
Sign up to save your podcasts
Or


मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत् । तदनन्तरम् अजशावकः शीघ्रं धावन् गोष्ठं प्राप्नोत् । पुनः कदापि सः मातुः वचनं न उपेक्षितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ignoring his mother’s advice, a young goat wandered away from the herd and entered the forest. Suddenly, a large wolf appeared before him. Thinking of a way to save himself, the goat cried out loudly, "Brother! Give me water. I have eaten a poisonous leaf, and now my whole body is filled with venom". He then lay still. The wolf, fearing that eating the goat’s flesh would poison him too, fled. The young goat quickly ran back to the herd and never ignored his mother’s words again.
पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभवत् । पुनः कदाचित् राजा वने स्थितं कञ्चन तपस्विनं द्रष्टुं गतः । ध्यानमग्नः तपस्वी नेत्रे न उद्घाटितवान् । क्रुद्धः राजा पार्श्वे पतितम् अश्वपुरीषं तपस्विनः शिरसि क्षिप्त्वा ततः निर्गतवान् । एकदा रात्रौ सः देवदूतः पुनः आगत्य 'स्वर्गलोके भवतः प्रासादः अश्वपुरीषैः पूर्णः अस्ति' इति अवदत्। यः परनिन्दकः सः तस्य पापानि भुङ्क्ते । अतः कथञ्चित् सः पापानि क्षालितवान् । अनन्तरं सः बहुः जागरूकतया राज्यं कृतवान् । स्वर्गं च प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, in Kashi, there was a righteous and compassionate king. One day, while hunting, a divine messenger appeared and told him, "A golden palace has been prepared for you in heaven" before disappearing. Later, the king visited a meditating sage in the forest. When the sage did not open his eyes, the angry king threw horse dung on his head and left. One night, the messenger returned and said, "Your palace in heaven is now filled with horse dung". Realizing the consequences of his actions, the king repented, ruled wisely, and ultimately attained heaven.
पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्मानं श्रेष्ठं मन्यते । कुण्डलस्य पुत्रः सुकर्मा यद्यपि तपः न आचरितवान् भवदपेक्षया ज्ञानी अस्ति' इति । आश्चर्यभरितः पिप्पलः सुकर्मणः समीपं गत्वा तस्य ज्ञानस्य रहस्यम् अपृच्छत् । तदा सुकर्मा अवदत् 'अहं चिन्तयामि यत् मातापित्रोः सेवायाः परिणामतः एव अहं कामपि सिद्धिं प्राप्तवान्' इति । एतत् श्रुत्वा पिप्पलस्य ज्ञाननेत्रे उद्घाटिते । गर्वस्य अपगमनेन सः विनयशीलः सञ्जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A sage named Pippala, after receiving a boon from Indra, became arrogant due to his intense penance. Seeing this, Brahma decided to humble him. Disguised as a learned man, Brahma approached Pippala and said, "Why do you consider yourself superior? Though Kundala’s son, Sukarma, has not performed penance, he possesses greater wisdom than you". Amazed, Pippala went to Sukarma and asked about the secret of his knowledge. Sukarma replied, "I believe that my wisdom is the result of serving my parents with devotion". Hearing this, Pippala’s eyes were opened to true wisdom. Shedding his arrogance, he became humble and virtuous.
एकदा प्रवासं कुर्वता सत्पुरुषेण पिपासानिवारणार्थं मार्गमध्ये विद्यमानं कुटीरस्वामिनं जलं याचितम् । जलं पीत्वा अप्रसन्नमनस्कः सन् ततः यावत् गन्तुम् उद्युक्तः तदा 'किञ्चित् क्षीरं पीत्वा गच्छतु' इति स्वमी उक्तवान् । पुनः पुनः अनुरोधेन सत्पुरुषः चमसपरिमितमेव क्षीरं पीतवान् । अस्वस्थमनस्कः सः अवदत् यत् 'एषा धेनुः भवता चोरिता अस्ति । भवता दत्तं क्षीरं पीत्वा 'भवतः धेनुः चोरयितव्या' इति विचारः मम मनसि आगतः । यदा अन्नं स्वीकरिष्यामि तदा एव मनसि विशिष्टाः तरङ्गाः उद्भवन्ति । तैः तरङ्गैः अन्नदातुः वृत्तिं जानामि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a noble traveler, feeling thirsty, asked the owner of a roadside cottage for water. After drinking, he was about to leave when the owner insisted, "Please have some milk before you go". Despite repeated requests, the traveler drank only a small amount. However, he felt uneasy and said, "This cow has been stolen by you. After drinking the milk, the thought of stealing your cow arose in my mind. Whenever I consume food, unique thoughts emerge, revealing the nature of the giver".
पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वायुविहारसमये मन्त्री पक्षिणः कलरवं श्रद्धया कर्णौ दत्त्वा श्रोतुम् आरब्धवान् । यदा महाराजः अपृच्छत् तदा मन्त्री 'अहं पक्षिणः भाषां जानामि' इत्युक्त्वा तस्य मनसि यत् राज्ञे बोधनीयम् इति आसीत् तत् सर्वं पक्षिणः सम्भाषणरूपेण अनूदितवान् । महाराजस्य ज्ञानोदयः अभवत् । 'सर्वे मिलित्वा च राज्यं सुभिक्षं करिष्यामः' इति उक्त्वा तं मन्त्रिणं प्रधानमन्त्रिणं कृत्वान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a great king became indifferent to governance, leading to the kingdom's decline over time. One of his ministers decided that the king must somehow be made aware of the situation. One evening, during a walk, the minister attentively listened to the chirping of birds. When the king asked about it, the minister claimed, "I understand the language of birds" and then conveyed everything the king needed to realize in the form of a bird’s conversation. This awakened the king’s wisdom. Declaring, "Together, we shall restore prosperity to the kingdom," he appointed the minister as the chief advisor.
सुप्रसिद्धः राजा देवव्रतः कदाचित् स्वमातरं पद्मावतीम् अवदत् 'पितुः आज्ञानुसारेण राज्यस्य उत्तरदायित्वं निर्वहन् अस्मि । गुरुणा प्रदत्तायाः शिक्षायाः सदुपयोगं कृतवान् अस्मि । अतः अहं भूमेः, गुरोः, पितुः, मातुः च ऋणात् मुक्तः अस्मि' इति । पुत्रस्य एतादृशीं वार्तां श्रुत्वा पद्मावती अहसत् । अनन्तरं सा एकेनैव उदाहरणेन दर्शयति यत् कथं मातुः ऋणात् मुक्तः भवितुं न अर्हति इति । ततः सः मातुः क्षमां प्रार्थितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The renowned king Devavrata once told his mother, Padmavati, "I have fulfilled my responsibilities as per my father's command. I have made good use of the education given by my teacher. Thus, I am free from the debts of the land, my teacher, my father and my mother". Hearing this, Padmavati laughed. She then demonstrated, with a single example, how one can never be free from a mother’s debt. Realizing his mistake, Devavrata humbly sought his mother’s forgiveness.
कदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैववशात् गृहीतः, तर्हि अन्यपक्षिणः तं विषफलं खादयित्वा मारयन्ति' इति । तत् श्रुत्वा पश्चात्तापदग्धः सन् चिन्मयः तदा एव स्वतन्त्रतायाः महत्त्वं ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a boy named Chinmaya caught a sweetly chirping baby bird and placed it in a cage. He tried feeding it daily, but the bird refused to eat, longing for its mother and crying in distress. The next morning, another bird came and fed the baby bird something. When Chinmaya approached the cage, he found the baby bird dead. Later, an ornithologist explained that if a bird is captured, other birds sometimes feed it poisonous fruit to end its suffering. Hearing this, Chinmaya was filled with remorse and realized the true value of freedom.
'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इत्यस्य वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कदाचित् स्काट्लेण्डदेशस्य एडिम्बरानगरस्य दण्डाधिकारी जार्ज् ड्रुमण्डः, वायुविहारसमये काञ्चन शवयात्राम् अपश्यत् । किन्तु पेटिकां परितः चतुरः जनान् विहाय अन्ये केऽपि न आसन् । कारणं तस्य दरिद्रस्य बान्धवाः, स्नेहिताः च न आसन् । अतः ड्रुमण्डः 'दरिद्राणां सेवां करोमि' इति विचिन्त्य तैः सह प्रस्थितवान् । ड्रुमण्डस्य वचनैः प्रभाविताः जनाः तम् अनुसृतवन्तः । दण्डाधिकारी कस्यचित् दरिद्रस्य शवसंस्कारार्थं गच्छन् अस्ति इति श्रुत्वा न केवलम् अहमहमिकया धावित्वा भागम् ऊढवन्तः अपि च ड्रुमण्डस्य प्रेरणया मृतस्य भार्यायाः जीवननिर्वहणार्थं धनसाहाय्यमपि कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story serves as a great example of the saying, "Whatever a great person does, others follow". Once, George Drummond, a magistrate of Edinburgh, Scotland, saw a funeral procession during his evening walk. However, apart from four people carrying the coffin, no one else was present. The reason was that the deceased was poor and had no relatives or friends. Moved by compassion, Drummond decided to accompany them, thinking, "I must serve the poor". Inspired by his actions, others followed him. Upon hearing that a magistrate was attending a poor man's funeral, many rushed to join. Not only did they participate in the funeral, but, motivated by Drummond, they also provided financial assistance to the deceased’s widow for her livelihood.
कदाचित् सर्वे देवताः स्ववाहनेन कैलासम् आगताः । गोष्ठी च आरब्धा । अत्रान्तरे बहिः महिषारूढः यमधर्मराजः पुरतः वृक्षस्य उपरि उपविष्टं कपोतं तीक्ष्णदृष्ट्या दृष्ट्वा अन्तः गतवान् । गरुडः एतत् सर्वं दृष्ट्वा कथञ्चिदपि एषः कपोतः यमधर्मराजतः रक्षणीयः इति विचिन्त्य कपोतं गृहीत्वा रामेश्वरक्षेत्रम् आनीय वटवृक्षस्य उपरि उपवेश्य वेगेन कैलासं प्रत्यागतवान् । सभातः निष्क्रामन् यमराजः रामेश्वरक्षेत्रे कपोतस्य मरणं कथं सम्पाद्यते इति जिज्ञासां यदा गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्वम् अकथयत् । यमदेवः अकथयत् 'विधेः नियमः न केनापि परिवर्तयितुं शक्यः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, all the gods arrived at Kailash in their respective vehicles and began a gathering. Meanwhile, outside, Yama, riding his buffalo, intensely gazed at a pigeon sitting on a tree and then entered the assembly. Seeing this, Garuda thought the pigeon must be protected from Yama. He swiftly took the pigeon to Rameshwaram, placed it on a banyan tree, and returned to Kailash. As Yama was leaving, he wondered how the pigeon’s death would occur in Rameshwaram. When he expressed this to Garuda, Garuda recounted everything. Yama then said, "No one can alter the laws of fate".
१९६५ तमे वर्षे भारतपाकिस्थानयोः मध्ये युद्धं प्रचलत् अस्ति । लेफ्टिनेण्ट तारापोरः अस्य सेनानीः आसीत् । केषाञ्चन दिनानामनन्तरं फिल्लोरनगरस्य समीपे स्थितानि शत्रुयानानि नाशितानि । पाकिस्थानस्य एका क्षिपणिः तारापोरस्य युद्धवाहनस्य विध्वंसम् अकरोत् । तारापोरः व्रणितः जातः चेदपि चिकित्साम् उपेक्ष्य अग्रे गत्वा वीरावेशेन युद्धं कृतवान् । अन्यथा गतिः नास्ति इति शत्रवः पलायनं कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In 1965, war was ongoing between India and Pakistan. Lieutenant Tarapore was a commander in this battle. After several days, enemy tanks near Phillaur city were destroyed. A Pakistani missile struck Tarapore’s battle tank, injuring him. Despite his wounds, he ignored medical aid and continued fighting bravely. Seeing no other option, the enemy forces fled.
From the publisher's feed