बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • मकरतोरणम्

    देवालयेषु द्वारतोरणस्य मध्यभागे (देवविग्रहं परितः) मकरतोरणं भवति । तन्मध्ये राक्षसमुखं किञ्चन दृश्यते । तस्य राक्षसस्य नाम किम्? तत् मुखं किमर्थं स्थाप्यते तत्र इति विषयम् अधिकृत्य स्कन्दमहापुराणे या कथा तां कथाम् इदानीं शृण्वन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In temples, at the center of the gateway arch (around the deity’s image), there is a Makara Torana. In its middle, a demon’s face is seen. What is the name of that demon? Why is that face placed there? Concerning this subject, the Skanda Mahāpurāṇa narrates a story—let us now hear that tale.

    4 min
  • स्नेहस्य तत्त्वम्

    कस्यचन राज्ञः चिन्ता आसीत् यत् स्वस्य द्वयोः पुत्रयोः कः तस्य उत्तराधिकारी भवेत् इति । तौ परीक्षितुं पञ्चाशत्सहस्रं सुवर्णनाणकानि दत्त्वा 'वर्षाभ्यन्तरे पञ्चाशति ग्रामेषु अस्मद्वासयोग्यानि गृहाणि निर्मातव्यानि' इति अवदत् । वर्षम् अतीतम् । अल्पेन धनेन अल्पेन कालेन च सम्पूर्णगृहनिर्माणकार्यं कर्तुं न शक्तम् इति ज्येष्ठः पुत्रः अवदत् । द्वितीयः पुत्रः तु राज्ञा दत्तं समग्रमपि धनं प्रत्यर्प्य अवद्त् 'पञ्चाशदधिकेषु ग्रामेषु मया सुहृदः सम्पादिताः । ते सर्वे अस्मान् स्वागतीकृत्य आतिथ्यादिना सत्करिष्यन्ति' इति । यत्र आत्मीयाः‌ सुहृदः स्युः तत्र स्वीयस्य गृहस्य न आवश्यकता । राज्ञि एषः गुणः अवश्यमेव भवेत् इत्युक्त्वा द्वितीयपुत्रम् उत्तराधिकारित्वेन नियोजितवान् राजा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king tested his two sons by giving them money to build houses in fifty villages. The elder son failed, saying it was impossible. The younger son returned the money, explaining he had gained friends in more than fifty villages who would host them with honor. The king, valuing friendship over wealth, chose the younger son as his heir.

    4 min
  • असहायाः न पीडनीयाः

    कदाचित् कश्चन कृषिकः भीत्या धावतः शशशिशून् दण्डं गृहीत्वा अनुसृतवान् । तेषां धावनस्य दर्शनेन आनन्दं प्राप्नोति स्म । एतत् दृष्ट्वा कश्चन संन्यासी 'अन्यस्य असहायकतां दृष्ट्वा आनन्दप्राप्तिः न उचिता । ये असहायकताम् अनुभवेयुः तेषां मानसिकक्लेशम् अवगन्तुं प्रयासः करणीयः' इत्यादिभिः वचनैः तं कृषिकं बोधितवान् । स्वस्य दोषं ज्ञात्वा सः कृषिकः संन्यासिनं‌ क्षमाम् अयाचत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a farmer chased some frightened young hares with a stick, and he felt joy watching them run. Seeing this, a monk advised him: “It is not right to feel pleasure at another’s helplessness. One should try to understand the mental suffering of those who experience helplessness.” Realizing his fault, the farmer asked the monk for forgiveness.

    4 min
  • प्रयत्नेन किं न साध्येत ?

    सातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तवान् । कदाचित् सातारानगरम् आगतवन्तं रामं वार्धक्यं प्राप्तवान् सः धनिकः देवरायः एव स्वागतीकृत्य सत्कृत्य पूर्वतनघटनां स्मरन् क्षमायाचनाम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In Satara city, a wealthy man named Devaraya once mocked his poor servant Rama for his poverty. Believing that effort could achieve anything, Rama undertook a difficult journey to Kashi. There, he found shelter in a teacher’s house and, through twelve years of hard study, mastered grammar, logic, Vedanta, and economics. Impressed by his learning, the Peshwa appointed him to a high position. Later, when Rama returned to Satara, Devaraya himself welcomed him with honor and, recalling the past incident, apologized.

    4 min
  • उन्नतिकारकः जीवनमार्गः

    कश्चन कृषिकः कञ्चन आश्रमं गत्वा परमया श्रद्धया गुरोः उपदेशं शृणोति स्म । उपनिषदादयः ग्रन्थाः तु तेन न अधीताः, तथापि तस्य जीवनं तु उदात्तपूर्णम् आसीत् । कदाचित् तयोः सम्भाषणावसरे कृषिकः पृच्छति 'यदि भगवान् प्रत्यक्षः भवेत् तर्हि अहं किं याचेयम्?’ इति । तदा गुरुः किं किं याचितुं शक्नोति सः इति वदति । तत् च - सम्पादनं श्रमपूर्वकं भवतु, उत्तमस्वभावः, उदारता, श्रद्धा, लज्जा, पारमार्थिकं धनं च । यस्य समीपे एतानि स्युः तेन अन्यः किमपि प्राप्तव्यं याचनीयं वा न भवेत् कस्यचित् मनुष्यस्य । तस्य जीवनं च परमोत्कृष्टं स्यात् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A farmer once went to an ashram and listened with deep devotion to the teacher’s guidance. Though he had not studied the Upanishads or other scriptures, his life was noble and full. During a conversation, the farmer asked: “If God were to appear before me, what should I ask for?”. The teacher replied: “Ask for these—wealth earned through hard work, good character, generosity, faith, modesty, and spiritual riches. Whoever possesses these needs nothing else, and his life will be truly excellent”.

    3 min
  • कालमहिमा

    कालः एव बलवान् । अनया कथया कालस्य महिमानं ज्ञातुं शक्नुमः । यस्य यदा उन्नतिकालः तदा तस्य बलं‌ शौर्यं च भवति । अन्तकाले सर्वं‌ निर्वीर्यं‌ भवति । उन्नत्यवनत्यादिकं भवति कालकारणतः । यावत् जीवेम तावत् कालस्य सद्विनियोगः‌ करणीयः । कदापि वृथा कालक्षेपः न करणीयः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Time alone is powerful. This story shows its greatness. When it is the time for rise, strength and courage appear; at the end, everything becomes powerless. Progress and decline happen because of time. As long as we live, time must be used wisely—never wasted.

    3 min
  • समुचिता दृष्टिः

    कस्मिंश्चित् गुरुकुले गुरुः शिष्यान् बहुधा परीक्ष्य योग्यान् एव शिष्यत्वेन स्वीकरोति स्म । अथ कदाचित् प्रवेशावसरे गुरुः शिष्यान् अपृच्छत् 'भवद्भिः किं किम् आनीतम्? स्वस्य गृहकुलादिविषये वदन्तु' इति । सर्वे आत्मना आनीतस्य धनस्य वा सुवर्णस्य वा धान्यस्य वा विवरणं, स्वस्य पितृपितामहादयः कीदृशाः इत्यादिकं च श्रावितवन्तः । किन्तु कश्चन तरुणेन किमपि न आनीतम् आसीत् । स्वस्य पित्रादीनां‌ विषये किमपि न अवदत् अपि । किमर्थम् एवम् इति गुरुणा पृष्टे सः अवदत् 'मम कुलविषये कथनेन किम्? अत्र मम ज्ञानं विस्तार्य भगवत्साक्षात्कारं प्राप्तुम् इच्छामि । ज्ञानप्राप्तिः साधनमार्गे अग्रे गमनं च मम लक्ष्यम्' इति । तस्य समुचितां दृष्टिं दृष्ट्वा गुरुः सहर्षः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain gurukula, the teacher tested students in many ways and accepted only the worthy. At one admission occasion, he asked the students, “What have you brought? Tell me about your family and background”. Most described the wealth, gold, or grain they had brought, and spoke of their fathers and grandfathers. But one young man had brought nothing and said nothing about his lineage. When the teacher asked why, he replied: “What is the use of speaking about my family? I have come here to expand my knowledge and attain realization of God. My aim is learning and progress on the path of discipline”. Seeing his right attitude, the teacher was delighted.

    4 min
  • प्राप्तः आनन्दः अनुभोक्तव्यः

    कदाचित् कश्चन शिष्यः गुरुणा दत्तस्य फलस्य आनन्दप्राप्त्यापेक्षया गुरुः किमपि तत्त्वं ज्ञापयितुम् इच्छति इति विचिन्त्य गुरुम् अनेकान् प्रश्नान् पृच्छति । यथा पिण्डे तथा ब्रह्माण्डे इत्येतत् तत्त्वं ज्ञापयितुम् एव दत्तं स्यात्? फलस्य भागे या रुचिः सा एव समग्रे अपि फले भवति इति आशयं ज्ञापयितुम् इच्छति वा? इत्यादयः‌ प्रश्नाः कृता शिष्येण । अन्ते गुरुः 'फलस्य रुचिः कीदृशी अस्ति इति आदौ वद' इति उक्त्वा अनन्तरं कथयति 'मम व्यवहारस्य गूढार्थः कोSपि स्यात् इति चिन्तयन् भवान् आनन्दानुभवप्राप्तिं विस्मृतवान् । यः आनन्दः हस्तगतः स्यात् सः अवश्यमेव अनुभोक्तव्यः' इति । सर्वत्र विश्लेषणवादिता न शोभते इति तु सत्यं ननु?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A disciple, expecting some hidden teaching behind the fruit given by his teacher, asked many questions: “Is it meant to show the principle ‘as in the body, so in the universe’? Or to teach that the taste of a part is the same as the whole fruit?”. Finally, the teacher said: “First tell me how the fruit tastes. While thinking there must be some deeper meaning in my act, you forgot the joy of direct experience. The happiness that comes to hand must be enjoyed. Endless analysis is not always fitting”.

    3 min
  • उत्तरम् अहं जानामि

    दारिद्र्यकारणात् विद्याभ्यासं प्राप्तुम् अशक्नुवन् कश्चन निर्धनकुलीयः मेषपालकः बालकः मेषान् तृणचरणे नियोज्य विद्यालयस्य वातायनस्य पार्श्वे स्थित्वा अध्यापकस्य पाठान् श्रद्धया शृणोति स्म । अथ कदाचित् शिक्षणाधिकारी तं विद्यालयं परीक्षितुम् आगतः । तेन पृष्टस्य कस्यापि प्रश्ननस्य उत्तरं न कोSपि दत्तवान् । वातायनात् बहिः स्थितः बालकः 'अहं प्रश्नानाम् उत्तराणि वदामि' इत्युक्त्वा सर्वेषां प्रश्नानाम् उत्तरं दत्तवान् । तस्य प्रतिभावतः बालकस्य विद्याभ्यासस्य व्यवस्थां कृतवान् सः अधिकारी । तस्य बालकस्य नाम राधाविनोदपालः । अग्रिमे काले सः विधिशास्त्रम् अधीत्य भारतीयव्यवस्थानिर्माणे विशेषपात्रम् ऊढवान् । द्वितीयजागतिकयुद्धकाले अन्ताराष्ट्रीयन्यायाधीशत्वेन अपि कार्यम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A poor shepherd boy could not attend school because of poverty. While grazing his sheep near the school window, he listened attentively to the teacher’s lessons. One day, an education officer came to inspect the school. When no student could answer his questions, the boy outside said, “I will answer them,” and correctly solved them all. Impressed by his talent, the officer arranged for his education. The boy’s name was Radhavinod Pal. Later, he studied law, played an important role in shaping India’s legal system, and even served as an international judge during World War II.

    4 min
  • कः उपायः श्रेष्ठः ?

    अरण्ये कदाचित् मार्जालशृगालौ कुशलसम्भाषणे मग्नौ जातौ । शृगालस्य गर्वम् आसीत् यत् सः बहून् उपायान् जानाति इति । तावता एव अनतिदूरात् शुनकानां भषणं श्रुतम् । तदा 'वृक्षारोहणरूपम् एकमेव उपायं जानामि अहम्' इत्युक्त्वा मार्जालः वृक्षम् आरूढवान् । मार्जालस्य पुरतः अपमाननं न भवेत् मम इति चिन्तयन् शृगालः चिन्तामग्नः अभवत् । तावता समीपम् आगतवतः शुनकान् दृष्ट्वा सः पलायनरूपम् उपायम् आश्रितवान् । पतन् स्खलन् च सः महता कष्टेन अधावत् । 'अर्थहीनेभ्यः शतात् उपायेभ्यः अपि प्राणरक्षणोपकारकः एकः एव उपायः वरम्' इति अचिन्तयत् शृगालः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once in a forest, a cat and a fox were engaged in friendly conversation. The fox boasted that he knew many tricks. Just then, the barking of dogs was heard nearby. The cat said, “I know only one trick—climbing a tree,” and quickly escaped upward. The fox, worried about being shamed before the cat, tried to rely on his many tricks. But when the dogs approached, he fled in panic, stumbling and struggling to save himself. He then realized: “Better is a single effective means of survival than a hundred useless ones”.

    3 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।