मनि विश्वस्य अधुना मया धावनीयम् अस्ति' इति विचिन्त्य शशः स्वरक्षणाय ततः अधावत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a forest lived a hare who believed that all creatures were his friends, showing his dependence on others. One day, while playing, he heard dogs barking in the distance. Trusting that some friend would help, he did not run. He approached a horse, a donkey, and a sheep, asking for protection, but each gave excuses and refused. As the barking grew nearer, the hare realized: “Now I must rely on myself,” and ran to save his own life.

    3 min
  • अपराधकृत्येषु न्यूनता

    कदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्यप्रकरणस्य कस्यचित् विचारणा जाता । तदा रजकेन कश्चन कठोरदण्डः विहितः । तावता लिपिकारः न्यायनिर्णायकम् उपसर्प्य 'एषः अस्मदीयः जनः' इति मन्दस्वरेण अवदत् । तस्मै अपि कठोरदण्डः विहितः । ततः देशे अपराधकृत्येषु महती न्यूनता जाता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king in disguise saw a washerman punishing donkeys that broke the line. Impressed by his strict fairness, the king made him judge. In his very first case of theft, the washerman imposed a harsh punishment. When a clerk whispered that the accused was his own man, the washerman punished him equally without hesitation. His impartiality and firmness soon brought a remarkable decline in crime throughout the land.

    4 min
  • सुयोग्यः पुत्रः

    कदाचित् जलपूर्णं‌ घटं वहन्तीनां तिसृणां महिलानां पुत्राणां श्रेष्ठताविषये चर्चा आरब्धा । प्रथमायाः पुत्रः महाविद्वान् । द्वितीयायाः पुत्रः उत्तमः वणिक् । तृतीयायाः पुत्रः तु शास्त्रम् अधीत्य, विरामसमये अन्यान् शास्त्रग्रन्थान् अध्यापयति स्म । तावता राजधानीं गच्छन् प्रथमायाः पुत्रः ताः नमस्कृत्य अग्रे अगच्छत् । अनन्तरं द्वितीयायाः पुत्रः अपि ताः प्रणम्य वेगेन अधावत् । तावता तृतीयायाः पुत्रः आगत्य तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान् । तदा उभे अपि तृतीयाम् अवदन् 'भवत्याः पुत्रः एव श्रेष्ठः । न केवलं भवत्याः, अपि तु आवयोः अपि भारम् ऊढवान्' इति । यः मात्रापित्रोः अन्येषां च कष्टस्य निवारणे सर्वदा अनवधानवान् भवेत् सः एव योग्यः पुत्रः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Three women carrying water pots discussed whose son was the greatest. The first’s son was a great scholar, the second’s an excellent merchant, and the third’s son studied scriptures and also taught others in his free time. As they traveled toward the capital, the scholar greeted them and went ahead; the merchant bowed and hurried past; but the third woman’s son respectfully took the pot from their hands and carried it forward. The other two then said: “Your son is truly the best—not only for you, but for us too, since he bore our burden.”

    4 min
  • अभिनन्दनं कस्मै ?

    रवीन्द्रनाथटागोरवर्यः यदा गीताञ्जलिनिमित्तं नोबेल्प्रशस्तिं प्राप्नोत् तदा शान्तिनिकेतने अभिनन्दनसभा प्रवृता । बङ्गालस्य वरपुत्रः' साहित्यक्षेत्रे ध्रुवनक्षत्रम्' ‘भारतमातुः कीर्तिहेतुः' इत्यादिभिः वचनैः तस्य प्रशंसा बहुभिः कृता । रवीन्द्रनाथवर्येण न अत्युत्साहः प्राप्तः, न वा नीरसप्रतिस्पन्दः दर्शितः । कश्चन आप्तः अपृच्छत् 'सर्वे महता सन्तोषेण आसन् । किन्तु भवान् तु स्थितप्रज्ञः इव व्यवहृतवान्' इति । तदा रवीन्द्रनाथवर्यः शान्ततया अवदत्'अद्य आगतेषु कोऽपि गीताञ्जलिपुस्तकं न पठितवान् एव । अभिनन्दनम् आसीत् नोबेल्पुरस्कराय । यत् अभिनन्दनं कृत्यै कृतिकाराय वा न स्यात् तादृशेन अभिनन्दनेन कथं सन्तोषः प्राप्येत?’ इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    When Rabindranath Tagore received the Nobel Prize for Gitanjali, a felicitation ceremony was held at Shantiniketan. He was praised with words like “the guiding star of literature” and “the glory of Mother India.” Yet Tagore showed neither excessive excitement nor indifference. An acquaintance asked: “Everyone was overjoyed, but you behaved like one firmly composed.” Tagore calmly replied: “Today, none of those present actually read Gitanjali. The felicitation was for the Nobel Prize, not for the work or its creator. How can such praise bring true satisfaction?”

    5 min
  • कष्टनिवारणं सर्वादौ स्यात्

    कदाचित् रामकृष्णपरमहंसेन सह प्रबन्धकः मथुराबाबुः अन्ये केचन च तीर्थयात्रां कुर्वन्तः देवघरप्रदेशं प्राप्तवन्तः । तस्मिन् काले महान् क्षामः प्रसृतः आसीत् । आहाराभावकारणतः जनाः महत् कष्टम् अनुभवन्तः आसन् । तत्रापि सन्थालजातीयाः वनवासिनः भोक्तुम् अन्नं, धर्तुं वस्त्रं च अप्राप्नुवन्तः किङ्कर्तव्यताविमूढाः आसन् । रामकृष्णवर्यः एतेषां कष्टस्य निवारणाय दृढनिश्चयम् अकरोत् । तीर्थयात्रायै रक्षितं धनं, धनवतां सम्पर्कं च कृत्वा सङ्गृहीतं धनं च उपयुज्य वनवासिनां निमित्तम् आहारव्यवस्था वस्त्रादिव्यवस्था च यथायोग्यं परिकल्पिता तेन ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, during a pilgrimage to Deoghar with Mathura Babu and others, Sri Ramakrishna Paramahamsa witnessed a severe famine. People suffered greatly due to lack of food, and the Santhal tribesmen in particular had neither food nor clothing. Determined to relieve their suffering, Ramakrishna used the money saved for the pilgrimage and gathered funds through wealthy contacts. With this, he arranged proper supplies of food and clothing for the forest dwellers.

    4 min
  • कष्टकाले व्यवहारः

    निरन्तरं कष्टम् अनुभवन्तीं काञ्चित् पौत्रीं तस्याः पितामही एकेन निर्दशनेन दर्शयति यत् कष्टे प्राप्ते धैर्यच्युतिप्राप्तिः न उचिता । कष्टकाले दृढतां प्राप्य कष्टं धैर्येण सम्मुखीकरणीयम् । कष्टं सम्मुखीकृत्य कालानुगुणतया आत्मनि परिष्कारम् आनीय अन्येषु अपि तादृशस्य गुणस्य आनयनाय प्रयासः तु उत्कृष्टः व्यवहारः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A grandmother advised her granddaughter, who was constantly facing hardships, that one should not lose courage in times of difficulty. Hardships must be met with firmness and patience. By facing them, one can improve oneself with time, and striving to inspire the same strength in others is the noblest conduct.

    4 min
  • प्रीतिः परस्परावगतिः च मुख्या

    कश्चन कृषिकः तरुणः विवाहार्थं बह्वीः कन्याः दृष्टवान् चेदपि तासु कापि तस्य तृप्तये न जाता । अतः तेन अग्रे किं क्रियेत इति धिया कञ्चन गुरुम् उपसर्पति । तदा गुरुः अवदत् 'भवता उत्कृष्टं बृहदाकारकम् आम्रफलम् एकम् अन्विष्य आनेतव्यम् । पूर्वं यत्र गतं तत् स्थलं‌ प्रति न गन्तव्यम्' इति । ततः निर्गतेन तरुणेन एकस्यां वाटिकायाम् उत्कृष्टानि आम्रफलानि दृष्टानि चेदपि अग्रे इतोSपि उत्कृष्टानि आम्रफलानि प्राप्येरन् इति विचिन्त्य सः अग्रे अगच्छत् । किन्तु न प्राप्तानि । सः विषादेन प्रत्यागत्य स्वस्य अनुभवं यदा अकथयत् तदा एतादृशी स्थितिः मा भवतु कन्यान्वेषणविषये इति गुरुः अवदत् । 
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A young farmer sought marriage but was never satisfied with the girls he saw. His teacher told him to find one excellent mango without revisiting places. Hoping for better fruit, he passed by good ones and ended up with none. The teacher explained: “Do not keep searching endlessly for something better in choosing a bride, or you may lose everything.”

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।