बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • मानवहृदयम्

    कश्चन निर्धनः दीनः जनः आसीत् यस्य निबिडं श्मश्रु, दीर्घाः नखाः, जीर्णं दुर्गन्धयुक्तं वस्त्रं च आसीत् । जनाः तम् उन्मत्तः इति वदन्ति स्म । कदाचित् कश्चन सहृदयः तरुणः विनयः तं जनं दृष्ट्वा मनसि बहुविधैः प्रश्नैः पीडितः अभवत् । द्वितीये दिने सः तस्मै एकं कदलीफलम् अयच्छत् । अग्रिमे दिने विनयाय एकं पत्रम् आगतम् - भवान् मुख्यमन्त्रिणः सहयोगित्वेन नियुक्तः इति । यदा सः अग्रिमे दिने मन्त्रालयं प्राप्तवान् तदा मुख्यमन्त्री तस्य कण्ठे पुष्पमालां स्थापयित्वा सत्कारम् अकरोत् । कारणम् आसीत् यत् मुख्यमन्त्री एव उन्मत्तः इव वेषान्तरं धृत्वा लोकानां परीक्षणाय तथा आकृतिं निर्मितवान् आसीत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    There was a poor, destitute man with a thick beard, long nails, and foul, tattered clothes. People thought him mad. One day, a kind young man named Vinay saw him and was troubled with many questions in his mind. The next day, Vinay gave him a banana. Soon after, Vinay received a letter appointing him as an assistant to the Chief Minister. When he went to the ministry, the Chief Minister himself welcomed him with a garland. The reason was that the “madman” was none other than the Chief Minister in disguise, testing the people.

    4 min
  • श्रमः व्ययामः च

    नूतनतया निर्मीयमाणस्य पत्तनस्य विभिन्नानि कार्याणि प्रचलन्ति स्म । एकदा मार्गनिर्माणकार्ये नैके कर्मकराः अहोरात्रं कार्यं कुर्वन्ति स्म । तदा कुतश्चित् कश्चित् सुदृढः युवा तत्र समागत्य बहूनि कार्याणि अकरोत् । सायं यदा सन्तुष्टः स्वामी तस्मै द्विगुणितं वेतनं दातुम् उद्यतः तदा सः तत् सर्वथा निराकृत्य अवदत् 'प्रतिदिनं मया कठिनाः व्यायामाः क्रियन्ते । अस्य अस्मिन्नेव मार्गे चलन् अहं मार्गस्य निर्माणकार्ये आत्मानं नियोजितवान्' इति । सः एव विश्वप्रसिद्धः मुष्टियुद्धचतुरः मोहमद्-अलिवर्यः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a newly developing city, many workers were engaged day and night in road construction. One day, a strong young man joined them and did much of the work. In the evening, when the satisfied supervisor offered him double wages, he refused, saying, “Every day I perform hard exercises. Walking on this very road, I engaged myself in its construction.” That young man was none other than the world-famous boxing champion Muhammad Ali.

    4 min
  • चर्वितचर्वणम्

    अस्यां कथायां अजापालकेन सह साक्षात्सन्दर्शनं भवति वार्तादूरदर्शनस्य । एकस्य विषयस्य पुनः पुनः चर्चा चर्वितचर्वणम् इति कथ्यते । सन्दर्शनस्य चर्वितचर्वणस्य च कः सम्बन्धः इति ज्ञातुम् इच्छा अस्ति वा? तर्हि इमां हास्यमयीं कथां शृण्वन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In this humorous story, a goatherd is interviewed on the television news. News programs often repeat the same topic again and again, which is called chewing the cud (charvitha charvanam). Listen to this amusing story to find out the link between such repetition (charvitha charvanam) and news shows?

    3 min
  • धूर्तः आपणिकः

    लालबहादुरशास्त्री भारतस्य सुप्रसिद्धः द्वितीयः प्रधानमन्त्री । तस्य पत्नी ललितादेवी अपि स्वातन्त्र्यान्दोलने भागग्रहीत्री एव । सा महिला दलस्य प्रमुखा आसीत् । कदाचित् सा आपणिकानां मनः परिवर्तयितुम् अन्याभिः महिलाभिः साकं वैदेशिकवस्तुविक्रयणस्थलं गतवती । बहवः आपणिकाः‌ ललितादेव्याः अनुरोधं स्वीकृत्य सर्वाणि वैदेशिकवस्तूनि बहिः अक्षिपन् ।  किन्तु एकः आपणिकः तत् न अङ्गीकृतवाम् । तस्य मनःपरिवर्तनं कथं भवति इति कथायाः वस्तु वर्तते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In Jodhpur, Lal Bahadur Shastri’s wife, Lalita Devi, was herself active in the freedom struggle and led a women’s group. Once, she and other women went to a marketplace to persuade shopkeepers to stop selling foreign goods. Many shopkeepers agreed and threw out their foreign items. But one shopkeeper resisted. The story centers on how his mind was eventually changed.

    4 min
  • सङ्गं मा कुरु दुष्टानाम्

    दुष्टानां सङ्गः सर्वथा न करणीयः इति इयं कथा ज्ञापयति । पितुः मरणानन्तरं भट्टनाथस्य स्वेच्छाचारस्य निग्रहीता न कोऽपि आसीत् । दुष्टानां मित्राणाम् उपदेशं पालयन् सः मनोरञ्जनाय दुर्व्यसनाय च प्रभूतं धनं व्ययितवान् । उद्योगिनः तं वञ्चितवन्तः । वाणिज्ये महती हानिः तेन अनुभूता । अन्ते यदा सः आत्महत्यार्थं प्रकोष्ठस्य अट्टाधारे रज्जुं बद्ध्वा पाशं कण्ठे योजयित्वा कूर्दनम् अकरोत् तदा अट्टाधारः भग्नः जातः । तस्य अन्तर्भागे सुवर्णनाणकानि आसन् । विवेकं प्राप्तः सः तत् धनं जागरूकतया उपयुञ्जानः नूतनं वाणिज्यम् आरब्धवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This tale teaches that association with the wicked should always be avoided. After his father’s death, Bhattanātha had no one to restrain his reckless behavior. Following the advice of evil friends, he wasted his wealth on pleasures and vices. Cheats deceived him, and he suffered great losses in trade. Finally, in despair, he attempted suicide by hanging himself from a beam. The beam broke, and inside it were hidden gold coins. Gaining wisdom, he used that wealth carefully and began a new business.

    4 min
  • महात्मनाम् आशीर्वादस्य फलम्

    महात्मनाम् आशीर्वादवचनानि कदापि विफलानि न भवन्ति इत्यस्य उदाहरणं भवितुम् अर्हति इयं कथा । कश्चन तरुणः बालगङ्गाधरवर्येण कानिचन आशीर्वादवचनानि प्राप्नोत् । तानि आशीर्वादवचनानि तस्य हृदये स्थिरतया अतिष्ठन् । तरुणेन विद्याभ्यासं समाप्य सर्वकारोद्योगः प्राप्तः । स्वयोग्यतया अल्पे एव काले पदोन्नतिं प्राप्नुवन् रिसर्व्-वित्तकोषस्य 'गवर्नर्' पदमपि प्राप्नोत् । ब्रिटिश्-शासने तत् पदं प्राप्तवान् प्रथमः भारतीयः सः । भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं सः केन्द्रसर्वकारस्य अर्थसचिवत्वेन अपि कार्यम् अकरोत् । तस्य नाम अस्ति सर् चिन्तामणिदेशमुखः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This story illustrates that the blessings of great souls never fail. A young man once received words of blessing from Bal Gangadhar Tilak. Those words remained firmly in his heart. After completing his studies, he entered government service and, through his merit, quickly rose in rank. He eventually became the Governor of the Reserve Bank of India, the first Indian to hold that post under British rule. After India’s independence, he also served as the Finance Minister in the central government. His name was Sir Chintamani Deshmukh.

    6 min
  • अनुचितं कार्यं न करोमि

    कश्चन विद्यालये कश्चन निरीक्षणाधिकारी छात्राणां परीक्षार्थं पञ्च आङ्ग्लशब्दान् अवदत् । यदा मुख्योपाध्यायः छात्राणां मध्ये सञ्चरन् आसीत् तदा तेन ज्ञातं यत् एकेन छात्रेण 'केट्ल्' इत्ययं शब्दः दोषपूर्णतया लिखितः इति । सः नेत्रसङ्केतेन छात्रम् असूचयत् यत् पार्श्वस्थेन छात्रेण यत् लिखितं तत् दृष्ट्वा समीकुरु इति । किन्तु तेन छात्रेण आदेशः न पालितः । यदा निरीक्षणाधिकारी निर्गतः तदा मुख्योपाध्यायः किमर्थं मम वचनं न पालितवान् इति तं छात्रम् अपृच्छत् तदा सः अवदत् 'अन्येन लिखितं दृष्ट्वा लेखनम् अनुचितं कार्यम् । तत् चौर्यमिव' इति । तस्य छात्रस्य नाम 'मोहनदासः' यः भाविनिकाले 'महात्मा गान्धिः' इति नाम्ना ख्यातः अभवत् । 
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a school, an inspector gave students five English words to write. While walking among them, the headmaster noticed that one student had misspelled “kettle.” By a gesture, he hinted that the boy should look at his neighbour’s paper and correct it. The boy, however, did not obey. After the inspector left, the headmaster asked why. The student replied, “Copying another’s writing is improper; it is like theft.” That boy’s name was Mohandas, who later became known to the world as Mahatma Gandhi.

    3 min
  • पालय कर्तव्यम्

    बहुषु युद्धेषु शत्रुजनानां मारणं दृष्ट्वा कस्यचन राज्ञः मनः विषादग्रस्तं जातम् । सः कञ्चन संन्यासिनम् उपसर्प्य  'भवतः इव तपोमयं जीवनं स्यात् ममापि' इति अवदत् । तदा संन्यासी 'प्रजारक्षणं, युद्धम् इत्यादिकं तव कर्तव्यम् । तपसि प्रवृत्तिः, जनानां प्रबोधनम् इत्यादिकं मम कर्तव्यम् । सर्वेण अपि जनेन स्वस्य कर्तव्यपालनमात्रं चिन्तनीयम् । अन्येन आत्मनः तोलनं न युज्यते....’ इत्यादिभिः वचनैः राजानं बोधयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king, saddened after witnessing the killing of many enemies in battles, approached a renunciate and said, “I wish to live a life of penance like yours.” The renunciate replied, “Your duty is to protect your people and fight when necessary. My duty is penance and guiding others. Each person must think only of fulfilling his own duty. Comparing oneself with another is not proper.” With these words, the king was enlightened.

    3 min
  • मानवता

    जोधपुरसाम्राज्ये राजा रामसिंहः आधिपत्यं वहन् आसीत् । कदाचित् रामसिंहः महता शौर्येण मोगलैः सह युद्धम् अकरोत् । भीतं मोगलसैन्यं तत्स्थानात् पलायनम् अकरोत् । पलायमानाः पिपासापीडिताः मोगलसैनिकाः कस्यचन तडागस्य जलं पातुं यदा उद्यताः तदा रामसिंहस्य सैनिकाः तेषां जलपानं निवारितवन्तः । रामसिंहः त्वरितं तत्रागत्य 'इमे निश्शस्त्राः, निस्सहायाः, पिपासाबाधिताश्च । जलपानाय प्रतिगमनाय च अनुमन्यन्ताम्' इति उच्चैः आदिष्टवान् । ततश्च मोगलसैनिकाः जलं पीत्वा रामसिंहस्य औदार्यगुणेन आवर्जिताः सन्तः तं प्रशंसन्तः स्वस्थानं प्रतिगताः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the kingdom of Jodhpur, King Ramasinha once fought bravely against the Mughals. The Mughal army, terrified, fled the battlefield. Thirsty and exhausted, the fleeing soldiers tried to drink water from a pond, but Ramasinha’s men stopped them. The king quickly arrived and commanded loudly, “These men are unarmed, helpless, and tormented by thirst. Let them drink and return.” The Mughal soldiers, after quenching their thirst, were deeply moved by the king’s generosity and praised him before departing.

    4 min
  • राधानामजपः किमर्थम् ?

    कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'सदैव भवान् राधे! राधे! इति किमर्थं जपति?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । वेदनायाः निवारणं कथम् इति पृष्टे कृष्णः अवदत् 'मद्भक्तस्य चरणरजसः स्पर्शेन इयं वेदना दूरीभवितुमर्हति’ इति । अविलम्बेन गत्वा आनेष्यामि इत्युक्त्वा नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य चरणरजः अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा अपृच्छत् । सपदि एव राधा तद् अयच्छत् । यदा नारदः प्रत्यागत्य प्रवृत्तं सर्वम् अकथयत् तदा कृष्णः अवदत् ‘राधे! राधे! इति अहं सर्वदा जपामि तस्य कारणम् इदानीं भवता ज्ञातम् इति भावये’ इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Sage Narada asked Lord Krishna, “Why do you always chant ‘Radhe! Radhe!’?” Hearing this, Krishna acted as though suffering from a severe headache. When asked how it could be cured, Krishna replied, “Only the touch of the dust from a devotee’s feet can relieve this pain.” Narada hurried to Rukmini, Satyabhama, and other queens, but all refused. Finally, he approached Radha, who immediately gave the dust. When Narada returned and narrated everything, Krishna said, “Now you understand why I always chant ‘Radhe! Radhe!’.”

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।