
Sign up to save your podcasts
Or


कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ रहसि शिवमूर्तेः शिल्पं विरूपीकृतवान् । तस्य कृत्यं राज्ञा जनैः च रहसि दृष्टम् इति सः न ज्ञातवान् । अनन्तरदिने शिवमूर्तिः आस्थानशिल्पित्वेन नियुक्तः जातः । राजा उभयोः स्वभावं परीक्षितुं निर्मातृत्वेन तयोः नाम न प्रकाशितम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain king decided to build a grand temple in his capital. An elderly court sculptor advised him to select young sculptors for the task. The king organized a competition and invited talented artists. Among them, the sculptures made by Shivamurti and Dhanapala were declared the best, but their names were kept anonymous. Feeling disappointed, Dhanapala secretly defaced Shivamurti’s sculpture at night, unaware that the king and others had witnessed his act. The next day, Shivamurti was appointed as the royal sculptor. The king had deliberately withheld the names to test the character of both artists, not just their skill.
कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाममहोदयः ताम् अङ्के उपवेश्य खाद्यानि दत्त्वा, एकस्मिन् कागदे स्वस्य हस्ताङ्कनं कृत्वा अयच्छत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Dr. A.P.J. Abdul Kalam was presiding over a public event as the chief guest. His speech was being translated by Shri Gururaj Karajagi. During the program, Gururaj noticed a little girl crying. When asked, her parents explained that she deeply wished to speak to Dr. Kalam. After the speech concluded, Gururaj conveyed the girl's heartfelt desire to Dr. Kalam. Without hesitation, Kalam called a security officer and asked him to bring the girl forward. He lovingly seated her on his lap, offered her some snacks, and gifted her a signed note on paper. This touching moment reflected Kalam’s humility and his deep affection for children’s dreams.
पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान् आनयेत् तस्मै एव पुत्री दीयेत' इति । राज्ञः अभिप्रायम् अवगतवता मुनिना वरुणदेवं तोषयितुं तपः कृतम्, एकतः श्यामकर्णाः सहस्रम् अश्वाः प्राप्ताः च । अतः एव कस्यचिदपि सामर्थ्यं दर्शनमात्रेण कदाचिदपि न उपेक्षेत इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, a sage named Rchika wished to marry Satyavati, the daughter of King Gadhi. He approached the king and expressed his desire. However, the king was unwilling to give his daughter to the sage, judging him as ordinary based on appearance. Thinking to discourage him, the king set a difficult condition: “In our lineage, we have a unique test for suitors. Only one who brings a thousand dark-eared horses from one side shall receive my daughter.” Understanding the king’s intent, the sage performed penance to please the god Varuna and successfully obtained the thousand horses. Thus, one must never underestimate anyone’s capability based solely on appearance.
राजसूययगानन्तरं महता दानेन धर्मराजस्य मनसि अहं महादाता अस्मि इति भावः आगतः। एतत् अवगतेन श्रीकृष्णेन धर्मराजस्य एतं भावम् अपनेतुम् इच्छता सः बलिचक्रिवर्तिनः आस्थानं प्रति नीतः । कृष्णं दृष्ट्वा हर्षेण स्वागतवचनानि उक्त्वा बलिः अपृच्छत् 'आगमनावसरे भवता किमर्थम् अयम् अयोग्यः राजा अपि आनीतः' इति । कृष्णः 'एषः महान् दानशूरः अस्ति' इति यदा प्रत्युत्तरति तदा बलिः वदति 'मम राज्ये मदीयैः जनैः गृहं गृहं गत्वा दानं स्वीकरणीयम् इति प्रार्थ्यते चेदपि दानस्वीकर्तारः विरलाः एव प्राप्यन्ते यतः अन्यस्मात् स्वीकरणं न उचितम् इति । किन्तु एतस्य राज्ये तु जनाः वार्ताश्रवणमात्रेण एव दानस्वीकरणाय धावन्तः आयान्ति' इति । एतत् श्रुत्वा धर्मराजः लज्जया शिरः अवनमय्य अतिष्ठत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After the Rajasuya sacrifice, Dharmaraja (Yudhishthira) felt proud, thinking, “I am a great giver.” Lord Krishna, noticing this pride and wishing to eliminate it, took him to the court of King Bali. King Bali warmly welcomed Krishna and then asked, “Why have you brought this unworthy king along?” When Krishna replied, “He is a great donor,” Bali responded, “In my kingdom, even when my people go door to door requesting others to accept gifts, very few agree—because accepting without need is not proper. But in his kingdom, people rush to accept gifts merely upon hearing about them.” Hearing this, Dharmaraja felt ashamed and stood with his head bowed.
कदाचित् भारतीयसेनाधिकारिणः तत्पत्न्यः च रेल्स्थानकं गतवन्तः आसन् । तदवसरे केचन दुष्टाः माहिलाः बहुधा अपीडयन् । ते अधिकारिणः दुष्टान् बद्ध्वा युतकादिकम् अपनीय अन्तर्वस्त्रमात्रतया मुख्यमार्गे तेषां शोभायात्रां कारितवन्तः । तेषां दुष्टानां नायकः आसीत् मुख्यमन्त्रिणः पुत्रः एव । अतः यदा मुख्यमन्त्री सेनाशिबिरं प्रति अगच्छत् तदा तस्य प्रवेशाय अनुमतिः एव न लब्धा । क्रुद्धः मुख्यमन्त्री प्रधानमन्त्रिणं सर्वं श्रावितवान् । प्रधानमन्त्रिणा यदा सेनाधिकारी आहूतः तदा प्रवृत्तं सर्वं निवेद्य 'महिलाः पूज्याः । तासां रक्षणम् अस्माकं कर्तव्यम्' इति सेनाधिकारी अवदत् । महिलानां मानस्य रक्षणाय मुख्यमन्त्रिणः अपि विरोधं सम्मुखीकर्तुम् उद्यतस्य, प्रधानमन्त्रिणः पुरतः अपि स्वव्यवहारं समर्थितवतः च तस्य सेनाधिकारिणः नाम - जनरल् कारियप्पः इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Indian army officers and their wives were at a railway station when some miscreants began harassing women. The officers caught the culprits, stripped them of their outer garments, and paraded them in their underclothes through the main street. Shockingly, the leader of the group was the Chief Minister’s own son. When the Chief Minister came to the army camp, he was denied entry. Angered, he complained to the Prime Minister. When the Prime Minister summoned the Main army officer, he explained everything and said, “Women are to be respected. It is our duty to protect their dignity.” The officer stood firm even before the Prime Minister, defending his actions. That officer was none other than General Cariappa.
काचित् वृद्धा भिक्षया यत् प्राप्यते तत् नारायणाय नैवेद्यत्वेन समर्प्य एव स्वयं खादति स्म । कदाचित् प्राप्तचणकान् जले संस्थाप्य मृदूकृत्य वस्त्रेण बद्ध्वा शयनम् अकरोत् । तस्यां रात्रौ चोराः आभरणग्रन्थिः इति मत्वा तं चणकग्रन्थिम् चोरयित्वा सान्दीपनिमुने आश्रमे नीलीय अतिष्ठन् । चणकग्रन्थिम् अप्राप्य दुःखिता वृद्धा शापं दत्तवती यत् ये तान् चणकान् खादेयुः ते महादरिद्राः भवेयुः इति । चोराः सः चणकग्रन्थिः इति यदा ज्ञातवन्तः, तत्रैव द्वारस्य पुरतः संस्थाप्य अगच्छन् । प्रातः सः ग्रन्थिः गुरुपत्न्या प्राप्तः । समिधाहरणाय प्रस्थितवद्भ्यां कृष्णकुचेलाभ्यां दत्तवती । त्रिकालज्ञानिना सुदाम्ना चणकानां स्पर्शतः एव ज्ञाता तत्सम्बद्धा घटना । कृष्णस्य दारिद्र्यं मा भूत् इति कारणतः सर्वान् चणकान् सः एव खादितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
n elderly woman, living on alms, would always offer her food to Lord Narayana before eating. One day, she softened some gram seeds in water, tied them in a cloth, and went to sleep. That night, thieves mistook the bundle for jewelry and stole it, hiding it in the ashram of Sage Sandipani. Unable to find it later, the woman cursed that whoever ate those grams would become extremely poor. The thieves, realizing it was just gram, returned the bundle and left it at the ashram gate. In the morning, the guru’s wife found them and gave them to Krishna and Sudama, who were going to collect firewood. Sudama, being a knower of past, present, and future, sensed the curse. To protect Krishna from poverty, he ate all the grams himself.
कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी गृहस्वामिने धनं दातुम् उद्युक्तः । किन्तु गृहस्वामी धनप्राप्तीच्छया न, अपि तु बुभुक्षिताय अन्नदानं पुण्यम् इत्यतः भोजनं दत्तम् इति अवदत् । संन्यासी उक्तवान् यत् 'दीयमानं धनं तु स्वार्थाय न, अपि तु पुनरपि अन्नदानाय उपयुज्ताम् । एतादृशं पुण्यकार्यं परम्परया प्रवर्तेत' इति कथयन् अनुरोधपूर्वकं गृहस्वामिने धनं दत्त्वा ततः निर्गतवान् । तौ दम्पती भक्त्या तं नमस्कृतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wandering sage, weary from travel, stood outside a house and requested food. The householder respectfully invited him in and served him a meal. After resting for a while, the sage prepared to leave and offered money to the host. But the host declined, saying he had given food not for money, but as a sacred duty to feed the hungry. The sage replied, “This money is not for personal use, but to help you continue feeding others. Let this noble act become a tradition.” With gentle insistence, he gave the money and departed. The couple bowed to him with devotion.
षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । परन्तु आश्चर्यं नाम अग्रिमे दिने तस्य अध्यायस्य आरम्भे एव तत् पुटचिह्नं दृष्टम् । एवम् अवशिष्टेषु दिनेषु अपि तेन सः एव कथाभागः पुनः पुनः पठितः । अन्तिमे दिने यदा पून्तानः मन्दिरात् भागवतपुस्तकम् आनेतुम् अगच्छत् तदा तत्र भगवान् महेश्वरः भागवतं पठन् तेन दृष्टः । यदा शिवः स्वस्य पारायणम् अरोचत वा इति पार्वतीदेवीम् अपृच्छत् तदा सा अवदत् यत् पून्तानस्य पारायणम् इतोऽपि मधुरम् अस्ति इति । तद् श्रुत्वा पुलकितः पून्तानः हे देव ! इति अवदत् । पार्वतीपरमेश्वरौ तम् अनुगृह्य अदृश्यतां गतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the 16th century, Poonthanam, a devoted follower of Lord Guruvayurappan from Kerala, once began reciting the Bhagavatam at the Shiva temple in Kottiyoor. One day, after reading the dialogue between Krishna and Rukmini, he placed a bookmark and left. To his surprise, the next day the bookmark was at the beginning of the same chapter. This continued for several days—he kept returning to the same passage. On the final day, when he went to retrieve the Bhagavatam, he saw Lord Shiva himself reading it. When Shiva asked Parvati whether she liked his recitation, she replied, “Poonthanam’s chanting is even sweeter.” Hearing this, Poonthanam was overwhelmed and exclaimed, “O Lord!” Shiva and Parvati blessed him and then disappeared.
कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं ज्ञानम् इव । केचन ज्ञाने निमज्ज्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति अहङ्कारादिकारणतः । वस्त्रनिर्मिता प्रतिमा तु जलं स्वस्य अन्तः स्वीकरोति । तादृशाः ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः विकासमार्गे अग्रे गच्छन्ति । लवणनिर्मिता प्रतिमा यदा जले निमग्ना भवति तदा जले विलीना भवति । एतादृशाः भवन्ति ज्ञानिनः ये प्रतिदिनमपि ज्ञानम् अर्जयन्तः तदनुगुणम् आचरन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A teacher once used three types of idols—made of stone, cloth, and salt—to explain the nature of learning. When immersed in water (symbolizing knowledge), the stone idol remained unchanged. Some people are like this: even when surrounded by wisdom, they remain unaffected due to ego or rigidity. The cloth idol absorbed the water. These are learners who take in knowledge and grow by applying it. The salt idol dissolved completely in water. Such people become one with knowledge, living it fully and transforming through it. True seekers are like the salt idol—humble, receptive, and ever-evolving.
कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति । श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात् चेत् ते अपि अपेक्षितं प्राप्तुं शक्नुवन्ति । उदात्तं तत्त्वं लक्ष्यीकृत्य यः ध्यानं करोति, तस्य जीवनम् अपि उदात्तं भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A great teacher once explained the essence of meditation using the example of a frog. Though a humble creature, the frog meditates with unwavering focus and faith. It sits patiently underground, praying for rain, trusting that nature will fulfill its need. This waiting, filled with faith and endurance, is itself meditation. If humans develop such a nature—steady, devoted, and patient—they too can attain what they seek. True meditation is not just sitting still, but waiting with trust for the higher truth to reveal itself. And one who meditates with such noble intent leads a noble life.
From the publisher's feed