बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • अपूर्वम् उपायानम्

    इमर्सनः कश्चन क्रैस्तधर्मगुरुः । भगवद्गीतया आकृष्टः‌ सः स्वस्य धर्मगुरुत्वं परित्यज्य भगवद्गीतायाः प्रचारे मग्नः अभवत् । कदाचित् सः इङ्ग्लेण्ड्-देशं गतः तत्रत्यं कञ्चन महादार्शनिकं कार्यायिलं द्रष्टुम् । सम्भाषणावसरे कार्यायिलः अपृच्छत् 'मह्यं कीदृशम् उपायनम् आनीतम्?’ इति । 'मम देशे महती सम्पत्तिः चेदपि सांस्कृतिकदृष्ट्या तु वयम् अकिञ्चनाः । मया अपूर्वम् उपायनं दीयते किन्तु तत् न मद्देशीयम् , अपि तु भारतीयम्' इत्युक्त्वा इमर्सनः भगवद्गीतां कार्यायिलाय अयच्छत् । एतत् उपायनं प्रीत्या स्वीकृत्य कार्यायिलः अपि तस्मै उपायनत्वे भगवद्गीताम् एव आनीतवान् आसीत् । एकः अमेरिकीयः अपरः इङ्ग्लेण्ड्-देशीयः च । किन्तु उभौ अपि उपायनीकुरुतः भारतीयां भगवद्गीताम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Emerson, once a Christian preacher, was deeply drawn to the Bhagavad Gita. He gave up his priesthood and devoted himself to spreading its message. On a visit to England, he met the great philosopher Carlyle. During their conversation, Carlyle asked what gift Emerson had brought him. Emerson replied: ‘Though my country is wealthy, culturally we are poor. I bring you a unique gift, not from my land but from India.’ He then presented Carlyle with the Bhagavad Gita. Carlyle accepted it with joy and, in return, gifted Emerson the same — the Bhagavad Gita. Thus, one was American, the other English, yet both chose an Indian scripture as their highest offering.

    3 min
  • भगवत्तत्त्वम्

    आत्मानं नास्तिकं मन्यमानं कञ्चन राजानं द्रष्टुं कश्चन संन्यासी आगतवान् । तम् आशिषा अनुगृह्य मन्दहासपूर्वकम् अपृच्छत् संन्यासी 'भगवतः कृपया भवतः देशे सर्वं कुशलं ननु?’ इति । तत् श्रुत्वा राजा असन्तोषेण अवदत् 'देशे सर्वं कुशलम् एव । किन्तु अत्र न भगवतः दयायाः पात्रता कापि' इति । ततः संन्यासी मन्दहासं प्रकटयन् तं कांश्चन प्रश्नान् अपृच्छत् । राज्ञः मुखात् आगतैः उत्तरैः एव प्रतिपादयति संन्यासी यत् राजा भगवतः सत्ताम् इच्छति इति । तदनन्तरं भगवत्तत्त्वं अपि विवृणोति । तस्मात् प्रभावितः राजा भगवत्तत्त्वविषये बहून् प्रश्नान् अपृच्छत् । संन्यासिनः बोधनस्य कारणतः अल्पे एव काले सः भगवति श्रद्धावान् जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A monk once visited a king who considered himself an atheist. With a gentle smile, the monk blessed him and asked: ‘By God’s grace, is everything well in your kingdom?’. Annoyed, the king replied: ‘All is well here, but there is no place for God’s grace’. The monk, still smiling, asked him a series of questions. From the king’s own answers, the monk showed that the king indeed desired the existence of God. He then explained the nature of the Divine. Deeply moved, the king asked many questions about God, and through the monk’s teaching, soon developed faith in the Divine.

    3 min
  • योग्यं प्रशासनम्

    उत्तमस्य प्रशासनस्य परिणामः कः इति अनया कथया ज्ञातुं शक्नुमः । कदाचित् केनचन संन्यासिना स्वशिष्यैः सह काचित् रुदती महिला दृष्टा । कारणे पृष्टे ज्ञातं यत् केनचन नरभक्षकेन व्याघ्रेण तस्याः परिवारसदस्याः, अन्ये केचन ग्रामजनाः च निष्ठुरतया भक्षिताः इति । शिष्येषु कश्चन अवदत् यत् एतं प्रदेशं परित्यज्य अन्यत् स्थानं गच्छेयुः इति । किन्तु तन्नीराकृत्य महिला अवदत् 'एतस्य प्रदेशस्य राजा सज्जनः धर्मनिष्ठः प्रजानुरागी च । देशे द्रोहः, वञ्चना, उत्कोचः, अन्याय्यं वा न दृश्यते । उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम?’ इति । तत् श्रुत्वा संन्यासी अवदत् 'बहूनि कष्टानि आपतेयुः चेदपि योग्ये प्रशासके सति जनाः तानि सहन्ते एव । तेनैव भूमिः नन्दनवनायते' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This tale shows the result of good governance. Once, a monk with his disciples saw a weeping woman. On asking, they learned that her family and some villagers had been cruelly devoured by a man-eating tiger. One disciple suggested leaving the region. But the woman refused, saying: ‘The king here is virtuous, righteous, and devoted to his people. In this land there is no treachery, deceit, bribery, or injustice. With such noble rule, where else could we go?’. Hearing this, the monk said: ‘Even if many hardships arise, people endure them under a worthy ruler. By his governance, the land itself becomes like a paradise.’

    4 min
  • उपायचतुरः सङ्कनायकः

    षोडशशतके प्रवृत्ता घटना एषा । अन्यमतीयानां दुराक्रमणकारणतः विश्वनाथमन्दिरम् उध्वस्तं, विश्वनाथस्य पूजा स्थगिता च इति विषयः सङ्कनायकं तुदति स्म । सः काषायवस्त्रं धृत्वा देहलीम् अगच्छत् । देहल्याम् अकबरस्य सेनापतिः अङ्कुशाखानः दुर्गद्वारे उद्घोषितवान् - यः आत्मानं खड्गयुद्धनिपुणं मन्यते सः मया सह युद्धं कुर्यात् इति । सङ्कनायकः महत् कौशलं दर्शयन् अल्पे एव काले अङ्कुशाखानस्य शिरश्छेदनम् अकरोत् । तस्य धैर्यं युद्धकौशलं च दृष्ट्वा सन्तोषं प्रकटयन् अकबरः तस्मै उपायनानि दातुम् उद्युक्तः । तत् निराकुर्वन् सङ्कनायकः अवदत् 'काश्यां विश्वनाथस्य पूजां व्यवस्थापयितुम् अनुज्ञा देया' इति । अकबरः सहर्षम् अनुज्ञां दत्तवान् । काशीतः सुदूरे स्थित्वा अपि स्थगितायाः विश्वनाथपूजायाः पुनरपि आरम्भम् उपायेन साधितवतः सङ्कनायकस्य प्रयासः नितरां स्तुत्यः एव ननु ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the 16th century, the Visvanatha temple’s worship was halted after invasions. Distressed, Sankanayaka went to Delhi, where he defeated Akbar’s general Ankush Khān in a sword duel. Impressed, Akbar offered him gifts, but Sankanayaka instead requested permission to restore Visvanatha’s worship in Kashi. Akbar agreed, and the temple rituals resumed — a noble act of devotion achieved through courage and selflessness.

    4 min
  • परतत्त्वम् एकमेव

    ब्रह्म सत्यं जगन्मिथ्या । परतत्त्वं तु एकमेव । यत् सर्वत्र सर्वदा तिष्ठति तदेव पारमार्थिकं सत्यम् । यत्र यत् नास्ति तत्र तस्य रूपस्य आरोपणम् एव उच्यते 'प्रातिभासिकं सत्यम्' इति । यत् लोके व्यवहारे सत्यतया स्वीक्रियते, तत् व्यावहारिकं सत्यम् इति कथ्यते। यः ब्रह्मज्ञानं प्राप्तवान् सः सर्वं परब्रह्ममयं पश्यति । प्रातिभासिकं, व्यावहारिकं वा सत्यम् अतिक्राम्य पारमार्थिकं सत्यं प्रति गमनम् एव ज्ञानार्थिनां लक्ष्यम् । एतत् सर्वम् अनया कथया दृष्टान्तरूपेण कश्चन साधुः शिष्यौ पाठयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Brahman alone is truth; the world is illusory. The ultimate reality is one, ever-present everywhere. That which is superimposed where it does not truly exist is called apparent truth (prātibhāsika satya). That which is accepted as real in worldly dealings is called practical truth (vyāvahārika satya). One who attains knowledge of Brahman perceives everything as permeated by the Supreme. For seekers of wisdom, the goal is to transcend both apparent and practical truths and realize the absolute truth (pāramārthika satya). A saint once taught this to his disciples through a parable.

    4 min
  • प्रत्युत्पन्नमतित्वम्

    काचित् विधवा पुत्रेण सह दारिद्र्यमयं जीवनं यापयति स्म । कदाचित् चुल्ल्याम् अग्निः सर्वथा निर्विण्णः आसीत् । पार्श्वस्थधनिकगृहं गत्वा तप्ताङ्गारान् आनय इति पुत्रं प्रेषितवती माता। पुत्रः गत्वा सेवकं तप्ताङ्गारान् अयाचत । किन्तु सः सेवकः बालकम् उपेक्षया पश्यन् अवदत् 'किं युतकेन तप्ताङ्गाराः नीयेरन् ? त्वया युतकमपि न धृतम्' इति । क्षणं विचिन्त्य सः बालः समीपे स्थितेन जलेन हस्तौ आर्द्रीकृत्य काष्ठभस्म अञ्जलौ धृत्वा 'तप्ताङ्गारान् अञ्जलौ निक्षिपतु' इति सेवकम् अवदत् । एतत् सर्वं दृष्टवता धनिकेन बालकास्य गृहं गत्वा 'पुत्रः बुद्धिमान् अस्ति । अस्य शिक्षणव्यवस्था मया करिष्यते' इति उक्त्म् । सः बालः एव गच्छता कालेन न्यायशास्त्रे महत् ज्ञानं सम्पाद्य ख्यातिं प्राप्तवान् । तस्य नाम अस्ति 'रघुनाथशिरोमणिः' ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A poor widow sent her son to fetch burning embers from a wealthy neighbor. The servant mocked him for not carrying a vessel. The boy cleverly moistened his hands, filled them with ash, and asked the servant to place the embers there. Impressed by his ingenuity, the wealthy man sponsored his education. In time, he boy became a renowned scholar of law, known as Raghunātha Śiromaṇi.

    4 min
  • बोधनम्

    कदाचित् गुरुकुले मगधराजकुमारं गुरुः विना कारणं दण्डेन ताडितवान् आसीत् । वेदनाम् अनुभवन् 'किमर्थम् एवं मम दण्डनं क्रियते ?’ इति राजकुमारेण पृष्टे गुरुः गाम्भीर्येण अवदत् 'कालान्तरेण स्वयं ज्ञास्यते त्वया' इति । कालान्तरेण राजकुमारः सिंहासनम् आरूढवान् । कदाचित् गुरुः तं द्रष्टुम् आगतः । राजा तं यथोचितं सत्कृत्य सम्भाषणावसरे गुरुकुले विना कारणं दण्डनस्य कारणम् अपृच्छत् । गुरुः हसन् अवदत् 'तस्मिन् दिने मया न प्रहृतम्, अपि तु बोधितम् । अकृतापराधाः यदा दण्ड्येरन् तर्हि तैः कीदृशी वेदना प्राप्येत इति मया ज्ञापनीयम् आसीत् । सम्यक् विचार्य एव त्वया दण्ड्याः दण्डनीयाः....’  इति ।  'आजीवनं भवतः उपदेशस्य अनुगुणम् एव व्यवहरिष्यामि अहम्' इति विनयेन अवदत् राजा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once in a gurukula, the teacher struck the prince of Magadha with a punishment, seemingly without reason. Feeling the pain, the prince asked: ‘Why am I being punished in this way?’ The teacher, with gravity, replied: ‘In time, you will understand for yourself’. Later, the prince ascended the throne. One day, the teacher came to see him. The king welcomed him with due honor, and during their conversation asked about the reason for that punishment in the gurukula. The teacher smiled and said: ‘On that day, I did not strike you, but rather taught you. I wished to show you what kind of suffering is felt when the innocent are punished. So that when you judge, you may punish only after proper consideration’. The king humbly replied: ‘Throughout my life, I shall act in accordance with your teaching’.

    4 min
  • समस्याः मण्डूकाः इव

    कस्मिंश्चित् प्रवचने कश्चन पुरुषः महात्मानम् अपृच्छत् यत् जीवने कथं सर्वाः समास्याः निवार्य तृप्त्या जीवनं यापयितुं शक्यम् इति । तदा माहात्मना कांश्चन सजीवान् मण्डूकान् आनाय्य काञ्चित् तुलाम् अपि आनाय्य तेषां मण्डूकाननां भारं ज्ञात्वा वद इति उक्तम् । अल्पे एव काले तेन पुरुषेण ज्ञातं यत् मण्डूकानां तोलनं कियते क्लेशाय इति । तदा महात्मा अवदत् 'यथा मण्डूकाः एकत्र स्थापयितुं न शक्याः तथैव समस्यानां सर्वासां निवारणम् अपि न शक्यम् । उद्यमः, साहसः, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः इत्येते षट् गुणाः यदा अस्मासु स्युः तर्हि सर्वान् क्लेशान् निवार्य अग्रे गन्तुं शक्नुयाम वयम्' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain discourse, a man once asked a great soul: ‘In life, how is it possible to overcome all difficulties and live with contentment?’. Then the Mahatma brought some living frogs and a weighing scale, and asked the man to measure their weight. Within a short time, the man realized that weighing the frogs was troublesome. The Mahatma then said: ‘Just as frogs cannot be kept together in one place, in the same way, it is not possible to eliminate all problems at once. But when we possess six qualities—effort, courage, patience, intelligence, strength, and valor—then we can overcome all difficulties and move forward’.

    4 min
  • अध्यापनव्रतम्

    कश्चन तरुणः विद्याभ्यासं समाप्य स्वग्रामं गत्वा अध्ययन् कुर्वन् यथाशक्ति अध्यापनम् अपि आरब्धवान् । तस्य उत्कृष्टेन अध्यापनेन दिने दिने तस्य कक्ष्यायां छात्रसङ्ख्या प्रवृद्धा । तेन अन्ये अध्यापकाः असूयां प्राप्य छात्राणां मातापितरौ मिथ्या उक्त्वा छात्राः यथा कक्ष्यां न गच्छेयुः तथा कृतवन्तः । एतत् कुतन्त्रं जानन् अपि सः तरुणः अधीरः न जातः । कांश्चन शङ्कून् पुरतः संस्थाप्य सः अध्यापनम् आरब्धवान् । द्वित्राणां दिनानाम् अनन्तरं ग्रामीणाः तस्य अध्यापनश्रद्धाम् असूयग्रस्तानां कुतन्त्रं च ज्ञात्वा तं तरुणं क्षमां याचित्वा 'भवता एव अस्मदीयाः बालाः पाठनीयाः' इति प्रार्थितवन्तः । शङ्कून् पाठयन् पाठनव्रतं रक्षितवतः तस्य तरुणस्य नाम 'शङ्कुकः' इत्येव ख्यातम् अभवत् । साहित्यशास्त्रक्षेत्रे तदीयं नाम प्रसिद्धम् अस्ति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A young man returned to his village after completing his studies. He began teaching, and his classes grew popular. Jealous teachers spread false rumors to keep students away. Unshaken, he taught wooden poles as if they were pupils. Soon, the villagers realized his dedication and the deceit of others. They asked him to teach their children, and his name Shankuka (“the one who taught stakes”) became famous in the world of literature.

    3 min
  • चत्वारः प्रहरिणः

    कस्यचन लघुदेशस्य राजा सुशर्मा प्रजानां सुखं कथं स्यात् इति सर्वदा चिन्तयति स्म । अथ कदाचित् इन्धुधरः इति राजा यदा तस्य देशम् आगतः तदा सुशर्माणम् अपृच्छत् 'सुविशाले अपि भवतः देशे कथं शान्तिसुखादयः अधिकाः । मम राज्ये सान्तिसुखादिकं वर्धयितुं मया किं करणीयम् ?’ इति । तदा राजा इन्दुधरः अवदत् 'मम राज्ये सत्यप्रेमन्यायत्यागाः इति चत्वारः प्रहरिणः सन्ति । ते असत्यात्, घृणातः, अन्यायात्, स्वार्थात् च मम मद्देशस्य च रक्षणं कुर्वन्ति' इति । तदा इन्धुधरः 'मम देशे अपि तेषां पोषणाय योग्यां व्यवस्थां करिष्यामि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain small kingdom, the king named Susharma always pondered how his people might live happily. One day, when King Indudhara came to his land, Susharma asked him: "In your vast kingdom, how is it that peace and happiness are greater? What should I do to increase peace and happiness in my own realm?". Then King Indudhara replied: "In my kingdom, there are four guardians—Truth, Love, Justice, and Renunciation. They protect me and my land from falsehood, hatred, injustice, and selfishness". Hearing this, Susharma said: "I too shall establish a proper system in my country to nurture these guardians". 

    4 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।