बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • वृक्षस्य चक्रवर्तित्वम्

    कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुरोः आशीर्वादः सफलः किं भवेत् ? सर्वं जानन्तु कथां श्रुत्वा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, while walking along a path, a teacher sensed the inner desire of a large tree and said, “So be it.” A student, curious, asked what the tree’s wish was. The teacher replied, “It wishes to become a great emperor and rule the world.” Hearing this, the student laughed. The teacher then said, “If it is the will of the Divine, nothing is impossible in this world.” Will the tree’s wish be fulfilled? Will the teacher’s blessing come true? Listen to the full story to find out.

    4 min
  • प्रकाशः अन्धकारं प्रति गच्छेत्

    कदाचित् कृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् सारथिः दारुकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः दारुकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्णः वदाति 'अन्धकारः प्रकाशदिशि न गच्छति । प्रकाशः एव अन्धकारदिशि गच्छेत्' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, Krishna was adorning himself with various beautiful ornaments. His charioteer, Daruka, was surprised because Krishna usually showed no interest in external decoration. Wondering about the reason, Daruka asked Krishna why he was so focused on appearance that day. Krishna replied, “I am going to meet Duryodhana. He is very fond of outward grandeur, so I must dress this way to influence him.” Daruka then asked, “Why should you go to him? Let him come to you instead.” Krishna smiled and said, “Darkness never moves toward light. It is light that must go toward darkness.”

    3 min
  • परिवर्तनम्

    कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् ।  किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या तं सावधानं कर्तुम् एकं श्लोकम् अवदत् । वाद्यवादकः तन्द्रां त्यक्त्वा सम्यक् अवादयत् । तस्य श्लोकस्य अर्थं विभिन्नाः जनाः विभिन्नप्रकारेण स्वीकृतवन्तः ।  नर्तक्याः गुरुः, राजकुमारी, राजकुमारः, वृद्धः राजा च तस्य श्लोकस्य अर्थं कथं स्वीकृतवन्तः, तेन किं किं परिवर्तनं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a grand celebration was held in the palace of an elderly king. Many kings had gathered for the occasion. At the end of the event, a dancer began her performance. After some time, the musician started dozing off, which worried the dancer. To wake him up without causing a scene, she cleverly recited a verse. The musician immediately became alert and played his instrument properly. Different people interpreted the meaning of the verse in different ways. The dancer’s teacher, the princess, the prince, and the old king each understood it in their own way, and their interpretations led to interesting changes in their thoughts and actions. This story shows how a single verse can inspire many minds in different directions.

    5 min
  • धनं देशसेवायै

    कस्याञ्चित् कक्ष्यायां प्रवृत्ता घटना एषा । अचार्यः कक्ष्यां प्रविश्य छात्रेभ्यः एकं प्रश्नं पृच्छति 'मार्गे गमनसमये वज्रं दृश्येत तर्हि किं कुर्युः भवन्तः' इति । तदा सर्वे स्वीयम् अभिप्रायं वदन्ति । किन्तु कश्चन बालकः वदति 'वज्रं विक्रीय ततः प्राप्तं धनं देशसेवायै, निर्धनानां साहाय्याय वा व्ययीकरिष्यामि' इति । नितरां सन्तुष्टः आचार्यः देशभक्तत्वेन ख्यातः भव इति अशीर्वादं ददाति । सः एव गोपालकृष्णगोखले इति । सम्यक् प्रवर्धिष्यमाणस्य वृक्षस्य लक्षणम् अङ्कुरदशायाम् एव दृश्यते इत्येतत् सत्यं ननु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    This incident took place in a classroom. The teacher entered and asked the students, “If you see a diamond while walking on the road, what would you do?” Each student gave their own answer. But one boy said, “I would sell the diamond and use the money to serve the country or help the poor.” The teacher was deeply pleased and blessed him, saying, “You will be known as a patriot.” That boy was none other than Gopal Krishna Gokhale. Truly, the qualities of a great tree are visible even in its early sprouting stage.

    4 min
  • गाननिपुणः उलूकः गानबन्धुः

    कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गानबन्धुनामकस्य दिव्योलूकस्य समीपं गत्वा तस्मात् गानं शिक्षेत' इति अवदत् । अनन्यगतिकया नारदः गानबन्धोः समीपं गत्वा प्रवृत्तं सर्वं निवेद्य तदीयं शिष्यत्वम् अङ्गीकृत्य सङ्गीतं शिक्षयितुं प्रार्थितवान् । ततः नारदः गानबन्धुतः सङ्गीतं शिक्षित्वा पुनरपि गानसामर्थ्यं प्राप्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Sage Narada was angered by Goddess Lakshmi and he cursed her. As a result, Narada lost his knowledge of music. Feeling regretful, he approached Lord Vishnu and asked how he could correct his mistake. Vishnu advised him to go to a divine owl named Gānabandhu and learn music from him. With no other option, Narada went to Gānabandhu, explained everything, and humbly requested to become his student. Gānabandhu accepted Narada as a disciple and began teaching him music. Narada learned with devotion and eventually regained his musical abilities. Thus, through humility and effort, Narada restored what he had lost.

    3 min
  • मानसपूजायाः महिमा

    पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य शुभदिने देवालयकार्यम् आरभ्य शुभमुहूर्तं चित्वा कुम्भाभिषेकं कर्तुं निश्चितवान् । तस्मिन् एव दिने काञ्चीनगरस्य कश्चन राजा, तेन निर्मितस्य शिवदेवालस्य कुम्भाभिषेकमुहूर्तं निश्चितवान् । किन्तु शिवः राज्ञः स्वप्नम् आगत्य 'अन्यस्मिन् दिने कुम्भाभिषेकः क्रियताम् । तस्मिन् दिने पूसलारस्य देवालयं गच्छामि' इति । अहो! मानसपूजायाः महिमा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    There was once a poor devotee of Lord Shiva named Poosalar. He wished to build a temple for Shiva but lacked the money and resources. So, he began constructing the temple in his mind, imagining bricks, wooden pillars, and beams with great devotion. He chose an auspicious day and mentally planned the temple’s consecration ceremony (Kumbhabhishekam). On the same day, a king in Kanchipuram had also scheduled the consecration of a grand Shiva temple he had built. But Lord Shiva appeared in the king’s dream and said, “Do the ceremony on another day. I will be visiting Poosalar’s temple that day.” Such is the greatness of mental worship—pure devotion reaches the divine even without physical offerings.

    3 min
  • भाग्ये यत् लिखितं तदेव प्राप्यते

    कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायसं मृत्तिकामिश्रितं तत् कुक्कुरस्य भोजनम् अभवत् । तत् दर्शयन् श्रीकृष्णः अवदत् 'भाग्ये यत् लिखितं तदेव प्राप्यते' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Shri Krishna and Goddess Lakshmi were discussing the life of Sudama. Krishna said, “There is a principle called destiny. It never gives anyone more than what is written in their fate before the right time.” Lakshmi did not agree and, during her visit to a household while begging, she created compassion in the heart of the lady for Sudama. As a result, Sudama received a bowl of sweet (payasam). On his way home, he slipped and fell to the ground. The entire payasam got mixed with mud and was eaten by a dog. Seeing this, Krishna said, “One only receives what is written in their destiny.”

    2 min
  • अन्तरङ्गशुद्धिः

    वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा सः ब्राह्मणः गङ्गामात्रे अर्पितवान् तदा गङ्गामाता सुवर्णकङ्कणमेकं रूयिदासाय दीयताम् इति ब्राह्मणस्य हस्ते अधत्त । किन्तु दुराशां प्राप्तवता ब्राह्मणेन तत् कङ्कणं राजगृहं विक्रेतुं नीतम्, । संशयं प्राप्तवान् राजा यदा एतादृशम् अन्यत् कङ्कणम् आनय इति अवदत् तदा भीत्या सः प्रवृत्तं‌ सर्वम् अवदत् । तदा राजा रूयिदासम् आहूय 'यदि भवान् गङ्गामातुः पुत्रः इति सत्यं चेत् एतत्सदृशम् अन्यत् कङ्कणम् आनीय ददातु' इति अवदत् । रूयिदासः गङ्गामातरं मनसि ध्यायन् पादरक्षाशुद्धीकरणनिमित्तं स्थापितस्य जलकरण्डकस्य अन्तः हस्तं प्रसारितवान् । अनुक्षणम् अन्यत् कङ्कणं प्राप्य महाराजाय यच्छन् अवदत् 'अन्तरङ्गं यदि निर्मलं स्यात् तर्हि यत्र कुत्रापि गङ्गा द्रष्टुं शक्या' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, in Varanasi near the banks of the Ganga, a devotee named Ruyidas was busy stitching torn footwear. He could not find time to take a bath in the Ganga, so he gave a coin to a Brahmin and asked him to offer it to Mother Ganga on his behalf. When the Brahmin made the offering, Mother Ganga placed a golden bracelet in his hand, asking him to give it to Ruyidas. But the Brahmin, overcome by greed, took the bracelet to the royal palace to sell it. The king became suspicious and asked him to bring another bracelet like it. Frightened, the Brahmin confessed everything. The king then summoned Ruyidas and said, “If you are truly the son of Mother Ganga, bring another bracelet like this.” Ruyidas, meditating on Mother Ganga, dipped his hand into the water kept for cleaning shoes. Instantly, he received another bracelet and offered it to the king, saying, “If the heart is pure, Ganga can be seen anywhere.”

    4 min
  • मनः दर्पणः एव

    कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्जनेयः च स्वीयं स्वीयं कारणं वदन्ति । अत्र चन्द्रः अस्माकं मनः इव । अन्तःकरणभावस्य अनुगुणं वयं दर्पणरूपे मनसि अन्येषाम् आकारं पश्यामः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Shri Rama went to the top of Suvela mountain with Hanuman and others. There, he saw the moon and asked why it appeared dark in some places. Each person gave a reason based on their own thoughts and experiences. Sugriva, bearing the pain caused by his elder brother’s attack, Vibhishana, being exiled despite being worthy of the throne, Angada, with sorrow of not becoming king even though he deserved it, Rama, with grief over being separated from Sita, and Hanuman, with his deep devotion express their own reasons. The moon here is like our mind—what we see in it reflects our inner emotions.

    3 min
  • वेदविदः पक्षिणः

    महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    After the Mahabharata war, the sage Shamika went to the battlefield. There, he heard the chirping of small birds. He took them to his ashram and carefully looked after them. While teaching his students, the birds also learned the Vedas and various scriptures. One day, the sages were amazed to hear Vedic chants coming from the birds’ mouths. Shamika asked how they were able to speak like humans. The birds then revealed that they had gained all this knowledge in their previous birth.

    5 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।