बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • मम अनुत्तीर्णता भवितुं न अर्हति

    कस्मिंश्चित् विद्यालये परीक्षापरिणामस्य घोषणस्य अनन्तरं कश्चन छात्रः उत्थाय 'मम परीक्षापरिणामः भवता न उक्तः' इति अवदत् । तदा शिक्षकः अवदत् 'त्वं ज्वरादिकारणम् उक्त्वा दीर्घकालं यावत् कक्ष्यायाम् अनुपस्थितः आसीः । अतः त्वम् अनुत्तीर्णः स्याः । तस्मात् एव आवल्यां तव नाम नास्ति' इति । 'मम अनुत्तीर्णता भवितुं न अर्हति, श्रीमन्' इति सः छात्रः आत्मविश्वासेन अवदत् । एवं वादः प्रतिवादः च प्राचलत् तयोः मध्ये । छात्रः यदा यदा उत्तीर्णताविषये वादम् अनुवर्तितवान् तदा तदा शिक्षकः तस्य दण्डं वर्धितवान् । तावता लिपिकारः आगत्य 'एतस्य छात्रस्य नाम प्रथमश्रेणीं प्राप्य उत्तीर्णानाम् आवल्याम् आसीत् । अनवधानात् अस्माभिः न लक्षितम्' इति अवदत् । आत्मविश्वासस्य खनी इव स्थितस्य बालकस्य नाम 'राजेन्द्रप्रसादः' यः भाविनि काले भारतस्य प्रथमराष्ट्रपतिः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain school, after the announcement of the examination results, a student stood up and said, “My examination result has not been declared by you”. Then the teacher replied, “You had remained absent from the class for a long time, giving the reason for fever and other ailments. Therefore, you must have failed. That is why your name is not in the list”. The student, with confidence, said, “My failure is not justified, Sir”. Thus, an argument and counter-argument continued between the two. Whenever the student insisted on his success, the teacher increased his punishment. Meanwhile, the clerk came and said, “This student’s name was actually in the list of those who passed with first class. We failed to notice it due to oversight.” The boy, who stood firm like a mine of self-confidence, was named Rajendra Prasad, who in the future became the first President of India.

    4 min
  • कर्मयोगः नाम कः?

    कदाचित् पर्वतारोहणसमये कश्चन शिष्यः रमणमहर्षिम् अपृच्छत् 'कर्माचरणस्य कर्मयोगस्य च कः भेद:?’ इति । तदा महर्षिः केनचित् दृष्टान्तमाध्यमेन विवृणोति यत् 'भारभावः यतः अनुभूयेत तत् कर्म । भारवहने लाघवता अनुभूयेत यत् सः कर्मयोगः । जीवने बहूनि श्रमत्यागसेवादीनि कार्याणि करणीयानि भवन्ति । तानि भवन्ति अपरिहार्याणि । तस्मात् वयं खेदेन, अनिच्छया, अप्रसन्नमनसा वा तेषाम् अनुष्ठानं चिन्तयामः । यत् कार्यं क्रियते तदेव यदि प्रीत्या क्रियते तर्हि सः भवति 'कर्मयोगः' । कर्मसु कौशलम् एव कर्मयोगः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Perhaps during a mountain climb, a disciple once asked Ramana Maharshi: ‘What is the difference between mere action and Karma Yoga?’. Then Maharshi explained through an example: ‘Where a sense of burden is felt, that is mere action. Where lightness is experienced in carrying the burden, that is Karma Yoga. In life, many tasks such as labor, renunciation, service, and duties must be performed. They are unavoidable. Therefore, we often think of performing them with fatigue, reluctance, or an unhappy mind. But if the same work is done with joy, then it becomes Karma Yoga. Skill in action itself is Karma Yoga’.
    6. मम अनुत्तीर्णता भवितुं न अर्हति

    4 min
  • दृष्ट्यनुगुणा भावना

    रामरावणयोः युद्धस्य अनन्तरं कदाचित् सभायां चर्चा जाता 'अशोकवने स्थितानां पुष्पाणां वर्णाः अनेकविधाः आसन् ननु ?’ इति । 'तत्र सर्वाणि अपि पुष्पाणि श्वेतवर्णानि आसन्' इति अवदत् सीता । 'श्वेतपुष्पाणि क्व? सर्वाणि रक्तवर्णानि ननु आसन् ?’ इति अवदत् आञ्जनेयः । 'उभौ अपि परस्परविरुद्धम् अभिप्रायं वदतः । कस्य कथनं वास्तविकम् ?’ इति केनचन सभासदेन पृष्टे श्रीरामः अवदत् 'उभयोः अपि कथनं युक्तम् एव । तत्तस्य दृष्टिम् अवलम्ब्य तादृशी भावना भवति । अशोकवने अपि स्थिता सीता सर्वदा शान्ता भवति स्म । अतः एव सा सर्वत्र श्वेतवर्णतां पश्यति स्म । रावणस्य विषये, स्वस्य असहायकतायाः विषये, रावणस्य कृतस्य कार्यस्य विषये आञ्जनेयस्य महान् क्रोधः भवति स्म । अतः सः सर्वत्र रक्तवर्णताम् अनुभवति स्म' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    After the war between Rama and Ravana, a discussion once arose in an assembly: “Were there not many colors of flowers in the Ashoka grove?” Sita said, “All the flowers there were white”. Hanuman objected, “Where were white flowers? All of them were red!” When the assembly members asked whose statement was true, Rama explained, “Both are correct. It depends on one’s perspective. Sita, who remained calm and peaceful in the Ashoka grove, perceived everything as white, a symbol of serenity. Hanuman, filled with anger against Ravana, his deeds, and his helpless condition, experienced everything as red, a symbol of fury. Thus, both views are valid, shaped by the feelings within”.

    3 min
  • आर्तिनाशनं मुख्यम्

    जपान्देशे यदा भगवतः बुद्धस्य महान् प्रभावः आसीत् तदा प्रवृत्ता घटना एषा । सर्वत्र शान्तिः प्रवृत्ता आसीत् इति कारणतः युद्धं क्वापि न प्रवर्तते स्म । अतः बहवः भटाः वृत्तिहीनाः जाताः । कश्चन भटः वृत्त्यभावात् नितरां परितपति स्म । तस्य गृहे एकवारमपि भोजनं प्राप्तुम् असमर्थं जातम् । सः बुद्धमन्दिरं गत्वा तत्र स्थितौ भिक्षू नमस्कृत्य स्वस्य दैन्यस्थितिं विवृत्य 'कापि वृत्तिः परिकल्प्यताम्' इति प्रार्थितवान् । तस्य दैन्यस्थितिं द्रष्टुम् अशक्नुवन् तयोः एकः भिक्षुः बुद्धमूर्तेः प्रभावलीम् अपनीय भटाय दत्त्वा 'एतत् विक्रीय प्राप्तेन धनेन स्वस्य कष्टं परिहर' इति अवदत् । तेन कुपितम् अन्यं भिक्षुम् उद्दिश्य अवदत् 'मूर्तेः अलकरणस्य रक्षणात् अपि आर्तिनाशनम् एव परमं प्रमुखम्' ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This story took place in Japan when the influence of Lord Buddha was very strong. Because peace prevailed everywhere, wars did not occur, and many soldiers became unemployed. One such soldier suffered greatly due to the lack of livelihood, and his family could not even get food once a day. In despair, he went to a Buddhist temple, bowed to the monks there, and explained his miserable condition, requesting them to find some means of livelihood for him. Seeing his suffering, one of the monks removed a precious ornament from the statue of Buddha and gave it to the soldier, saying, “Sell this and use the money to overcome your hardship.” Also addressed his companion, “More important than protecting the ornament of the statue is relieving the suffering of a distressed person”.

    4 min
  • आत्मविश्वासः

    कदाचित् कक्ष्यायाम् एकैकशः आगत्य श्लोककथनम् आरब्धवन्तः छात्राः । आदौ एकः छात्रः भीत्या आगत्य श्लोककथनम् आरब्धवान् । अर्धं यावत् श्रावितं तावता शिक्षकः 'अलम्! स्थगय !’ इति असूचयत । सः म्लानमुखः सन् प्रत्यागतवान् । एवमेव दशाधिकाः छात्राः अपि अध्यापकस्य 'स्थगय' इति आदेशं श्रुत्वा श्लोककथनं स्थगयित्वा स्वस्थानं गतवन्तः । यदा धीरजः इति छात्रः आगत्य कथनम् आरब्धवान् तदा 'स्थगय' इति अध्यापकेन उक्तं चेदपि सः समग्रं श्लोकं श्रावयित्वा अगच्छत् । अध्यापकः अवदत् 'श्लोकं समग्रतया श्रावयितुम् यद्यपि सर्वे अपि शक्ताः तथापि न्यूनेन आत्मविश्वासकारणेन कथनं स्थगयित्वा स्वस्थानम् अगच्छन् । आत्मविश्वासपरीक्षणाय एव मया भवन्तः श्लोककथनाय प्रेरिताः । तत्र धीरजः एकः एव उत्तीर्णः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a classroom, students were called one by one to recite a verse. The first student, trembling with fear, began his recitation, but before he could complete it, the teacher interrupted saying, “Enough, stop!” The boy, with a sad face, returned to his seat. In the same way, more than ten students attempted, but each was stopped midway by the teacher’s command and went back to their places. Finally, when a student named Dheeraj came forward and began his recitation, the teacher again said “Stop!” Yet Dheeraj, with confidence, continued and completed the entire verse before returning. The teacher then explained that although all the students were capable of reciting the verse fully, most lacked self-confidence. He had arranged this exercise only to test their inner courage. Among all, only Dheeraj passed the test by showing confidence and determination.

    4 min
  • महावीरः इति ख्यातिः

    'लोके वीरेषु कः श्रेष्ठः?’ इति विषये प्रवृत्ता काचित् चर्चा कदाचित् देवलोके इन्द्रसभां प्राप्ता । तदवसरे 'वर्धमाननामा यः भूलोके तिष्ठति सः एव वीरेषु श्रेष्ठः' इति इन्द्रः अवदत् । 'सः तु बालः' इति उपेक्षया अवदत् कश्चन सङ्गमनामकः देवपुरुषः । इन्द्रः तं बालं परीक्षितुम् अर्हन्ति इति यदा अवदत् तदा सङ्गमः सर्परूपं धृत्वा यत्र वर्धमानः मित्रैः सह क्रीडन् आसीत् तत् उद्यानम् अगच्छत् । तं सर्पं दृष्ट्वा सर्वे भीताः किन्तु वर्धमानः दक्षिणहस्तेन फणायाः अधोभागं गृहीत्वा पादं तस्य पुच्छे संस्थाप्य बलात् तस्य कण्ठभागं निपीडितवान् । दंष्टुं पुच्छेन प्रहर्तुं वा न शक्तं सर्पेण । स्वस्य पराजयम् अङ्गीकृत्य सङ्गमः सर्परूपं‌ परित्यज्य नैजरूपेण प्रत्यक्षीभूय महावीम् आशिषा अनुगृहीतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, in the heavenly court of Indra, a discussion arose about who was the greatest among heroes in the world. Indra declared that a boy named Vardhamana, living on earth, was indeed the greatest. A divine being named Sangama dismissed this, saying that Vardhamana was only a child. Indra then suggested that even as a child, his courage was extraordinary and worthy of being tested. Sangama agreed and took the form of a serpent, descending to the garden where Vardhamana was playing with his friends. Seeing the serpent, all the children fled in fear, but Vardhamana stood firm with courage. He seized the lower part of the serpent’s hood with his right hand, pressed its tail with his foot, and tightly held its neck. The serpent tried to bite or strike with its tail but could not escape. Accepting defeat, Sangama abandoned his serpent form, appeared in his true divine form, and blessed Vardhamana for his unmatched bravery.

    4 min
  • शोभते दुग्धे शर्करा

    इस्लामिकैः पारसदेशः यदा आक्रान्तः तदा ३०० परिवारजनाः स्वदेशत्यागं कृत्वा जलमार्गेण भारत्वर्षं प्राप्नुवन् । समुद्रतटे स्थितं सञ्जाणनगरं समागत्य प्रधानपुरोहितस्य नेतृत्वे ते तत्रत्यं राजानम् अग्निप्रतिष्ठापनार्थं देवालयं, निवासार्थं साधारणगृहाणि, उदरम्भरणाय कृषिभूमिं प्रार्थितवन्तः । राजा अवदत् 'सर्वविधानाम् अपेक्षाणां पूरणम् अपि प्रतिज्ञातम् । प्रतिफलरूपेण भवन्तः अस्मै देशाय किं दातुम् इच्छन्ति?’ इति । तदा प्रधानपुरोहितः 'एतादृशसमाजे दुग्धे शर्करावत् वयं सम्मिलिताः भविष्यामः' इति । तदनन्तरं शतकानि यावत् पारसिकाः भारतीयसमाजे पूर्णरूपेण विलीनाः अभवन् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    When Persia was invaded by the Islamic forces, three hundred families left their homeland and reached India by sea. Arriving at the coastal town of Sanjan, under the leadership of their chief priest, they requested the local king to grant them land for building a temple to consecrate fire, houses for residence, and fields for cultivation to sustain themselves. The king said: “I promise to fulfill all your requests. But in return, what will you give to this land?” Then the chief priest replied: “We shall blend into this society like sugar in milk”. From that time onward, for centuries, the Persians (Parsis) became completely integrated into Indian society.

    5 min
  • रोदनस्य कारणम्

    गुरोः विरजानन्दस्य उटजस्य स्वच्छता दयानन्दस्य दायित्वम् आसीत् । एकदा यदा दयानन्दः उटजं सम्मार्जयन् अवकरान् द्वारसमीपे राशीकृतवान् आसीत् तदा कश्चित् तम् आहूतवान् इति कारणतः अवकरान् अक्षिप्त्वा एव ततः निर्गतवान् । तावता तत्र आगतवतः क्षीणदृष्टिशक्तेः विरजानन्दस्य अवकरस्पर्शतः महान् कोपः जातः । सः दयानन्दम् आनाय्य दण्डेन निरन्तरं ताडितवान् । यदा दयानन्दः उच्चैः रोदनं कृतवान् तदा त्यक्तकोपः सन् गुरुः 'वत्स! महती वेदना जाता किम्?’ इति पृष्टे दयानन्दः अवदत् 'गुरो ! दण्डप्रहारजनितवेदनाकारणतः अहं न रोदिमि । प्रहारसमये कुसुमकोमलः भवतः हस्तः कियतीं वेदनाम् अनुभूतवान् स्यात् इति स्मरतः‌ मम नेत्राभ्याम् अश्रूणि निर्गतानि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The cleaning of Guru Virjananda’s hut was the responsibility of Dayananda. One day, while Dayananda was sweeping, he gathered the refuse near the doorway. Just then, someone called him, so he left without throwing it away. Soon after, Guru Virjananda, whose eyesight was weak, came and accidentally touched the refuse. Greatly angered, he called Dayananda and beat him repeatedly with a stick. When Dayananda cried aloud, the Guru, calming down, asked: “My child, did you suffer great pain?” Dayananda replied: “O Guru! I did not cry because of the pain from your blows. I wept because I thought of how much pain your tender, flower-like hand must have felt while striking me”.

    4 min
  • दरिद्रतायाः भ्रान्तिः

    कदाचित् कश्चन दरिद्रः अब्राहंलिङ्कन्-महोदयस्य समीपम् आगत्य 'किमपि ददातु' इति अपृच्छत् । तदा लिङ्कनवर्यः 'भवतः हस्तद्वयं मह्यं ददातु । अहं लक्षडालर्-परिमितं धनं दास्यामि' इति उक्तवान् । 'मम अमूल्यहस्तौ भवते दत्त्वा अहं किं करिष्यामि?’ इति अवदत् दरिद्रः । ततः पादद्वयं, नेत्रद्वयं ददातु इति यदा लिङ्कनवर्यः अवदत् तदा कोपेन दरिद्रः 'अहं अत्यमूल्यानि अङ्गानि कदापि न ददामि' इति अवदत् । अन्ते लिङ्कवर्यः वदति 'भवान् कश्चन सुदृढकायः आरोग्यवान् जनः । तस्य सदुपयोगं करोतु' इति । एतत् श्रुत्वा दरिद्रः अवदत् 'भवता अङ्गानाम् अमूल्यता दर्शिता । अहं परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a poor man came to Abraham Lincoln and asked him for something. Lincoln said: “Give me your two hands, and I will give you one hundred thousand dollars”. The poor man replied: “If I give you my priceless hands, what will I do then?” Lincoln then said: “Give me your feet, give me your eyes.” The poor man, now angry, answered: “I will never give away my invaluable limbs”. Finally, Lincoln said: “You are a strong and healthy person. Make good use of that”. Hearing this, the poor man said: “You have shown me the priceless value of my body. I will work hard and make my life meaningful”.

    5 min
  • वृक्षादपि न हीनोsहम्

    आसीत् पुरा रणजितसिंहनामकः कश्चन प्रजानुरक्तः राजा यः न्यायेन धर्मेण च राज्यं परिपालयति स्म । कदाचित् वनविहारार्थं गच्छतः राज्ञः ललाटे कुतश्चित् कश्चन शिलाखण्डः पतितः । तस्य कारणान्वेषणे कृते ज्ञातं यत् काचित् वृद्धा बुभुक्षिताय पुत्राय वृक्षे विद्यमानं बहुबीजफलं प्राप्तुम् एकं शिलाखण्डम् अक्षिपत् । दौर्भाग्यवशात् सः शिलाखण्डः राज्ञः ललाटे पतितः । जडः वृक्षः अपि पाषाणघातं प्राप्य फलं ददाति, सचेतनः अहं कथं वा एतां दण्डयेयम् ? इति विचिन्त्य राजा तस्यै वृद्धायै आहारसामग्रीं, सहस्रं सुवर्णनाणकानि च दत्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Long ago, there was a king named Ranjit Singh, beloved by his people, who ruled with justice and righteousness. One day, while going for a walk in the forest, a stone suddenly fell on his forehead. On investigating the cause, it was discovered that an old woman, in order to feed her hungry son, had thrown a stone at a tree to obtain its fruit. By misfortune, the stone struck the king’s forehead. The king reflected: “Even an insentient tree gives fruit only after being struck by a stone. How then can I, a conscious being, punish this poor woman?” With this thought, the king gave her food supplies and a thousand gold coins.

    7 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।