
Sign up to save your podcasts
Or


शङ्करशाहः गोण्डवंशीयः राष्ट्रप्रेमी राजा आसीत्, यः कवित्वेन अपि प्रसिद्धः । तेन रचितानि देशभक्तिपराणि गीतानि जनाः सदा गायन्ति स्म । जबलपुरप्रदेशे आङ्ग्लैः संस्थानाधिपाः भूस्वामिनः च जनाः पीडिताः आसन्, अतः आङ्ग्लशासनविषये असन्तोषः उत्पन्नः । शङ्करशाहः तैः सह सम्पर्कं कृत्वा सर्वत्र युगपत् शासनविरोधस्य योजनाम् अकरोत् । सभायां तस्य पुत्रः रघुनाथशाहः अपि भागं गृहीत्वा नवरात्रारम्भदिने सैनिकैः शासनविरोधः करणीयः इति निर्णयं कृतम् । किन्तु कश्चन भूस्वामी धनलोभेन एतां वार्ताम् आङ्ग्लान् प्रापितवान्, अतः योजना विफला जाता । शङ्करशाहः रघुनाथशाहः च कारागारे स्थापितौ । अन्ते आङ्ग्लैः तयोः शूलारोपणं कृतम्, येन स्वातन्त्र्यसमराग्निः इतोऽपि तेजोमयः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Shankar Shah was a patriotic king from the Gond dynasty, also known for his poetry. His songs of freedom were sung by the people with great pride. In Jabalpur, British rule had caused suffering among landowners and local leaders, leading to widespread unrest. Shankar Shah connected with them and planned a simultaneous uprising against the British. His son, Raghunath Shah, also participated, and they decided to begin the revolt on the first day of Navaratri. However, a greedy landlord betrayed them to the British, and the plan failed. Both Shankar Shah and Raghunath Shah were imprisoned and eventually executed by impalement. Their sacrifice further ignited the flames of India’s freedom struggle.
तमिळुनाडुदेशीयः विश्वनाथदासः स्वीयैः देशभक्तिगीतैः, नाटकैः, अभिनयैः च देशभक्तिम् जागरयति स्म । नाटकेषु 'वल्लीविवाहः' इति नाटके आङ्ग्लेयशासनं लक्षीकृत्य दासवर्यः गीतं गायति स्म येन कारणेन षट् मासान् संवत्सरान् वा यावत् कारागारवासः भवति स्म । कदाचित् दासवर्येण रङ्गं न प्रवेष्टव्यम् इति आङ्ग्लशासनेन आज्ञा कृता । तथापि वीरपुरुषः दासवर्यः रङ्गे निर्भयम् अगच्छत् । तस्मात् सः कारागारे स्थापितः । आङ्ग्लशासनं विरुद्ध्य दासवर्यः नवविंशतिवारं कारागृहम् अगच्छत् । १९४० तमे वर्षे डिसम्बरमासे सः गीतं गायन् पञ्चत्वं प्राप्नोत् । भारमातुः स्वतन्त्रतायै तदीयं जीवनपुष्पं समर्पितम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Viswanatha Das, a patriot from Tamil Nadu, awakened national spirit through his songs, plays, and performances. In one of his dramas titled Valli Vivaha, he sang a song targeting British rule, which led to his imprisonment for six months or even a year. At one point, the British authorities banned him from entering the stage. Yet, with fearless resolve, Viswanatha Das stepped onto the stage and was again imprisoned. In total, he was jailed nineteen times for opposing British rule. In December 1940, while singing a patriotic song, he passed away. His life was a fragrant offering to Mother India’s freedom.
आ पञ्चदशभ्यः दिनेभ्यः मन्दिरम् आगत्य देवस्य पुरतः स्थित्वा वर्णमालां जपन्तीं बालिकां कश्चन भक्तः उपसर्प्य अपृच्छत् 'किमर्थं वर्णमालाजपं कृत्वा देवं प्रणम्य निर्गच्छसि' इति । तदा सा बालिका अवदत् यत् 'वर्णमाला एव मम स्तोत्रम् । अपि च मातामही कथयति यत् सर्वाणि स्तोत्राणि प्राथनाः च एतैः वर्णैः एव निर्मितानि भवन्ति । अतः भगवतः पुरतः श्रद्धया पठ' इति । प्रार्थनां स्तोत्राणि वा अजानत्याः अपि अस्याः भगवति श्रद्धा तु बलवती अस्ति इति चिन्तयन् सः भक्तः स्वकार्याय ततः निर्गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
For fifteen days, a little girl had been coming to the temple and standing before the deity, chanting the alphabet. One day, a devotee approached her and asked, “Why do you chant the alphabet and then leave after bowing to the Lord?” The girl replied, “The alphabet itself is my hymn. My grandmother says that all prayers and hymns are made from these very letters. So I recite them with devotion before God.” The devotee realized that although the girl didn’t know any formal prayers, her faith was deep and sincere. Moved by her pure devotion, he quietly left to attend to his own tasks.
कदाचित् विश्वामित्रशिष्यः गालवः गरुडश्च गुरुदक्षिणसङ्ग्रहणार्थं प्रपञ्चपर्यटनम् आरब्धवन्तौ । तदवसरे विश्रान्त्यर्थं वृषभपर्वते स्थितवन्तौ । वृषभपर्वतस्थायां गुहायां वसत्या शाण्डिल्यमहर्षिपुत्र्या महातपस्विन्या स्वयम्प्रभया तौ सत्कृतौ । प्रातः उत्थानसमये गरुडस्य पक्षौ दग्धौ आस्ताम् । तदा गालवः गरुडं पृष्टवान् यत् तेन किमपि अनुचितं चिन्तनं कृतं वा इति । तदा गरुडः अवदत् - 'एतादृशीं सुन्दरीं नीत्वा नारयणाय, शिवाय, ब्रह्मणे वा यदि समर्पयेयं तर्हि एतां प्राप्तवान् जनः सन्तुष्टः भवेत् इति चिन्तितं मया’ इति । एतत् दुश्चिन्तनं ज्ञातवत्या स्वयम्प्रभया पक्षयोः दाहः कृतः । यदा गरुडः क्षमां संयाचत तदा स्वयम्प्रभा योगशक्त्या गरुडस्य पक्षौ उज्जीवितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Galava, a disciple of Vishwamitra, and Garuda set out on a journey across the world to gather guru dakshina. During their travels, they rested at Vrishabha mountain. There, in a cave, they were warmly welcomed by a great ascetic named Swayamprabha, the daughter of Sage Shandilya. The next morning, Garuda’s wings were found scorched. Galava asked Garuda if he had entertained any improper thoughts. Garuda confessed, “I thought that if I offered such a beautiful woman to Narayana, Shiva, or Brahma, the recipient would be pleased.” Swayamprabha, sensing this impure thought, had burned his wings through her yogic power. When Garuda sincerely asked for forgiveness, she restored his wings using her spiritual energy.
कश्चन धनिकः बदरीकेदारनाथादिदर्शनार्थं गतवान् । तत्र काचन बालिका धनिकम् उपसर्प्य एकं रूप्यकम् अयाचत । सः कोषात् निष्कास्य अञ्जलिमितानि रूप्यकाणि बालैकायै अयच्छत् । एतावन्ति नाणकानि प्राप्य सा बालिका यद्यपि सन्तुष्टा जाता तथापि अनतिदूरे क्रीडतः निर्धनबालकान् दृष्ट्वा तस्याः सन्तोषः विलुप्तः । सा तेषां दिशि गत्वा एकैकस्मै अपि बालकाय एकैकं नाणकम् अयच्छत् । अन्ते एकम् एव नाणकं तस्याः हस्ते अवशिष्टम् । महत्या सन्तृप्त्या सा ततः निर्गतवती । तस्याः उदारतां निःस्पृहतां च दृष्ट्वा सः धनिकः महत् आश्चर्यं प्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wealthy man once went to visit Badrinath and Kedarnath. There, a little girl approached him and asked for one coin. The man generously gave her a handful of coins from his purse. The girl was happy at first, but soon saw some poor children playing nearby. Her joy faded. She walked over to them and gave one coin to each child. In the end, only one coin remained in her hand. She left with great satisfaction. Seeing her kindness and selflessness, the rich man was deeply amazed.
भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उत्पन्ना , कथं गोपालकाः एव प्रथमवेणुवादकाः अभवन्, तस्य वाद्यस्य मूलं किम् इत्येते विषयाः अस्यां कथायाम् उक्ताः सन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
We all know that Lord Krishna is famously associated with the flute. He is always seen holding a flute in his hand. Since Krishna grew up among cowherds, it was natural for him to carry a flute. But how did cowherds become interested in playing the flute? How did they become the first flute players? And what is the origin of this musical instrument? These questions are explored in this story. It reveals the deep connection between Krishna, the cowherds, and the music of the flute. The tale invites us to discover the cultural and emotional roots of this divine melody.
कदाचित् कश्चन ज्ञानी स्वकीयम् अपूर्वं ज्ञानं कस्मैचिदपि दातुं सज्जः अभवत् । यः इच्छति सः चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा स्वीकर्तुं शक्नोति इति सः उद्घोषितवान् । तत् श्रुत्वा कश्चन राजा तं ज्ञानिनं स्वस्य आस्थानम् आनाय्य सत्कृत्य च चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा अपूर्वं ज्ञानं दातुं निवेदितवान् । तदा ज्ञानी जीवनानुभवात् प्राप्तानि चत्वारि सूत्राणि उक्तवान् । तानि सूत्राणि श्रुत्वा राजा चिन्तने मग्नः जातः । तदनन्तरं ज्ञानी स्वीकृतं धनं राज्ञे प्रतिदाय दरिद्रेभ्यः दीयताम् इति उक्त्वा ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a wise man was ready to share his rare wisdom with anyone who wished to receive it. He announced that whoever wanted it must pay four thousand gold coins. Hearing this, a king invited the wise man to his court, honored him, and offered the gold coins to receive the special knowledge. The wise man then shared four life principles based on his own experiences. After hearing them, the king became deeply thoughtful. The wise man then returned the money to the king and said it should be given to the poor. With that, he quietly departed.
श्रीरामचन्द्रस्य वनवासकाले प्रवृत्ता घटना एषा । कदाचित् श्रीरामः कुटिरात् बहिः गतवान् आसीत् । लक्ष्मणः वृक्षस्य अधः उपविश्य श्रीरामस्य विषये चिन्तामग्नः आसीत् । तदा निद्रया आवृतया सीतया शिरः स्थापयितुम् उपधानत्वेन किमपि अनुपलब्धे, सा लक्ष्मणस्य अङ्के शिरः स्थापयित्वा शयितवती । प्रत्यागतेन श्रीरामेण अन्तर्ज्ञानेन वस्तुस्थितौ अवगतायाम् अपि लक्ष्मणस्य परीक्षा करणीया इति विचिन्तितम् । शुकरूपं धृत्वा सः लक्षणस्य परीक्षां कथं करोति इति कथायाः विषयः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This incident took place during Shri Rama’s exile in the forest. One day, Rama had gone out of the hut. Lakshmana sat under a tree, deeply worried about Rama. Sita, feeling sleepy and unable to find a pillow, gently rested her head on Lakshmana’s lap. When Rama returned, he understood the situation through his inner wisdom, but still felt that Lakshmana’s loyalty should be tested. So, Rama took the form of a wild boar to examine Lakshmana’s character. How he conducts this test and what unfolds is the theme of this story.
जनाः बाह्यशरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति । किन्तु, अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति । अतः एव जनानां मध्ये मानवता न्यूनीभवति, चेतना म्रियते च । दुःखानि कष्टानि च वर्धन्ते । इयं कथा तादृशमेव किञ्चित् बोधयति, आत्मावलोकनस्य अपि एकम् अवसरं कल्पयति च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
People spend a lot of money to enhance the beauty of their outer body. But they rarely look within to understand their true self. Because of this, humanity begins to fade and awareness slowly dies. As a result, sorrow and suffering increase in society. This story gently reminds us of this truth. It offers a chance to reflect on the inner self. Real change begins not with decoration, but with introspection. When we turn inward, we rediscover compassion, clarity, and peace.
कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं मयूरं दृष्टवन्तः । स्वस्य प्राणापायम् अपि अविगण्णय मयूरेण उपकारः कृतः इत्यतः 'अग्रिमे अवतारे अहं भवतः पिच्छं सर्वदा शिरसि धारयिष्यामि' इति रामः अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the Krishna avatar, Krishna is always seen wearing a peacock feather on his head. Do you know why? Once, during the forest exile, Sita was suffering from intense thirst. A peacock came and informed Rama and his companions that there was a water source nearby. To guide them, the peacock dropped its feathers along the path and walked ahead. Following the trail of feathers, Rama and others reached the water. But there, they saw the peacock in a dying state—it had sacrificed itself to help them. Moved by its selfless act, Rama said, “In my next incarnation, I will always wear your feather on my head.” That is why Krishna adorns the peacock feather with reverence and gratitude.
From the publisher's feed