न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि।
संघातविलयं कुवर्र्न्नेमेव लयं व्रज।। 66।।
उदेति भवतो विश्वं वारिधेरिव बुदबुदः।
इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज।। 67।।
प्रत्यक्षमप्यवस्तुत्वद्विश्वं नास्त्यमले त्वयि।
रज्जुसर्प इव व्यकृमेवमेव लयं व्रज।। 68।।
समदुःख सुखः पूर्ण आशानैराश्ययोः समः।
समजीवित मृत्युः सन्नैवमेव लयं व्रज।। 69।।
आकाशवदनंतोऽहं घटवत् प्राकृतं जगत्।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 70।।
महौदधिरिवाहं स प्रपंचो वीचिसन्निभिः।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 71।।
अहं स शुक्तिसंकाशो रूप्पवद्विश्वकल्पना।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 72।।
अहं वा सर्वभूतेषु सर्वभूतान्ययो मयि।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 73।।