
Sign up to save your podcasts
Or


'मम राज्ये योग्याः विद्वांसः कति सन्ति इति द्रष्टव्यम्' इति महाराजस्य विक्रमसेनस्य मनसि उत्पन्नं विचारं सः मन्त्रिणम् अवदत् । तदनन्तरदिने एव तौ विदुषाम् अन्वेषणाय गतवन्तौ । ताभ्यां त्रयः विद्वांसः चिताः । राज्ञा द्रष्टुम् इष्टा योग्यता द्वयोः विदुषयोः न आसीत् । तृतीयः विद्वान् नदीतीरे लघुकुटीरे वसति स्म । सः आदरेण राजानं स्वागतीकृतवान् । किन्तु स्वागतप्रतिक्रियायां वैभवं किमपि न आसीत् । कुशलप्रश्नाद्यनन्तरं तयोर्मध्ये प्रचलितेन सम्भाषणेन 'एषः एव सुयोग्यः विद्वान्' इति वदन् राजा तमेव आप्तमार्गदर्शकम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Vikramasena once thought, “I must see how many worthy scholars are in my kingdom.” He shared this idea with his minister, and the next day they set out in search. They identified three scholars. The first two were not suitable to be presented before the king. The third scholar lived in a small hut by the river. He welcomed the king respectfully, though without any display of wealth or grandeur. After exchanging greetings, the king conversed with him and realized his true wisdom. Declaring, “This is the truly worthy scholar,” the king appointed him as his trusted guide.
शीत-ऋतोः मनमोहिकायां प्रभातवेलायां पानीयस्थापनस्थाने कलरवं कुर्वतः, आनन्देन भोजनकणान् खादतः च बहून् पक्षिणः मार्त्तण्डः अपश्यत् । पितामह्यां परलोकं गतायां केचन एव मासाः व्यतीताः आसन् । मार्त्तण्डः मातरम् अपृच्छत् 'पितामही कुत्र जन्म गृहीतवती भवेत्?’ इति । तदनन्तरं तस्मिन् विषये एव तयोः मध्ये सम्भाषणं प्रचलति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On a charming winter morning, many birds were chirping and joyfully pecking at grains near the water place. Martanda watched them. Only a few months had passed since his grandmother had departed from this world. He asked his mother, “Where might grandmother have taken birth now?” Thereafter, a conversation between mother and son continued on this very subject.
काचित् दासी मार्जनपात्रवस्त्रक्षालनादिकं करोति स्म । तस्य पञ्चवर्षीयः पुत्रः आसीत् । कदाचित् कस्यचन परमहंसभागवतस्य चातुर्मासस्य आश्रमस्य पालनार्थं ग्रामजनाः इमां दासीं नियोजितवन्तः । दास्या स्वपुत्रः शिक्षितः यत् भागवतः यत्किञ्चिदपि सेवां कुरु इति । बालः अपि तथैव अकरोत् । गच्छता कालेन बालेन भक्तिः, ज्ञानं, वैराग्यं च प्राप्तम् । मातुः मरणानन्तरं सः सत्वरं गत्वा वृक्षस्य अधः उपविश्य ध्यानमग्नः अभवत् । अचिरात् एव भगवतः साक्षात्कारः जातः । सः एव आगामिनि जन्मनि ब्रह्मदेवस्य मानसपुत्रत्वेन जन्म प्राप्य 'महर्षिः नारदः' इति ख्यातिं गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A maidservant worked by cleaning utensils and washing clothes. She had a five-year-old son. Once, the villagers appointed her to serve a great saint during the four months of his stay. The mother taught her son to also serve the saint in whatever way he could. The boy did so faithfully, and over time he gained devotion, knowledge, and detachment. After his mother’s death, he sat under a tree absorbed in meditation. Soon he had the vision of God. In his next birth, he was born as a mind-born son of Brahma, and became renowned as Sage Narada.
कञ्चन ग्रामम् आगतवन्तं सिद्धपुरुषम् उपसर्प्य त्रयः युवकाः साधनम् उपदेशं वा याचिततवन्तः । सिद्धः तेभ्यः किमपि साधनकार्यं दत्तवान् । बहूनि वर्षाणि अतीतानि । किन्तु त्रिषु एकः अपि न कमपि विशेषम् अनुभूतवान् । न कोऽपि भौतिकलाभः वा प्राप्तः । कदाचित् ग्रामं प्रति प्रत्यागतं सिद्धं द्रष्टुं गताः युवकाः स्वनिराशताम् अकथयन् । सिद्धपुरुषः आत्मज्ञानेन सर्वं ज्ञात्वा कुत्र कुत्र युवकाः दोषान् आचरितवन्तः इत्युक्तवान् । आत्मनः दोषं ज्ञातवन्तः युवकाः सिद्धस्य आशीर्वादं स्वीकृत्य गृहं गतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Three young men once approached a realized saint in their village, asking for guidance and spiritual practice. The saint gave them some discipline to follow. Many years passed, but none of them experienced any special result or material gain. When the saint returned to the village, the youths expressed their disappointment. With his inner vision, the saint explained the specific faults each of them had committed in their practice. Realizing their own shortcomings, the youths accepted his blessing and returned home with renewed understanding.
राजा बृहद्रथः मगधदेशस्य राजा । पुष्यमित्रः सेनापतिः । विदेशीयं ग्रीक्सैन्यं न प्रतिप्रेषितं चेत् राज्यस्य भारतस्य च महती हानिः स्यात् इति पुष्यमित्रस्य कथनेन अपि राजा ताटस्थ्यनीतिः अनुसरणीया इति अवदत् । पुष्यमित्रः देशस्य हितमेव मुख्यं मन्यमानः राजविरोधम् अपि उपेक्ष्य शत्रुदलीयानां निग्रहाय उद्युक्तः अभवत् । पुष्यमित्रस्य कथा कालिदासेन मालविकाग्निमित्रे उपवर्णिता अस्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Brihadratha ruled Magadha, with Pushyamitra as his commander. When foreign Greek armies threatened, Pushyamitra warned that if they were not repelled, both the kingdom and India would suffer greatly. Yet the king insisted on a policy of neutrality. Pushyamitra, considering the nation’s welfare more important than royal command, prepared to confront and suppress the enemy forces. This episode of Pushyamitra’s resolve is described by Kalidasa in Malavikagnimitra.
बालगङ्गाधरतिलकः विधिशास्त्रस्य अध्ययनानान्तरं न्यायवादिवृत्तित्वं न इच्छति यतः तत्र प्रतिदिनं प्रतिपदम् असत्यं वक्तव्यं भवति इति । सर्वाकारीयम् उद्योगम् अपि न इच्छति सर्वकारस्य दास्यताकारणतः । सः कस्मिंश्चित् विद्यालये अध्यापकवृत्तित्वम् आरब्धवान् । तदीयं मासिकं वेतनं त्रीणि रूप्यकाणि इति । तिलकस्य उदात्तं चिन्तारहितं च व्यवहारं दृष्ट्वा तस्य सुहृत् महत् आश्चर्यम् अनुभूतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After studying law, Bal Gangadhar Tilak did not wish to practice as a lawyer, because in that profession one had to speak untruths at every step. He also did not want to take up government service, as it meant servitude to the rulers. Instead, he began working as a teacher in a school. His monthly salary was only three rupees. Seeing Tilak’s noble, worry-free conduct, his friend was greatly astonished.
कश्चन महात्मा भगवद्दर्शनस्य विषयं कञ्चन सज्जनं वदति - 'ईश्वरः अस्माकम् अन्तः एव तिष्ठति । मोहमायादिकारणतः वयं तस्य दर्शनं प्राप्तुं न शक्नुमः । भगवान् द्रष्टव्यः चेत् सर्वादौ मोहमायादयः त्यक्तव्याः' इति । 'अद्यैव भगवद्दर्शनार्थं प्रयासस्य आरम्भं करिष्यामि' इत्युक्त्वा प्रणम्य च ततः प्रस्थितवान् सः सज्जनः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A saint once explained to a devotee about the vision of God: “The Lord dwells within us. Because of delusion and illusion, we are unable to perceive Him. If one wishes to see God, first these veils of delusion must be cast aside.” Hearing this, the devotee bowed and said, “From today itself I will begin the effort to attain the vision of God,” and departed with resolve.
इयं कथा वर्तते गुणत्रयविषये । तमोगुणः मानवं संहर्तुं प्रयासं करोति । रजोगुणः कौटुम्बिकव्यवहारादिभिः तं बध्नाति । किन्तु सत्त्वगुणः तमोरजसोः पीडातः मानवं विमोच्य सुयोग्यं मार्गं दर्शयति । एतस्मिन् मार्गे भयं न विद्यते । एषः मार्गः मानवान् भगवच्चरणं प्रापयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This tale concerns the three guṇas (qualities of nature). Tamas seeks to destroy man, Rajas binds him through worldly duties and attachments, while Sattva frees him from the suffering caused by Tamas and Rajas, showing him the right path. On this path there is no fear, and it ultimately leads man to the feet of God.
बघेलसिंहः तारुण्ये एव सिक्खदलस्य प्रमुखः जातः । सः कदाचित् देहलीस्थं रक्तदुर्गं वशीकर्तुम् ऐच्छत् । यमुनाम् अतिक्रम्य आगतः अपि सः झटिति एव देहल्याः वशीकरणाय न उद्यतः । सेनायाः वर्धने, अन्येषां मैत्रीसम्पादने, व्यूहस्य आरचने च सः उद्यतः अभवत् । सः केनचित् उपायेन दुर्गं प्रविश्य देहलीं वशीकृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Baghel Singh became the leader of the Sikh forces while still young. At one time, he wished to capture the Red Fort in Delhi. Crossing the Yamuna, he did not rush to attack immediately. Instead, he focused on strengthening his army, forging alliances, and carefully arranging his battle strategy. By some clever means, he entered the fort and brought Delhi under his control.
राणाप्रतापस्य सामन्तराजः रघुपतिसिंहः कदाचित् अकबरसैन्यात् पराजयं प्राप्य अरण्यम् आश्रितवान् । कदाचित् अस्वस्थः पुत्रं द्रष्टुं यदा रघुपतिसिंहः अगच्छत् तदा मोगलसैनिकाः तं गृहीतवन्तः । पुत्रदर्शनाय अवसरः दीयताम् इति सेनापतिम् आकाशवर्माणम् अपृच्छत् । रजपूताः विश्वासघातं न कुर्वन्ति इति जानन् आकाशवर्मा रघुपतिसिंहाय पुत्रदर्शनाय अनुज्ञां दत्तवान् । ततः आकाशवर्मणः बन्धनं जातम् । रघुपतिसिंहः एतत् ज्ञात्वा मां कारागारे स्थापयन्तु इति निवेदितवान् । रघुपतिसिंहस्य धैर्यं, मित्रप्रीतिं च, आकाशवर्मणः दयासम्पन्नगुणं च दृष्ट्वा अकबरः तयोः बन्धविमुक्ततां कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Raghupati Singh, a feudal chief under Rana Pratap, was once defeated by Akbar’s army and took refuge in the forest. Later, when he went to see his ailing son, Mughal soldiers captured him. He requested the commander, Akash Varma, to allow him to meet his son. Knowing that Rajputs never betray trust, Akash Varma permitted it. As a result, Akash Varma himself was imprisoned. When Raghupati Singh learned of this, he declared, “Let me be imprisoned instead.” Witnessing Raghupati Singh’s courage and loyalty, and Akash Varma’s compassion, Akbar released both of them.
From the publisher's feed