बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • सज्जनतायाः फलम्

    सुन्दरनामकः कश्चन धनिकः दैवभक्तः सदाचारी च आसीत् । स्वस्य ग्रामे मन्दिरमेकं निर्मापितवान् । धनव्यवस्थायाः देवालयस्य च निर्वहणार्थं कस्यचन निष्कपटस्य योग्यस्य जनस्य आवश्यकता आपतत् । अतः सुन्दरेण तादृशस्य अन्वेषणम् आरब्धम् । तस्य स्थानस्य प्राप्त्यर्थं बहुभिः अहमहमिकया अग्रे आगतम् । किन्तु सुन्दरः‌ सर्वान् तिरस्कृतवान् । अन्ते कश्चन निर्धनः तरुणः चितः सुन्दरेण ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    There was a wealthy man named Sundar, devoted to God and virtuous in conduct. In his village, he built a temple. For managing the finances and administration of the temple, a sincere and capable person was needed. Therefore, Sundar began searching for such a man. Many came forward, each eager to claim the position, but Sundar rejected them all. In the end, he chose a poor young man.

    4 min
  • मयि ते, तेषु चाप्यहम्

    कदाचित् नारदः श्रीकृष्णमन्दिरम् अगच्छत् । 'भगवान् पूजां करोति । कृपया प्रतीक्षताम्' इत्यवदत् सेवकः । 'यं त्रैलोक्यं पूजयति, सः श्रीकृष्णः कं वा पूजयेत्?’ इति नारदः अचिन्तयत् । नारदेन अनुरोधे कृते श्रीकृष्णः तं पूजागृहम् अनयत् । एकस्यां लघुतमायां सुवर्णमञ्जूषायाम् अविद्यत अल्पमात्रं मृत्तिका । ये साधुपुरुषाः श्रीकृष्णस्य साहाय्यम् अकुर्वन् तेषां चरणधूलिं मञ्जूषायां संस्थाप्य पूजयति कृष्णः इति ज्ञातवान् नारदः । 
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, Narada went to Krishna’s temple. The attendant said, “The Lord is performing worship, please wait.” Narada wondered, “Krishna, whom the three worlds worship, whom could He be worshiping?” At Narada’s request, Krishna led him into the shrine. There, in a small golden casket, was a little dust. Narada learned that Krishna was worshiping the dust of the feet of those noble souls who had helped Him. It was the sacred foot dust of His devotees that Krishna honored.

    4 min
  • अप्रतिमशूरः भण्डारीरामः

    भण्डारीरामः द्वितीयजागतिकयुद्धकाले जपानीयान् विरुद्ध्य प्रवर्तमाने युद्धे बलूचीदलस्य सदस्यः सन् सः रणरङ्गम् अगच्छत् । समुन्नते पर्वतशिखरे जपानीयसैन्यस्य एकं शिबिरम् आसीत् । तस्य पर्वतस्य आरोहणम् आसीत् नितरां कष्टसाध्यम् । प्रतिपदं कष्टम् अनुभवन्तः भण्डारीरामः बलूचीदलीयाः च शत्रुशिबिरं वशीकृतवन्तः । सर्वथा असहायकस्थितौ स्वस्य प्राणापायम् अपि अविगण्णय शत्रुशिबिरस्य वशीकरणस्य प्रमुखं पात्रम् ऊढवता भण्डारीरामेण 'विक्टोरियाशौर्यप्रशस्तिः' प्राप्ता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During the Second World War, Bhandari Ram, a member of the Baluch regiment, went to the battlefield against the Japanese. On a high mountain peak, there was a Japanese camp. Climbing that mountain was extremely difficult. Step by step, enduring hardships, Bhandari Ram and the Baluch soldiers captured the enemy camp. In a situation of complete helplessness, disregarding even the risk to his own life, Bhandari Ram played the leading role in conquering the enemy camp. For this bravery, he was awarded the “Victoria Cross.” 

    4 min
  • आत्मनः परिष्काराय प्रयासः

    महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः । सः वादशीलः । सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म । अथ कदाचित् सः परमहसम् अपृच्छत् 'भगवान् साकारः उत निराकारः?’ इति । अग्रे तयोः मध्ये सुदीर्घा चर्चा अभवत् । महेन्द्रनाथः परमहंसेन बोधितमेव मनसि आकलयन् ततः निर्गतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Mahendranath Gupta was a disciple of Sri Ramakrishna Paramahamsa. He was fond of debate and often argued with the Master on various topics. Once, he asked, “Is God with form or without form?” A long discussion followed between them. Mahendranath, reflecting deeply on what the Master taught, left with the lesson impressed upon his mind.

    4 min
  • किं भगवन्निन्दया ?

    शाकविक्रयिकस्य रामस्य शकटः मार्गे स्थिते कर्दमे समाश्लिष्टः अभवत् । साहाय्यार्थं न कोऽपि दृष्टः । भगवन्निन्दां कुर्वन् आसीत् । यदा भगवान् प्रत्यक्षः अभवत् तदा सः रामम् अवदत् 'त्वं स्वप्रयासं कृतवान् किम् ? प्रयत्नं कुरु' इति । 'कष्टसमये आदौ स्वप्रयासः करणीयः । आत्मनः‌ प्रयासं विना ईश्वरनिन्दया किं प्रयोजनम् ?’ इति विचिन्त्य रामः भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्रयुक्तवान् । अल्पेन एव प्रयत्नेन शकटः कर्दमात् बहिः आगतः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Rama, a vegetable seller, once had his cart stuck in mud on the road. No one came to help, and he began blaming God. When the Lord appeared, He asked Rama, “Have you made any effort yourself? Try!” Thinking, “In times of trouble, one must first make one’s own effort; blaming God without effort is useless,” Rama prayed for forgiveness and then used all his strength to lift the cart with his shoulder. With only a little effort, the cart came out of the mud.

    4 min
  • भक्तश्रेष्ठः पुण्डलीकः

    आसीत् कृष्णावतारकाले पुण्डलीको नाम कश्चन मातापित्रोः भक्तः । कदाचित् श्रीकृष्णः तम् अनुग्रहीतुम् इच्छन् चन्द्रभागनदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः । पुण्डलीकस्य पितृसेवां दृष्ट्वा सन्तुष्टः भगवान् 'वरं वृणीष्व' इत्यवदत् । तदा पुण्डलीकेन सविनयम् उक्तः 'लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्' इति । भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितम् । तदेव पण्ढरापुरम् इति ख्यातम् जातम् ।  
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During the time of Krishna’s incarnation, there lived a devotee named Pundalik, devoted to serving his parents. Once, Krishna wished to bless him and went to Pundalik’s hermitage on the bank of the Chandrabhaga river. Seeing Pundalik’s devoted service to his parents, the Lord was pleased and said, “Ask for a boon.” Humbly, Pundalik replied, “To show the world the greatness of devotion to parents, you must remain here with the Goddess.” Respecting the devotee’s wish, Krishna stayed there. That place became famous as Pandharpur.

    4 min
  • पुरुषप्रयासः मुख्यः

    कदाचित् उभौ राजानौ युद्धस्य आरम्भात् पूर्वं कस्यचन महात्मनः आशीर्वादं प्राप्तुम् इष्टवन्तौ । पूर्वराजस्य कृते महात्मा अवदत् 'भवतः विजयः सुलभसाध्यः' इति । अन्यस्य देशस्य राज्ञः कृते अवदत् महात्मा 'भवतः विजयः कष्टसाध्यः' इति । सः राजा स्वदेशं गत्वा सर्वविधसन्नाहं कर्तुं सेनाप्रमुखान् अवदत् । युद्धे पूर्वदेशस्य पराजयः अभवत् । यदा सः महात्मानं पराजयस्य कारणम् अपृच्छत् तदा महात्मा अवदत् 'भवता जयप्राप्त्यर्थं परिश्रमः एव न कृतः' इति । अतः पुरुषप्रयासः अतीव मुख्यः इति अनया कथया ज्ञातुं शक्नुमः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, before the start of a war, two kings sought the blessing of a great sage. To the first king, the sage said, “Your victory will be easily achieved.” To the other king, he said, “Your victory will be difficult.” The second king returned to his country and instructed his generals to prepare thoroughly. In the battle, the first king was defeated. When he asked the sage the reason for his loss, the sage replied, “You did not make any effort to achieve victory.” Thus, this story teaches us that human effort is of utmost importance.

    4 min
  • भगवतः प्रसन्नतायै

    कश्चन धनिकः भगवते अर्पयितुं देवालयस्य पुरतः स्थितात् आपणात् कमलपुष्पम् एकं क्रेतुम् ऐच्छत् । विंशतिरूप्यकाणि अधिकं मूल्यम् अस्ति इत्यतः दशरूप्यकाणि स्वीक्रियन्ताम् इति आपणिकम् अवदत् धनिकः । तावता तत्र आगतः राजकुमारः प्रेयसीनिमित्तं तत् एव कमलपुष्पं क्रेतुम् ऐच्छत् । धनिकराजकुमारयोः मध्ये वादविवादः जायते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A wealthy man wished to offer a lotus flower to God. He went to a shop near the temple to buy one. The shopkeeper said the price was twenty rupees, but the rich man insisted it should be accepted for ten. Just then, a prince arrived, wanting to buy the same lotus for his beloved. A dispute arose between the rich man and the prince over the flower.

    4 min
  • समाजस्य उत्तरदायित्वम्

    हेन्रि ला ग्वार्डिवर्यः जनसेवायां विशेषतया आसक्तः । सः १९३४ तः १९४५ पर्यन्तं न्यूयार्क्-नगरस्य प्रमुखः सन् तस्य नगरस्य सर्वाङ्गीणाम् उन्नतिं साधितवान् । सः कदाचित् न्यायाधीशत्वेन यदा कार्यं करोति स्म तदा प्रवृत्ता घटना एषा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Henry La Guardia was especially devoted to public service. From 1934 to 1945, being the head of New York City, he accomplished the city’s overall progress. Once, while he was serving as a judge, this incident took place.

    4 min
  • धनं देशसेवायै

    कस्मिंश्चित् विद्यालये आचार्यः पृच्छति यत् 'यदि मार्गे वज्रं प्राप्येत तर्हि भवन्तः किं कुर्युः?’ इति । एकैकः छात्रः एकैकविधं धनस्य उपयोगम् अवदत् । अन्ते कश्चन छात्रः अवदत् 'अहं वज्रं तस्य स्वामिने अर्पयिष्यामि । यदि सः न लभ्यते तर्हि वज्रम् आरक्षकाधीनं सर्वकाराधीनं वा करिष्यामि । यदि तस्य विक्रयणं करणीयम् इति आपतेत् तर्हि तस्य मूल्यराशेः उपयोगं देशसेवायै, निर्धनानां साहाय्याय, जनोपकराय च करिष्यामि' इति  । तस्य नाम अस्ति 'गोपालकृष्णगोखले' यः 'महादेशभक्तत्वेन ख्यातः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a school, a teacher asked, “If you found a diamond on the road, what would you do?” Each student gave different answers about using the wealth. Finally, one student said, “I would return the diamond to its owner. If the owner cannot be found, I would hand it over to the authorities. If it must be sold, I would use the money for serving the nation, helping the poor, and public welfare.” That student was Gopal Krishna Gokhale, later renowned as a great patriot of India.

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।