बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • चक्रवत् परिवर्तन्ते दुःखानि च सुःखानि च

    यदा वणिजः माधवस्य सुदिनानि समाप्तानि दुर्दिनानि सन्निहितानि तदा सः आर्तस्वरेण देवं प्रार्थितवान् । तदा देवः ब्राह्मणवेषं धृत्वा 'स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम् । अन्येषाम् इतोऽप्यधिकानि दुःखानि भवन्ति एव' इति केनचित् निर्दर्शनेन बोधितवान् । ततः सः धैर्येण एव कष्टानि सोढवान् । अन्ते च सुखं प्राप्तवान् । 
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    When the merchant Madhava's good days ended and difficult times approached, he prayed to God in distress. Then, God, disguised as a Brahmin, advised him, "One should never think that their suffering is the greatest. There are always others facing even greater hardships". With this realization, Madhava endured his troubles with patience. In the end, he attained happiness.

    7 min
  • न्यायस्य महिमा

    ग्रीक्-देशस्य स्पार्टानगरे एकं देवीमन्दिरम् आसीत् । देव्याः विग्रहे एकः खड्गः लम्बमानः असीत् । सः खड्गः न्यायनिर्णये सहकरोति स्म । विवादः उत्पन्ने वादिनः विवादिनः च मन्दिरं गत्वा खड्गस्य अधः हस्तं स्थापयन्ति । तदा खड्गः स्वयमेव अधः पतति येन यः अन्याय्यं कृतवान् भवति तस्य हस्तः कर्तितः भवति । अल्विनः नाम कश्चन कृषकः काञ्चित् विधवामहिलां न्यासरूपेण स्थापितानां सुवर्णनाणकानां विषये वञ्चयति । न्याय्यार्थं मदिरं गत्वा खड्गस्य अधः हस्तं स्थापितवान् अल्विनः । किन्तु खड्गः न विचलितः । कारणं ज्ञातव्यं वा ? अल्विनस्य कृते दण्डनं लभ्येत वा ? कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the Greek city of Sparta, there was a temple dedicated to a goddess. A sword hung from the deity’s statue, which played a role in delivering justice. Whenever a dispute arose, the litigants would go to the temple and place their hands beneath the sword. If someone had committed an injustice, the sword would fall and sever their hand. A farmer named Alvin deceived a widowed woman regarding gold coins entrusted to him for safekeeping. Seeking justice, he went to the temple and placed his hand beneath the sword. However, the sword did not move. Why did this happen? Would Alvin receive punishment? Listen to the full story to find out!

    6 min
  • बुद्धिमान् शशः

    कदाचित् आहारान्वेषणं कुर्वता शृगालेन एकः शशः दृष्टः । शृगालस्य आगमनं दृष्ट्वा शशः 'कथमपि एतं वञ्चयित्वा आत्मानं संरक्षामि' इति अचिन्तयत् । यदा शृगालः समीपम् आगतवान् तदा शशः 'अन्यः एकः विशिष्टः शृगालः एकस्यां गुहायां वसति । सः शृगालं विना अन्यं प्राणिनं न खादति एव' इति अवदत् । तत् श्रुत्वा तं द्रष्टुं गुहां प्रति प्रस्थितवन्तौ । शशः सिंहस्य गुहायाम् अन्तः शृगालं प्रेषितवान् । अनन्तरं किं जातम् इति वक्तव्यं नास्ति खलु ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    While searching for food, a fox saw a rabbit. Seeing the fox approaching, the rabbit thought, "I must somehow deceive him and save myself". When the fox came near, the rabbit said, "A special fox lives in a cave nearby. He does not eat any creature except those brought by another fox". Hearing this, they both set off to see him. The rabbit led the fox into a lion's cave. What happened next needs no explanation, right?

    5 min
  • मध्वपतिः

    कर्णाटकसङ्गीतक्षेत्रे पुरन्दरदासः अतीव प्रसिद्धः । कदाचित् तेन दिनचतुष्टयं नगरान्तरं गन्तव्यम् आपतितम् । अतः तस्य चतुर्थं पुत्रं लघुबालं मध्वपतिं मारुतेः पूजाकार्यं करोतु इत्युक्तवान् । परेद्यवि नैवेद्यविधेः अनन्तरमपि मारुतिः नैवेद्यं न कृतवान् इत्यतः भक्त्या नैवेद्यं स्वीकर्तुं प्रार्थितवान् । मध्वपतेः हठं दृष्ट्वा मारुतिः मुखम् उद्घाटितवान् । मध्वपतिः स्वल्पं स्वल्पं नैवेद्यं मुखे क्षिप्तवान् । मारुतिः अपि शनैः खादितवान् । गृहागतेन पुरन्दरेण ज्ञातं यत् मध्वपतिः नैवेद्यं मारुतिं खादयति इति । तत् साक्षात् दृष्ट्वा पुरन्दरदासस्य नेत्राभ्याम् अश्रूणि अगलन् । सः प्रीत्या पुत्रम् आलिङ्गितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Purandaradasa is highly renowned in Carnatic music. Once, he had to travel to another city for four days. Before leaving, he instructed his youngest son, Madhvapati, to offer worship to Lord Hanuman. The next day, even after the ritual offering, Hanuman did not take the food. Out of devotion, Madhvapati insisted that Hanuman accept it. Seeing the boy’s determination, Hanuman opened his mouth, and Madhvapati slowly fed him. Hanuman gradually ate the offering. When Purandaradasa returned home, he discovered that Madhvapati had fed Hanuman. Witnessing this divine event, tears streamed from his eyes, and he embraced his son with joy.

    5 min
  • शिवाजेः औदार्यम्

    बर्हानपुरे दरिद्रः केशवशास्त्री पुत्रस्य चिकित्सार्थं धनम् अपेक्षते इति देवं प्रार्थयमाणः आसीत् । तदा एव देवालयात् बहिः कोलाहलं श्रुत्वा ज्ञातवान् यत् आगरादुर्गात् पलायितः शिवाजिमहाराजः, चत्वारः अनुचराः च सन्ति इति । सः अचिन्तयत् यत् 'एनं विषयं यवनाधिकारिणं सूचयामि । तदा यत् पारितोषिकं लभ्यते तेन मम पुत्रं रक्षामि' इति । एतत् सर्वं गृहजनेभ्यः उक्त्वा यदा गृहतः प्रस्थितः तदा तस्य स्नुषा 'हिन्दूनां रक्षणार्थं कथमपि शिवाजिः रक्षणीयः' इति विचिन्त्य, एकाकिनी धावित्वा सर्वं शिवाजिं निवेद्य गृहमागतवती । यदा यवनाः आगताः तदा देवालये कोऽपि न आसीत् । किन्तु शतसुवर्णनाणकैः पूर्णं स्यूतं दृष्ट्वा केशवशास्त्री सन्तुष्टः, तथापि शिवाजेः औदार्यं ज्ञात्वा नितरां लज्जितः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In Burhanpur, the poor Keshav Shastri prayed for money to treat his son. Hearing a commotion outside the temple, he learned that Shivaji Maharaj had escaped from Agra Fort with four companions. Thinking of informing the Mughal authorities to receive a reward, he shared his plan with his family. However, his daughter-in-law, determined to protect Shivaji, ran alone to warn him and returned home. When the Mughals arrived, Shivaji was gone, but Keshava found a bag filled with a hundred gold coins. Keshav Shastri felt satisfied, yet upon realizing Shivaji’s generosity, he was deeply ashamed.

    5 min
  • ज्ञानतो ज्येष्ठत्वम्

    एकदा अङ्गिरसस्य पुत्रस्य कवेः समीपं तस्य मातुलः पितृव्यः इत्यादयः सर्वे वृद्धाः गत्वा 'भवान् तु अस्माकं पुत्रः इव । अस्माकं वेदाध्ययनं कारयतु' इति अवदन् । ततः कविना वृद्धवर्गाय वेदाध्यापनम् आरब्धम् । कदाचित् पाठनावसरे कविना उक्तम् 'हे पुत्राः! मह्यं जलम् आनयन्तु' इति । तं सम्बोधनं श्रुत्वा खिन्नाः वृद्धजनाः देवनां समीपं गतवन्तः । देवाः अवदन् 'अज्ञानी मनुष्यः बालः एव । वेदज्ञः एव पिता इति शास्त्रं निर्दिशति । 'विप्राणां ज्ञानतो ज्येष्ठत्वम्' इति वचनानुसारं ज्ञानस्य कारणतः भवदपेक्षया ज्येष्ठः अस्ति कविः एव । अतः तस्य व्यवहारः उचितः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, the elderly relatives of Kavi, the son of Angiras, approached him and said, "You are like a son to us. Please teach us the Vedas". Accepting their request, Kavi began instructing them. One day, during a lesson, Kavi addressed them as 'sons' and asked them to bring him water. Hearing this, the elders felt hurt and sought guidance from the gods. The gods explained, "An ignorant person is like a child, while a learned one is considered a father. The scriptures declare that wisdom determines seniority—'Among Brahmins, knowledge makes one superior.' Since Kavi possesses greater knowledge than you, his behavior is appropriate".

    5 min
  • त्रयः पाषाणखण्डाः

    कश्चन पथिकः मरुप्रदेशे सञ्चरन् आसीत् । रात्रौ कश्चित् ध्वनिः श्रुतः 'अत्र पतितान् पाषणखण्डान् चिनोतु । श्वः ते सुवर्णमयाः भवेयुः' इति । किन्तु पथिकस्य विश्वासः न आसीत् । तथापि तेन त्रयः पाषाणखण्डाः स्वीकृताः । अनन्तरदिने त्रयः अपि पाषाणखण्डाः सुवर्णरूपेण परिवृत्ताः आसन् । पथिकः हर्षोत्फुल्लः अभवत् । किन्तु द्वितीयक्षणे 'कुतो मया बहवः पाषाणखण्डाः न चिताः?’ इति चिन्तयन् हतोत्साहः दु:खितश्च अभवत् । तस्य समीपे अमूल्याः त्रयः पाषाणखण्डाः सन्ति चेदपि किञ्चिदपि सुखम् अनुभवितुं न शक्तः जातः सः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A traveler was wandering through a desert when, at night, he heard a voice saying, "Pick up the fallen stones here. Tomorrow, they will turn into gold". Doubtful but curious, he picked up only three stones. The next morning, he was overjoyed to see that they had indeed turned into gold. However, in the very next moment, he thought, "Why didn’t I collect more?" This regret overwhelmed his happiness, leaving him disheartened and sorrowful, despite having three priceless gold pieces in his possession.

    8 min
  • अखण्डः विश्वासः

    कुरुक्षेत्रस्य युद्धे कदाचित् भीष्मः प्रतिज्ञातवान् 'अहं श्वः अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि' इति । तां प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वेऽपि भीताः चिन्तिताः च अभवन् । भगवान् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् । सः अर्जुनस्य सेनाशिबिरं गतवान् । अर्जुनः तु गाढनिद्रायां मग्नः आसीत् । साश्चर्यं कृष्णः तम् उत्थाप्य प्रतिज्ञायाः विषये चिन्तितः नास्ति वा इति यदा अपृच्छत् तदा अर्जुनः अवदत् 'स्वस्य भक्तस्य अर्जुनस्य रक्षणभारः भगवतः भवतः एव । मम चिन्ता का अत्र?’ इति । अर्जुनस्य एतादृशं दृढं विश्वासं दृष्ट्वा एव श्रीकृष्णः पार्थसारथिः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During the Kurukshetra war, Bhishma vowed, "Tomorrow, I will either kill Arjuna or be defeated by him". Hearing this, the Pandavas were terrified, and even Krishna could not sleep due to worry. Krishna went to Arjuna’s camp, but found him in deep sleep. Surprised, Krishna woke him up and asked if he was not concerned about Bhishma’s vow. Arjuna calmly replied, "The responsibility of protecting me is yours, my Lord. Why should I worry?" Seeing Arjuna’s unwavering faith, Krishna became his charioteer, guiding him throughout the war.

    4 min
  • जीवनपथः

    कदाचित् कश्चन मनुष्यः बहुभिः दुःखैः पीडितः सन् ईश्वरसमीपं गत्वा उच्चैः आक्रोशम् कृतवान् । तदा ईश्वरः चित्रगुप्तम् आहूय 'भवतः पुस्तकात् एतस्य जीवनपथप्रदर्शकं चित्रं दर्शयतु' इति अवदत् । यत्र यत्र तस्य मनुष्यस्य पदचिह्नानि आसन् तत्र तत्र ईश्वरस्यापि पदचिह्नानि आसन् । कदाचित् यदा सः मनुष्यः दुःखपीडितः सन् चलितुमपि असमर्थः जातः, तदा ईश्वरः स्वस्य स्कन्धयोः तम् आरोप्य चलितवान् इति ज्ञात्वा मनुष्यः भृशं लज्जाम् अनुभूय ईश्वरं क्षमां याचितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A man, overwhelmed by suffering, went to God and cried out in despair. In response, God summoned Chitragupta and asked him to show the path of the man's life from his records. In the depiction, wherever the man's footprints appeared, God's footprints were also present beside them. However, during the times when the man was too burdened to walk, there were no footprints of his own—only God's. Realizing that during his most difficult moments, God had carried him on His shoulders, the man felt deep shame and asked for forgiveness.

    6 min
  • महादाता

    कश्चित् महाराजः धर्मबुद्धिः सुशीलः च आसीत् । तस्य प्रासादे सहस्राधिकाः जनाः भोजनं कृत्वा सन्तृप्त्या गच्छन्ति स्म । कदाचित् तस्य मनसि स्वस्य दानस्य विषये अहङ्कारः जातः । भोजनं कृत्वा आगच्छन्तं प्रत्येकं जनम् अपृच्छत् 'आतृप्ति भोजनं कृतं वा ? अस्य कार्यस्य कृते मां स्मरति वा ?’ इति । सर्वे आम्, स्मरामः इति अवदन् । किन्तु कश्चित् संन्यासी अवदत् 'अहम् इतोSपि महत्तरं दानं कृतवन्तं प्रथमं स्मृत्वा अनन्तरं भवन्तं स्मरिष्यामि' इति । कः सः? इति महाराजेन पृष्टे संन्यासी अवदत् 'अस्माकं शरीरं, प्राणाः, वायुः, सस्यानि इत्यादीनि भगवान् दानरूपेण अस्मभ्यं दत्तवान् अस्ति । तस्य स्मरणमेव आद्यं कर्तव्यम्' इति । तदा महाराजस्य अहङ्कारः नष्टः जातः । सः संन्यासिनं क्षमां याचितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain great king was known for his righteousness and virtue. In his palace, thousands of people were fed daily. One day, pride arose in his heart regarding his generosity. He began asking each person after their meal, "Are you satisfied? Will you remember me for this deed?" Everyone replied, "Yes, we will remember you". However, a sage responded, "I will first remember the one who has given an even greater gift, and only then will I remember you". When the king asked who that was, the sage explained, "God has given us our body, life, air, crops, and everything as a gift. Remembering Him must come first". Hearing this, the king's pride vanished, and he humbly sought the sage’s forgiveness.

    5 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।