
Sign up to save your podcasts
Or


पूर्वं वामनपण्डितः नामा कश्चन महान् गर्वितः पण्डितः विविधान् ग्रामान् गत्वा पण्डितान् पराजित्य सः स्वस्य जयं प्रख्यापयति स्म । गच्छता कालेन भगद्गीतार्थं विवृण्वन् सः एकां विस्तृतां व्याख्यां लिखितवान् । सा एव व्याख्या 'भगवद्दीपिका' नाम । किन्तु तस्य गर्वस्य अपगमने काचित् स्वासरस्यकारी घटना प्रवृत्ता ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Vamana Pandit was once a very proud scholar, traveling from village to village defeating other scholars and proclaiming his victories. An incident occurred that humbled him and removed his pride. Over time, he wrote an extensive commentary on the Bhagavad Gita called Bhagavad-Dipika.
सिराजुद्दौलः बङ्गालस्य राजा । कदाचित् आङ्ग्लेयैः सह यदा युद्धं प्रवर्तमानम् आसीत् तदा सिराजुद्दौलस्य सेनापतिः शत्रुपक्षम् आश्रितवान् । सिराजुद्दौलः महान्तम् आघातं प्राप्य चिन्ताक्रान्तः जातः । एतत् लक्षितवती माता यदा कारणम् अपृच्छत् तदा 'अस्मदीयाः जनाः एव विश्वासघातं कृतवन्तः । देशद्रोहम् आचरितवन्तः । स्वस्य सैन्यम् अल्पम् । शत्रुबलम् अपारम्' इति अवदत् सिराजुद्दौलः । तदा मात्रा प्रेरणदायकानि उपदेशवचनानि उक्तानि ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Siraj-ud-Daulah was the king of Bengal. During a war with the British, his commander betrayed him and joined the enemy. Shocked and worried, Siraj-ud-Daulah told his mother: “Our own people have committed treachery and betrayed the nation. My army is small, the enemy’s force is vast.” Hearing this, his mother gave him words of inspiration and guidance.
कश्चन मूर्तिकारः स्वपुत्रम् उत्तममूर्तिनिर्मातारं करोति । किन्तु पिता तेन पुत्रेण निर्मितासु कमपि दोषं पश्यति स्म । पितुः प्रशंसा कथमपि प्राप्तव्या एव इति सः विशेषप्रयासं करोति स्म । कदाचित् अग्रे पुत्रेण ज्ञातं यत् पित्रा किमर्थं तथा कृतम् इति । गर्वः उन्नतेः बाधकः भवति । सः सफलद्वाराणि पिदधाति । अतः एव पित्रा पुत्रेण निर्मितानां मूर्तीनां प्रशंसा न कृता ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A sculptor trained his son to become a fine artist. Yet the father always found some fault in the statues his son made. The son worked harder, hoping to win his father’s praise. Later he realized why his father acted so: pride is an obstacle to progress, it closes the doors to success. That is why his father never praised his work.
प्रसिद्धः कथाकारः प्रेमचन्दः गोरक्षपुरे यदा अध्यापनरतः आसीत् तदानीन्तनी घटना एषा । प्रेमचन्दवर्येण काचन गौः पालिता आसीत् । कदाचित् चरणाय प्रेषिता सा गौः जनपदाधिकारिणः गृहपरिसरं प्राविशत् । तद् दृष्ट्वा सः अधिकारी तस्याः गोः मारणाय भुषुण्डिकाम् आनीतवान् । तावता तत्र प्रेमचन्दः आगत्य तस्य मूकजीविनः प्राणं रक्षति । गोमातुः विषये प्रेमचन्दस्य श्रद्धाम् अतिशयप्रीतिं च दृष्ट्वा जनपदाधिकारी महत् आश्चर्यं प्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This incident took place when the famous writer Premchand was teaching in Gorakhpur. He kept a cow. One day, when sent out to graze, the cow entered the compound of a local officer. Seeing this, the officer brought a gun to kill her. Just then Premchand arrived and saved the life of the mute creature. Witnessing Premchand’s deep reverence and affection for the cow, the officer was greatly astonished.
रावणस्य दिवङ्गतेः अनन्तरं लङ्कायाः उत्तराधिकारितां स्वीकर्तुं रामः विभीषणं बोधयति । रामस्य अनुरोधात् विभीषणः पट्टाभिषेकम् अङ्गीकृतवान् । यदा सर्वे पट्टाभिषेकविधयः सम्पन्नाः अभवन् तदा विभीषणः अग्रजस्य रावणस्य अन्याय्यमार्गेण अर्जितस्य सम्पत्तेः उत्तराधिकारी सन् पापभीतिम् अनुभवामि इति रामम् अवदत् । तदा रामः विभीषणं पापभीतेः मुक्तिमार्गम् अबोधयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After Ravana’s death, Rama asked Vibhishana to accept the throne of Lanka. Vibhishana agreed and was crowned king. When all the coronation rituals were completed, he told Rama: “I feel guilty inheriting the wealth that my elder brother Ravana gained through unjust means.” Rama then explained to Vibhishana the way to be free from the fear of sin.
राजा टोडरमलः सम्राजः अकबरस्य आस्थानस्य मन्त्रिषु अन्यतमः । वित्तवाणिज्यादिविभागान् प्राधान्येन सः निर्वहति स्म । 'नरनौल'नामके नगरे तस्य सुहृद् कश्चन श्रेष्ठी आसीत् यस्य गृहं सः सर्वदा गच्छति स्म । कदाचित् श्रेष्ठी दिवं गतः । तस्य सम्पत्तिः दायादैः वञ्चनया वशीकृता । अतः श्रेष्ठीपत्नी दारिद्र्यदशाम् आपन्ना । पूर्वं तस्य पुत्रस्य निमित्तं वधूः निश्चिता आसीत् । इदानीं वधूपक्षीयाः चिन्ताग्रस्ताः अभवन् । यदा ते कुटिलोपायपुरस्सरं विवाहसम्बन्धं छेतुम् इष्टवन्तः तदा टोडरमलः उपायेन विवाहं कारितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Todarmal, Akbar’s finance minister, had a merchant friend in Narnaul. After the merchant’s death, his property was seized by relatives, leaving the widow poor. Her son’s marriage, once arranged, was now in doubt as the bride’s family tried to break the alliance. Todarmal cleverly ensured the marriage took place.
कश्चन राजा वार्धक्ये राज्यं पुत्राय समर्प्य एकाकी वनं प्रति प्रस्थितवान् । तदा कश्चन महात्मा तं राजानं संसारस्य विषये, संसारे सुखस्य विषये च बोधयति - संसारे सुखं मृगमरीचिकायते । सा मृगमरीचिका अस्मान् इतस्ततः भ्रामयति । सत्कर्मानुष्ठानात्, भगवतः ध्यानात् शरणागतितः च सुःखं प्राप्येत इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king, in old age, handed over his kingdom to his son and went alone to the forest. There, a great sage taught him about the nature of worldly life and happiness: “Worldly happiness is like a mirage. It misleads and confuses us. True happiness comes only through good deeds, meditation on God, and surrender to Him.”
बलभद्रनामा कश्चन वणिक्पुत्रः आसीत् । तस्य सम्पदं दृष्ट्वा अनेके जनाः तस्य सुहृदः अभवन् । तस्य आपणे सर्वदा सम्यक् खादन्तः जल्पन्तः मद्यं पिबन्तः च कालं यापयन्ति स्म । अथ कदाचित् दूरस्थात् ग्रामात् बलभद्रं द्रष्टुम् आगतः मातुलः सम्पत्तेः दुरुपयोगं दृष्ट्वा सुहृदां विषये पूर्वसूचनां ददाति यत् एते वास्तविकाः सुहृदः न इति । तेषां सुहृदां लघुपरीक्षां करोति । तया बलभद्रेण ज्ञायते कः वास्तविकः सुहृद् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Balabhadra was the son of a merchant. Seeing his wealth, many people became his friends. They spent time in his shop eating, chatting, and drinking. One day, Balabhadra’s uncle came from a distant village. Observing the misuse of wealth, he warned Balabhadra that these were not true friends. To test them, Balabhadra arranged a small trial, through which he discovered who his real friends were.
कश्चन बुद्धिमान् तरुणः सुशीलः अन्नदानस्य निराकरणं करोति । किमर्थम् इति पृष्टे 'एतादृशं दानं दातुः अहङ्कारस्य वृद्ध्यै भवेत्, न तु देशहिताय' इति वदति तरुणः । यदा सः राज्ञः समीपं नीतः तदा तरुणः वदति 'अन्नदानस्य कारणतः युवकाः अलसाः जाताः सन्ति । एतस्य प्रत्यक्षपरिणामः सैनिकेषु जायते । अतः देशे उद्योगावसराः वर्धनीयाः, न तु अन्नदानव्यवस्था' इति । तदनन्तरं यत् अग्रे भविष्यति तेन राजा बोधं प्राप्य यत् आवश्यकं तत् करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wise young man refused to accept food charity. When asked why, he said: “Such charity only increases the donor’s pride, not the nation’s welfare.” Later, when brought before the king, he explained: “Because of free food distribution, young people have become lazy. This directly affects the soldiers. Therefore, the country needs more job opportunities, not food charity.” Hearing this, the king understood and took the necessary action.
यदा रावणः अन्तिमश्वासोच्छ्वासं कुर्वन् आसीत् तदा रामः सुव्यवस्थितजीवनसञ्चालनस्य सूत्राणि कानि इति ज्ञातुं लक्ष्मणं रावणस्य अन्तिकं प्रेषयति । लक्ष्मणः गत्वा जीवनस्य महत्त्वपूर्णमन्त्रः भव्यसूत्रं च किमस्ति इति रावणं पृच्छति । तदा रावणः स्वस्य जीवनस्य अनुभवाधारेण कथयति 'शिष्टाचारजीवनस्य द्वे सूत्रे स्तः । प्रथमं तु - श्रेष्ठं कार्यं कर्तुं कदापि विलम्बः न करणीयः । द्वितीयं - कुत्सितकार्ये शीघ्रता न करणीया' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Ravana was breathing his last, Rama sent Lakshmana to learn from him the principles of proper conduct in life. Lakshmana asked Ravana what the most important lessons were. Ravana, speaking from his life’s experience, said: “There are two rules for a disciplined life. First—never delay in doing a noble deed. Second—never be quick to do a bad deed.”
From the publisher's feed