
Sign up to save your podcasts
Or


श्रीमतः गोपालकृष्णगोखलेवर्यस्य बाल्ये प्रवृता घटना एषा । कदाचित् शिक्षकः कांश्चन प्रश्नान् दत्तवान् । यद्यपि सर्वे छात्राः प्रश्नानाम् उत्तराणि अलिखन् तथापि गोखलेवर्यस्य एव सर्वेषां प्रश्नानाम् उत्तराणि उत्तमरीत्या अलिखत् । एतेन सन्तुष्टः शिक्षकः भूरि प्रशंसां कृत्वा तस्मै पुरस्कारं दातुं यदा उद्युक्तः तदा रोदनम् आरब्धं गोखलवर्येण । 'किमर्थं रोदिति ?’ इति शिक्षकेण पृष्टे अवदत् गोखलेवर्यः 'एतेषु उत्तरेषु एकस्य प्रश्नस्य उत्तरं मम मित्रं पृष्ट्वा अलिखम् । भवन्तं वञ्चितवान् अस्मि । अतः अहं न पुरस्कारार्हः, अपि तु दण्डनार्हः' इति । तस्य सत्यवचेन सन्तुष्टः शिक्षकः 'भवतः सत्यप्रियतायै पुरस्कारः दीयते' इति उक्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This is an incident from the childhood of the revered Gopal Krishna Gokhale. Once, a teacher gave some questions to the students. Although all the students wrote answers, only Gokhale wrote all of them in the best manner. The teacher, pleased with him, praised him greatly and was about to give him a reward. But Gokhale began to cry. When the teacher asked the reason, Gokhale said: “For one of these answers, I asked my friend and wrote it down. I have deceived you. Therefore, I am not worthy of a reward, but rather of punishment”. Hearing his truthful words, the teacher was deeply satisfied and said: “This reward is given to you for your love of truth”.
केरले पूर्वं कश्चन नम्पूतरिः दरिद्रः चेदपि अतिथिसत्कारप्रियः । सः प्रतिदिनं कमपि जनं भोजनार्थम् आह्वयति स्म । किन्तु पत्न्यै श्रीदेव्यै पत्युः एषः स्वभावः दारिद्र्यकारणात् न रोचते स्म । एकस्मिन् दिने यदा नम्पूतरिः त्रिभिः अथितिभिः साकं गृहम् आगच्छत् तदा पत्युः एतादृशस्य शीलस्य अन्त्यं कर्तुम् ऐच्छत् श्रीदेवी । पतिः स्नानार्थम् अगच्छत् अतिथयः च बुभुक्षिताः सन्तः उपविष्टवन्तः आसन् । पाकशालायां मुसलं पूजयन्तीं श्रीदेवीं दृष्ट्वा अतिथयः तस्य कारणम् अपृच्छन् । तदा श्रीदेवी अवदत् 'भोजनानन्तरं मम पतिः मुसलेन अतिथीन् प्रहरति' इति । एतत् श्रुत्वा अतिथयः अधावन् । तदनन्तरं न कोSपि तस्य गृहं प्रति भोजनार्थम् आगतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Kerala, there once lived a Namboodiri who, though poor, was very fond of hospitality. Every day he would invite someone home for a meal. His wife, Sridevi, however, disliked this habit because of their poverty. One day, the Namboodiri returned home with three guests. Wishing to put an end to her husband’s practice, Sridevi devised a plan. While her husband went to bathe, the hungry guests sat waiting. In the kitchen, they saw Sridevi worshipping a pestle and asked her the reason. She replied: “After meals, my husband strikes the guests with this pestle”. Hearing this, the frightened guests ran away. From then on, no one came to their house for food.
कदाचित् गान्धिवर्यः स्वस्य आश्रमे कस्मिंश्चित् कार्ये व्यस्तः आसीत् । तस्य लेखन्याः मषी समाप्तप्राया जाता । अन्येद्युः सः लेखनार्थम् आगत्य यदा उपाविशत् तदा सा लेखनी तत्र न असीत् । सहोद्योगिनं यदा अपृच्छत् तदा सः अवदत् यत् यतः सा लेखनी अतिप्राचीना जाता अतः तां बहिः अक्षिपम् इति । तत्क्षणे एव गान्धिवर्यः अतीवक्रुद्धः जातः । आश्रमे सर्वे अपि लेखन्याः अन्वेषणम् आरब्धवन्तः । अन्ते आश्रमस्य पुरतः केदारखण्डे पतिता लेखनी प्राप्ता । तां प्राप्य गान्धिवर्यः अवदत् 'क्षुद्रवस्तुनः अपि मूल्यं न कदापि न्यूनम् । अल्पमूल्यकानाम् अपि वस्तुनां महत्त्वं वर्तते अस्माकं जीवने' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Gandhi was busy with some work in his ashram. His pen had nearly run out of ink. The next day, when he came to write, the pen was missing. On asking a co-worker, he was told: “Since the pen had become very old, I threw it away”. Immediately, Gandhi became very upset. Everyone in the ashram began searching for the pen, and at last it was found lying in a field outside. Holding it, Gandhi said: “Even the smallest object should never be undervalued. Things of little cost still hold great importance in our lives”.
सरयूनद्याः उत्तरभागः गङ्गोली इति नाम्ना ख्यातः । दक्षिणभागश्च कुमू इति नाम्ना प्रसिद्धः । गङ्गोलीक्षेत्रवासिनः अतीव चतुराः कुमूक्षेत्रस्य जनाः सरलाः विनीताश्च भवन्ति । कदाचित् सरयूनद्याः तटे द्वयोः क्षेत्रयोः वृषभौ सम्मिलितौ । परिचयानन्तरं तयोः स्पर्धा प्रवृता यत् कः वृषभः सरयूनद्याः जलम् अधिकं पातुं समर्थः इति । कुमूक्षेत्रस्य वृषभस्तु जलं पीत्वा पीत्वा किञ्चित्कालानन्तरम् अचेतनत्वं गतः । गङ्गोलीकक्षेत्रस्य वृषभः चतुरः आसीत् । सः जलं न अपिबत् । केवलं जलधारायां मुखं कृत्वा पानमुद्रायाम् अतिष्ठत् । सहसा तयोः रक्षकौ आगत्य तौ नीतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On the northern bank of the Sarayu River lies Gangoli, and on the southern bank lies Kumoo. The people of Gangoli are known for their cleverness, while those of Kumoo are simple and humble. Once, two bulls from these regions met at the riverbank. They began a contest to see which bull could drink more water from the Sarayu. The bull from Kumoo drank continuously until he collapsed unconscious. The bull from Gangoli, being clever, did not drink at all—he merely placed his mouth in the stream and pretended to drink. Soon, the keepers of the bulls arrived and took them away.
बेङ्गलूरुनगरे कस्मिंश्चित् पञ्चतारापेते उपहारमन्दिरे केनचन युवकपाचकेन अनुजायाः विवाहनिमित्तं उपहारमन्दिरस्य स्वामिने दशसहस्ररूप्यकाणि ऋणरूपेण प्रार्थितानि। किन्तु तस्य प्रार्थना निराशतायां पर्यवसिता । कदाचित् सुखासने त्यक्ता यानपेटिका दृष्टा युवकेन । ताम् उपहारमन्दिरस्य स्वामिनः समीपे अनयत् । सप्ताहः अतीतः चेदपि पेटिकायाः विचारणार्थं कोऽपि न आगतः इत्यतः स्वामी यानपेटिकातः दशसहस्ररूप्यकाणि निष्कास्य पाचकाय अयच्छत् । किन्तु तन्निराकरोति पाचकः । नवमे दिने पेटिकायाः स्वामी आगत्य 'धनपेटिकायाः रक्षणे करणीभूतः अयं पाचकः' इति ज्ञात्वा दशसहस्ररूप्यकाणि दातुं यदा उद्युक्तः तदा सः पाचकः ऋणरूपेण ददातु इति प्रार्थितवान् । तथैव अकरोत् पेटिकायाः स्वामी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Bengaluru, at a five-star restaurant, a young cook requested a loan of ten thousand rupees from the owner for his younger sister’s wedding. The request was denied. Later, the cook found a suitcase left behind on a sofa and brought it to the owner. A week passed, but no one came to claim it. The owner then took out ten thousand rupees from the suitcase and offered it to the cook. The cook refused. On the ninth day, the true owner of the suitcase arrived. Realizing that the cook had safeguarded the suitcase, the restaurant owner again wished to give him ten thousand rupees. This time, the cook requested it as a loan, and the owner agreed.
१८५७ तमे वर्षे कोलकाताविश्वविद्यालयतः बि.ए परीक्षायाम् अधिकान् अङ्कान् प्राप्तवन्तं बङ्किमचन्द्रवर्यं तदानीन्तनः राज्यपालः हालेण्ड्-वर्यः स्वगृहम् आहूतवान् । ततः 'भवान् अद्य आरभ्य उपदण्डाधिकारिरूपेण कार्यारम्भं करोतु' इति बङ्किमचन्द्रम् उक्तवान् । परन्तु बङ्किमचन्द्रः राज्यपालाय धन्यवादान् समर्प्य अवद्त् 'उद्योगस्वीकारविषये मया मम पिता प्रष्टव्यः । तस्य विचारानुसारम् एव निर्णयं करिष्यामि' इति । पुत्रस्य मुखात् एव प्रवृत्तं समग्रं श्रुत्वा नितरां सन्तुष्टः पिता, उपदण्डाधिकारिपदस्य स्वीकाराय पुत्राय अनुमतिं दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In 1857, Bankim Chandra, having secured high marks in the B.A. examination from Calcutta University, was invited by the then Governor, Halliday, to his residence. The Governor said to him: “From today, you shall begin work as a Deputy Magistrate”. Bankim Chandra, offering thanks, replied: “Before accepting any appointment, I must consult my father. I will decide according to his advice”. Hearing such words directly from his son, the father was deeply pleased and gave his consent for Bankim Chandra to accept the post of Deputy Magistrate.
कदाचित् मोहननामकः कश्चित् यदा धनार्जनं कृत्वा स्वग्रामं प्रति आगच्छन् आसीत् तदा कश्चन वञ्चकः तम् अनुसृतवान् । रात्रौ कस्यांचन धर्मशालायांं भोजनं कृत्वा शयनम् अकुरुताम् । मध्यरात्रे वञ्चकः मोहनस्य पोटलीवस्त्रम् उद्घाट्य ज्ञातवान् यत् तत्र धनं नास्ति इति । एवमेव अग्रिमदिने अन्यस्यां धर्मशालायाम् अपि वञ्चकेन मोहनस्य धनं न प्राप्तम् । एतस्य समीपे धनमेव नास्ति इति मत्वा यदा वञ्चकः अन्यस्मिन् मार्गे गमनाय उद्युक्तः तदा मोहनः तं स्वगृहं भोजनार्थम् आहूतवान् । सम्भाषणावसरे मोहनः अवदत् 'धनं तु तव पार्श्वे एव असीत् । रात्रौ भवतः कटस्य अधः पोटलीवस्त्रं स्थापयामि स्म । तव समीपे पुरुषार्थरूपि धनम् अस्ति एव' इति उक्त्वा तस्मै सहस्ररूप्यकाणि दत्त्वा 'तेन कमपि व्यवसायं कुरु' इति अवदत् । वञ्चकः मोहनस्य चरणयोः अपतत्, क्षमां च अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a man named Mohan, after earning some money, was returning to his village. A trickster followed him. At night, both stayed in a rest-house, ate, and slept. At midnight, the trickster opened Mohan’s bundle but found no money. The next day, in another rest-house, he again searched but found nothing. Thinking Mohan had no wealth, the trickster prepared to leave by another road. Mohan then invited him home for a meal. During their conversation, Mohan said: “The real wealth was always with you. At night I placed my bundle under your waistcloth. True wealth lies in human effort”. Saying this, Mohan gave him a thousand rupees and advised: “Use this to start some honest work”. The trickster fell at Mohan’s feet, begged forgiveness, and was transformed.
महाविद्यालयस्य कश्चन अध्यापकः देवदत्तः ईश्वरदर्शनं कर्तुं वाञ्च्छन् कस्यचन साधोः समीपं गच्छति । साधुः देवदत्तस्य सहनाशक्तेः परीक्षां करोति । यतः सहनां विना किमपि सिद्ध्यति न लोके । अन्ते महात्मना 'भगवान् बहिः कुत्रापि नास्ति । स तु निर्धनानां रुग्णानां पीडितानां च हृदये निवसति.....’ इत्यादि वचनैः देवदत्तः बोधितः । तस्मात् क्षणात् देवदत्ते विवेकः समुद्भूतः। सर्वां सम्पत्तिं निर्धनेषु वितीर्य रुग्णानां चिकित्सायां संलग्नः अभवत्। । तेषु सः ईश्वरस्य दर्शनं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A college teacher named Devadatta wished to see God and went to a saint. The saint tested his patience, saying that without endurance nothing can be achieved in life. Finally, the saint explained: “God is not outside anywhere. He dwells in the hearts of the poor, the sick, and the suffering”. At that moment, Devadatta gained true understanding. He gave away all his wealth to the needy and devoted himself to serving the sick. In them, he experienced the vision of God.
कस्यचन धनिकस्य गृहे विवाहप्रसङ्गे कश्चन लघुः बालकः रोदिति स्म । रोदनं कुर्वतः बालस्कय कर्मकरी माता पात्राणि प्रक्षालन्ती आसीत् । केचन आगत्य तस्य समाधानं कर्तुं प्रायतन्त । किन्तु तस्य बालकस्य रोदनं न समाप्तम् । तदनन्तरं तस्य माता आगत्य पुत्रम् उन्नीय तस्य केशेषु हस्तं प्रसार्य 'हुलुलुलु' इति उक्तवती येन सः शीघ्रमेव प्रसन्नः जातः । तदा तत्र स्तिथः कश्चन यदा 'हुलुलुलु' इत्यस्य अर्थम् अपृच्छत् तदा तया उक्तम् ''हुलुलुलु' इत्यस्य अर्थं ज्ञातुम् इष्यते चेत् भवान् मम पुत्रो भूत्वा आगच्छेत् । मातुः शब्दप्रसादेन एव शिशोः प्रसन्नता भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During a wedding in a wealthy man’s house, a small child began to cry. His mother, a servant busy washing dishes, could not attend to him at once. Others tried to comfort the child, but his crying did not stop. Later, the mother came, lifted her son, gently ran her hand through his hair, and said “hulululu.” Immediately, the child became cheerful. Someone present asked her the meaning of “hulululu”. She replied: “If you wish to know its meaning, you must become my son. A mother’s soothing words alone bring joy to her child”.
कदाचित् राजसभायां मरणदण्डं प्राप्तवता बन्धिना राजा अवाच्यशब्दैः निन्दितः । तस्य वचनानि अनवगच्छन् राजा पार्श्वस्थान् अपृच्छत् 'किं वदन्नस्ति सः?’ इति । कश्चन चतुरः मन्त्री अवदत् 'स्वस्य आक्रोशम् असमाधनञ्च निगृह्य अन्येषां दोषं यः क्षामयति स एव श्रेष्ठः' इति । राज्ञि करुणा उत्पन्ना । मरणदण्डनम् अपाकृतवान् च । अपरः मन्त्री अवदत् 'राज्ञः सन्निधौ असत्यं न वक्तव्यम् । सः बन्धी अवाच्यैः शब्दैः अनिन्दत्' इति । तदा राजा अवदत् 'भवता उक्तस्य सत्यस्य अपेक्षया तेन उक्तम् असत्यमेव श्रेष्ठम् । यतः तेन उक्तम् असत्यं मानवहितोद्देशेन' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, in a royal court, a prisoner condemned to death insulted the king with abusive words. The king could not understand them and asked his ministers what the prisoner had said. One wise minister replied: “He who restrains his own anger and forgives the faults of others is truly great.” Hearing this, compassion arose in the king’s heart, and he canceled the death sentence. Another minister then said: “One must not speak falsehood before the king. The prisoner indeed used abusive words”. The king responded: “The false words spoken by my minister are better than the truth, for they were spoken with the intention of human welfare”.
From the publisher's feed