Asit Krit Shiv Stotram असितकृतं शिवस्तोत्रम् ★
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च | योगिन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः ॥ १ ॥
मृत्योर्मृत्युस्वरुपेण मृत्युसंसारखंडन |
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु || २ ||
कालरुपं कलयतां कालकालेश कारण
कालादतीत कालस्य कालकाल नमोऽस्तु || ३ ||
गुणातीत गुणाधार गुणबीज गुणात्मक
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४ ॥
ब्रह्ममस्वरूप ब्रह्मज्ञ ब्रह्मभावनतत्पर |
ब्रह्मबीजस्वरुपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५ ॥
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः
दीनवत् साश्रुनेत्रश्च पुलकाञ्जितविग्रहः || ६ ||
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्
वर्षमेकं हविश्याशी शङ्करस्य महात्मनः ॥ ७ ॥
स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् |
भवेदधनाढ्यो दुःखी च मूको भवति पण्डितः || ८
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम्
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधिम् || ९
★
॥ इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम् ॥