Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. Join Telegram group https://t.me/+2B4YTIfT--BiMWZl... more
FAQs about रामकुटी (Ramkuti):How many episodes does रामकुटी (Ramkuti) have?The podcast currently has 257 episodes available.
May 23, 2023मारुतीस्तोत्र प.पू. श्रीवासुदेवानंद सरस्वती रचितमारुतीस्तोत्र प.पू. श्रीवासुदेवानंद सरस्वती रचित, सौ .सुनीता चव्हाण ....more3minPlay
May 22, 2023दक्षिणमूर्ती वर्णमाला स्तोत्रAsha R. दक्षिणामूर्ति-वर्णमाला-स्तोत्रम्ओमित्येतद्यस्य बुधैर्नाम गृहीतंयद्भासेदं भाति समस्तं वियदादि ।यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥omityetadyasya budhairnāma gṛhītaṃyadbhāsedaṃ bhāti samastaṃ viyadādi ;yasyājñātaḥ svasvapadasthā vidhimukhyā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 1 .नम्राङ्गाणां भक्तिमतां यं पुरुषार्था-न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥namrāṅgāṇāṃ bhaktimatāṃ yaṃ puruṣārthā-ndatvā kṣipraṃ hanti ca tatsarvavipattīḥ ;pādāmbhojādhastanitāpasmṛtimīśaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 2 .मोहध्वस्त्यै वैणिकवैयासिकिमुख्याःसंविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥mohadhvastyai vaiṇikavaiyāsikimukhyāḥsaṃvinmudrāpustakavīṇākṣaguṇānyam ;hastāmbhojairbibhratamārādhitavanta-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 3 .भद्रारूढं भद्रदमाराधयितॄणांभक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥bhadrārūḍhaṃ bhadradamārādhayitR^īṇāṃbhaktiśraddhāpūrvakamīśaṃ praṇamanti ;ādityā yaṃ vāñchitasiddhyai karuṇābdhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 4 .गर्भान्तःस्थाः प्राणिन एते भवपाश-च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥garbhāntaḥsthāḥ prāṇina ete bhavapāśa-cchede dakṣaṃ niścitavantaḥ śaraṇaṃ yam ;ārādhyāṅghriprasphuradambhoruhayugmaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 5 .वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।सेवन्तेऽध्यासीनमनन्तं वटमूलंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥vaktraṃ dhanyāḥ saṃsṛtivārdheratimātrā-dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya ;sevante’dhyāsīnamanantaṃ vaṭamūlaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 6 .तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।तेजोमूर्तिं स्वानिलतेजःप्रमुखाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥tejaḥstomairaṅgadasaṅghaṭṭitabhāsva-nmāṇikyotthairbhāsitaviśvo rucirairyaḥ ;tejomūrtiṃ svānilatejaḥpramukhābdhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 7 .दध्याज्यादिद्रव्यककर्माण्यखिलानित्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।यज्जिज्ञासांरूपफलार्थी क्षितिदेव-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥dadhyājyādidravyakakarmāṇyakhilānityaktvā kāṅkṣāṃ karmaphaleṣvatra karoti ;yajjijñāsāṃrūpaphalārthī kṣitideva-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 8 .क्षिप्रं लोके यं भजमानः पृथुपुण्यःप्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।प्रत्यग्भूतं ब्रह्म परं सन् रमते चतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥kṣipraṃ loke yaṃ bhajamānaḥ pṛthupuṇyaḥpradhvastādhiḥ projjhitasaṃsṛtyakhilārtiḥ ;pratyagbhūtaṃ brahma paraṃ san ramate cataṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 9 .णानेत्येवं यन्मनुमध्यस्थितवर्णा-न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥ṇānetyevaṃ yanmanumadhyasthitavarṇā-nbhaktāḥ kāle varṇagṛhītyai prajapantaḥ ;modante samprāptasamastaśrutitantrā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 10 .मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।यस्याभ्राभाहासविधौ दक्षशिरोधि-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥mūrtiśchāyānirjitamandākinikunda-prāleyāmbhorāśisudhābhūtisurebhā ;yasyābhrābhāhāsavidhau dakṣaśirodhi-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 11 .तप्तस्वर्णच्छायजटाजूटकटाह-प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥taptasvarṇacchāyajaṭājūṭakaṭāha-prodyadvīcīvallivirājatsurasindhum ;nityaṃ sūkṣmaṃ nityanirastākhiladoṣaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 12 .येन ज्ञातेनैव समस्तं विदितं स्या-द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।यं प्राप्तानां नास्ति परं प्राप्यमनादिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥yena jñātenaiva samastaṃ viditaṃ syā-dyasmādanyadvastu jagatyāṃ śaśaśṛṅgam ;yaṃ prāptānāṃ nāsti paraṃ prāpyamanādiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 13 .मत्तो मारो यस्य ललाटाक्षिभवाग्नि-स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।तद्भस्मासीद्यस्य सुजातः पटवास-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥matto māro yasya lalāṭākṣibhavāgni-sphūrjatkīlaproṣitabhasmīkṛtadehaḥ ;tadbhasmāsīdyasya sujātaḥ paṭavāsa-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 14 .ह्यम्भोराशौ संसृतिरूपे लुठतां त-त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।सर्वाराध्यं सर्वगमानन्दपयोधिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥hyambhorāśau saṃsṛtirūpe luṭhatāṃ ta-tpāraṃ gantuṃ yatpadabhaktirdṛḍhanaukā ;sarvārādhyaṃ sarvagamānandapayodhiṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 15 .मेधावी स्यादिन्दुवतंसं धृतवीणंकर्पूराभं पुस्तकहस्तं कमलाक्षम् ।चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥medhāvī syādinduvataṃsaṃ dhṛtavīṇaṃkarpūrābhaṃ pustakahastaṃ kamalākṣam ;citte dhyāyanyasya vapurdrāṅnimiṣārdhaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 16 .धाम्नां धाम प्रौढरुचीनां परमं य-त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।एतावान्यो यस्य न सर्वेश्वरमीड्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥dhāmnāṃ dhāma prauḍharucīnāṃ paramaṃ ya-tsūryādīnāṃ yasya sa heturjagadādeḥ ;etāvānyo yasya na sarveśvaramīḍyaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 17 .प्रत्याहारप्राणनिरोधादिसमर्थै-र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।स्वात्मात्वेन ज्ञायत एव त्वरया य-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥pratyāhāraprāṇanirodhādisamarthai-rbhaktairdāntaiḥ saṃyatacittairyatamānaiḥ ;svātmātvena jñāyata eva tvarayā ya-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 18 .ज्ञांशीभूतान्प्राणिन एतान्फलदाताचित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।कृत्ये देवः प्राक्तनकर्मानुसरः सं-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥jñāṃśībhūtānprāṇina etānphaladātācittāntaḥsthaḥ prerayati sve sakale’pi ;kṛtye devaḥ prāktanakarmānusaraḥ saṃ-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 19 .प्रज्ञामात्रं प्रापितसंविन्निजभक्तंप्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥prajñāmātraṃ prāpitasaṃvinnijabhaktaṃprāṇākṣādeḥ prerayitāraṃ praṇavārtham ;prāhuḥ prājñā yaṃ viditānuśravatattvā-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 20 .यस्याज्ञानादेव नृणां संसृतिबन्धोयस्य ज्ञानादेव विमोक्षो भवतीति ।स्पष्टं ब्रूते वेदशिरो देशिकमाद्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥yasyājñānādeva nṛṇāṃ saṃsṛtibandhoyasya jñānādeva vimokṣo bhavatīti ;spaṣṭaṃ brūte vedaśiro deśikamādyaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 21 .छन्नेऽविद्यारूपपटेनैव च विश्वंयत्राध्यस्तं जीवपरेशत्वमपीदम् ।भानोर्भानुष्वम्बुवदस्ताखिलभेदंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥channe’vidyārūpapaṭenaiva ca viśvaṃyatrādhyastaṃ jīvapareśatvamapīdam ;bhānorbhānuṣvambuvadastākhilabhedaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 22 .स्वापस्वप्नौ जाग्रदवस्थापि न यत्रप्राणश्चेतः सर्वगतो यः सकलात्मा ।कूटस्थो यः केवलसच्चित्सुखरूप-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥svāpasvapnau jāgradavasthāpi na yatraprāṇaścetaḥ sarvagato yaḥ sakalātmā ;kūṭastho yaḥ kevalasaccitsukharūpa-staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 23 .हा हेत्येवं विस्मयमीयुर्मुनिमुख्याज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।प्रत्यग्भूते ब्रह्मणि यातः कथमित्थंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥hā hetyevaṃ vismayamīyurmunimukhyājñāte yasminsvātmatayānātmavimohaḥ ;pratyagbhūte brahmaṇi yātaḥ kathamitthaṃtaṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 24 .यैषा रम्यैर्मत्तमयूराभिधवृत्तै-रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।तामेवैतां दक्षिणवक्त्रः कृपयासा-वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥yaiṣā ramyairmattamayūrābhidhavṛttai-rādau kḷptā yanmanuvarṇairmunibhaṅgī ;tāmevaitāṃ dakṣiṇavaktraḥ kṛpayāsā-vūrīkuryāddeśikasamrāṭ paramātmā . 25 .॥ दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥. dakṣiṇāmūrtivarṇamālāstotraṃ sampūrṇam...more14minPlay
May 06, 2023रंजल्या गांजल्या आपुल्या .. संत श्री जनार्दन स्वामी यांचे भक्ती गीतसौ अंजली अशोक जोशी ताई...more5minPlay
April 23, 2023अन्नपूर्णा स्तोत्र ( सौ सुनीता ताई .)रामरक्षा सामूहिक पठण ग्रुपच्या वतीने आयोजित....more6minPlay
April 17, 2023श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)॥ हनुमत् पञ्चरत्नम् ॥वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् । सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥ तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥ शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥दूरीकृत-सीतार्तिः प्रकटीकृत- रामवैभव-स्फूर्तिः । दारित-दशमुख-क - कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥ वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥इति श्रीमच्छंकर-भगवतः कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम् ॥ असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूतकृपसिन्धो मत्कार्यं साधय प्रभो ॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता। अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥...more4minPlay
FAQs about रामकुटी (Ramkuti):How many episodes does रामकुटी (Ramkuti) have?The podcast currently has 257 episodes available.