रामकुटी (Ramkuti)

रामकुटी (Ramkuti)

Download on the App Store

रामकुटी (Ramkuti) episodes

  • भवानी अष्टकम/Bhawani Ashtakam Bhawani Ashtakam/भवानी अष्टकम
    सौ सुनिता चव्हाण

    भवानी अष्टकम/Bhawani Ashtakam
    Bhawani Ashtakam/भवानी अष्टकम
    न तातो न माता न बन्धुर्न दाता
    न पुत्रो न पुत्री न भृत्यो न भर्ता ।
    न जाया न विद्या न वृत्तिर्ममैव
    गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥1॥
    भवाब्धावपारे महादुःखभीरु
    पपात प्रकामी प्रलोभी प्रमत्तः ।
    कुसंसारपाशप्रबद्धः सदाहं
    गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥2॥
    न जानामि दानं न च ध्यानयोगं
    न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
    न जानामि पूजां न च न्यास
    3 min
  • दक्षिणमूर्ती वर्णमाला स्तोत्र

    Asha R. 


    दक्षिणामूर्ति-वर्णमाला-स्तोत्रम्


    ओमित्येतद्यस्य बुधैर्नाम गृहीतं

    यद्भासेदं भाति समस्तं वियदादि ।

    यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥

    omityetadyasya budhairnāma gṛhītaṃ

    yadbhāsedaṃ bhāti samastaṃ viyadādi ;

    yasyājñātaḥ svasvapadasthā vidhimukhyā-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 1 .

    नम्राङ्गाणां भक्तिमतां यं पुरुषार्था-

    न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।

    पादाम्भोजाधस्तनितापस्मृतिमीशं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥

    namrāṅgāṇāṃ bhaktimatāṃ yaṃ puruṣārthā-

    ndatvā kṣipraṃ hanti ca tatsarvavipattīḥ ;

    pādāmbhojādhastanitāpasmṛtimīśaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 2 .

    मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः

    संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।

    हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥

    mohadhvastyai vaiṇikavaiyāsikimukhyāḥ

    saṃvinmudrāpustakavīṇākṣaguṇānyam ;

    hastāmbhojairbibhratamārādhitavanta-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 3 .

    भद्रारूढं भद्रदमाराधयितॄणां

    भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।

    आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥

    bhadrārūḍhaṃ bhadradamārādhayitR^īṇāṃ

    bhaktiśraddhāpūrvakamīśaṃ praṇamanti ;

    ādityā yaṃ vāñchitasiddhyai karuṇābdhiṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 4 .

    गर्भान्तःस्थाः प्राणिन एते भवपाश-

    च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।

    आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥

    garbhāntaḥsthāḥ prāṇina ete bhavapāśa-

    cchede dakṣaṃ niścitavantaḥ śaraṇaṃ yam ;

    ārādhyāṅghriprasphuradambhoruhayugmaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 5 .

    वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-

    द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।

    सेवन्तेऽध्यासीनमनन्तं वटमूलं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥

    vaktraṃ dhanyāḥ saṃsṛtivārdheratimātrā-

    dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya ;

    sevante’dhyāsīnamanantaṃ vaṭamūlaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 6 .

    तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-

    न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।

    तेजोमूर्तिं स्वानिलतेजःप्रमुखाब्धिं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥

    tejaḥstomairaṅgadasaṅghaṭṭitabhāsva-

    nmāṇikyotthairbhāsitaviśvo rucirairyaḥ ;

    tejomūrtiṃ svānilatejaḥpramukhābdhiṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 7 .

    दध्याज्यादिद्रव्यककर्माण्यखिलानि

    त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।

    यज्जिज्ञासांरूपफलार्थी क्षितिदेव-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥

    dadhyājyādidravyakakarmāṇyakhilāni

    tyaktvā kāṅkṣāṃ karmaphaleṣvatra karoti ;

    yajjijñāsāṃrūpaphalārthī kṣitideva-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 8 .

    क्षिप्रं लोके यं भजमानः पृथुपुण्यः

    प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।

    प्रत्यग्भूतं ब्रह्म परं सन् रमते च

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥

    kṣipraṃ loke yaṃ bhajamānaḥ pṛthupuṇyaḥ

    pradhvastādhiḥ projjhitasaṃsṛtyakhilārtiḥ ;

    pratyagbhūtaṃ brahma paraṃ san ramate ca

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 9 .

    णानेत्येवं यन्मनुमध्यस्थितवर्णा-

    न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।

    मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥

    ṇānetyevaṃ yanmanumadhyasthitavarṇā-

    nbhaktāḥ kāle varṇagṛhītyai prajapantaḥ ;

    modante samprāptasamastaśrutitantrā-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 10 .

    मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-

    प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।

    यस्याभ्राभाहासविधौ दक्षशिरोधि-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥

    mūrtiśchāyānirjitamandākinikunda-

    prāleyāmbhorāśisudhābhūtisurebhā ;

    yasyābhrābhāhāsavidhau dakṣaśirodhi-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 11 .

    तप्तस्वर्णच्छायजटाजूटकटाह-

    प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।

    नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥

    taptasvarṇacchāyajaṭājūṭakaṭāha-

    prodyadvīcīvallivirājatsurasindhum ;

    nityaṃ sūkṣmaṃ nityanirastākhiladoṣaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 12 .

    येन ज्ञातेनैव समस्तं विदितं स्या-

    द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।

    यं प्राप्तानां नास्ति परं प्राप्यमनादिं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥

    yena jñātenaiva samastaṃ viditaṃ syā-

    dyasmādanyadvastu jagatyāṃ śaśaśṛṅgam ;

    yaṃ prāptānāṃ nāsti paraṃ prāpyamanādiṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 13 .

    मत्तो मारो यस्य ललाटाक्षिभवाग्नि-

    स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।

    तद्भस्मासीद्यस्य सुजातः पटवास-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥

    matto māro yasya lalāṭākṣibhavāgni-

    sphūrjatkīlaproṣitabhasmīkṛtadehaḥ ;

    tadbhasmāsīdyasya sujātaḥ paṭavāsa-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 14 .

    ह्यम्भोराशौ संसृतिरूपे लुठतां त-

    त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।

    सर्वाराध्यं सर्वगमानन्दपयोधिं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥

    hyambhorāśau saṃsṛtirūpe luṭhatāṃ ta-

    tpāraṃ gantuṃ yatpadabhaktirdṛḍhanaukā ;

    sarvārādhyaṃ sarvagamānandapayodhiṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 15 .

    मेधावी स्यादिन्दुवतंसं धृतवीणं

    कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।

    चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥

    medhāvī syādinduvataṃsaṃ dhṛtavīṇaṃ

    karpūrābhaṃ pustakahastaṃ kamalākṣam ;

    citte dhyāyanyasya vapurdrāṅnimiṣārdhaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 16 .

    धाम्नां धाम प्रौढरुचीनां परमं य-

    त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।

    एतावान्यो यस्य न सर्वेश्वरमीड्यं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥

    dhāmnāṃ dhāma prauḍharucīnāṃ paramaṃ ya-

    tsūryādīnāṃ yasya sa heturjagadādeḥ ;

    etāvānyo yasya na sarveśvaramīḍyaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 17 .

    प्रत्याहारप्राणनिरोधादिसमर्थै-

    र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।

    स्वात्मात्वेन ज्ञायत एव त्वरया य-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥

    pratyāhāraprāṇanirodhādisamarthai-

    rbhaktairdāntaiḥ saṃyatacittairyatamānaiḥ ;

    svātmātvena jñāyata eva tvarayā ya-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 18 .

    ज्ञांशीभूतान्प्राणिन एतान्फलदाता

    चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।

    कृत्ये देवः प्राक्तनकर्मानुसरः सं-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥

    jñāṃśībhūtānprāṇina etānphaladātā

    cittāntaḥsthaḥ prerayati sve sakale’pi ;

    kṛtye devaḥ prāktanakarmānusaraḥ saṃ-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 19 .

    प्रज्ञामात्रं प्रापितसंविन्निजभक्तं

    प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।

    प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥

    prajñāmātraṃ prāpitasaṃvinnijabhaktaṃ

    prāṇākṣādeḥ prerayitāraṃ praṇavārtham ;

    prāhuḥ prājñā yaṃ viditānuśravatattvā-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 20 .

    यस्याज्ञानादेव नृणां संसृतिबन्धो

    यस्य ज्ञानादेव विमोक्षो भवतीति ।

    स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥

    yasyājñānādeva nṛṇāṃ saṃsṛtibandho

    yasya jñānādeva vimokṣo bhavatīti ;

    spaṣṭaṃ brūte vedaśiro deśikamādyaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 21 .

    छन्नेऽविद्यारूपपटेनैव च विश्वं

    यत्राध्यस्तं जीवपरेशत्वमपीदम् ।

    भानोर्भानुष्वम्बुवदस्ताखिलभेदं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥

    channe’vidyārūpapaṭenaiva ca viśvaṃ

    yatrādhyastaṃ jīvapareśatvamapīdam ;

    bhānorbhānuṣvambuvadastākhilabhedaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 22 .

    स्वापस्वप्नौ जाग्रदवस्थापि न यत्र

    प्राणश्चेतः सर्वगतो यः सकलात्मा ।

    कूटस्थो यः केवलसच्चित्सुखरूप-

    स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥

    svāpasvapnau jāgradavasthāpi na yatra

    prāṇaścetaḥ sarvagato yaḥ sakalātmā ;

    kūṭastho yaḥ kevalasaccitsukharūpa-

    staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 23 .

    हा हेत्येवं विस्मयमीयुर्मुनिमुख्या

    ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।

    प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं

    तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥

    hā hetyevaṃ vismayamīyurmunimukhyā

    jñāte yasminsvātmatayānātmavimohaḥ ;

    pratyagbhūte brahmaṇi yātaḥ kathamitthaṃ

    taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 24 .

    यैषा रम्यैर्मत्तमयूराभिधवृत्तै-

    रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।

    तामेवैतां दक्षिणवक्त्रः कृपयासा-

    वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥

    yaiṣā ramyairmattamayūrābhidhavṛttai-

    rādau kḷptā yanmanuvarṇairmunibhaṅgī ;

    tāmevaitāṃ dakṣiṇavaktraḥ kṛpayāsā-

    vūrīkuryāddeśikasamrāṭ paramātmā . 25 .



    ॥ दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥

    . dakṣiṇāmūrtivarṇamālāstotraṃ sampūrṇam



    14 min
  • श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

    ॥ हनुमत् पञ्चरत्नम् ॥


    वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् । सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

    तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥

    शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥

    दूरीकृत-सीतार्तिः प्रकटीकृत- रामवैभव-स्फूर्तिः । दारित-दशमुख-क - कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

    वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।

    दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥

    एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।

    चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥

    इति श्रीमच्छंकर-भगवतः कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥


    यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम् ॥

    असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूतकृपसिन्धो मत्कार्यं साधय प्रभो ॥

    बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता। अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥

    4 min

About रामकुटी (Ramkuti)

From the publisher's feed

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b