
Sign up to save your podcasts
Or


युधिष्ठिरः धनुर्मासे प्रतिदिनं शिवपूजां करोति स्म । 'परेद्युः समाप्तिदिनम् । अतः श्रीकृष्णेन सह भोजनं कर्तुम् इच्छामि' इति यदा युधिष्ठिरः अवदत् तदा सर्वे चिन्ताग्रस्ताः आसन् । अल्पेन समयेन कथं गमनागमनं शक्यम् इति । तदा भीमसेनः आगत्य 'श्वः सूर्योदयात् पूर्वम् अहं कृष्णम् अत्र आनेष्यामि' इति अवदत् । परेद्यवि भीमः स्नानादिकं कृत्वा पाकशालां गत्वा भोजनस्य सिद्धतां अकरोत् । तस्य पुरतः स्थित्वा द्वारकाभिमुखः सन् श्रीकृष्णं ध्यायन् स्वीयां गदाम् आकाशे क्षिप्त्वा अवदत् 'एषा गदा यावत् मम शिरसः उपरि न पतिष्यति तावता भवता अत्र उपस्थितेन भवितव्यम्' इति । तत्क्षणमेव श्रीकृष्णः प्रकटः भूत्वा भीमम् आलिङ्गितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During Dhanurmasa, Yudhishthira worshipped Lord Shiva daily. One day, he expressed his wish to have a meal with Krishna on the final day, leaving everyone worried about the impossible journey to Dwarka. Bhima then declared, "Before sunrise tomorrow, I will bring Krishna here". The next day, after completing his rituals, Bhima ensured the meal was ready. Facing Dwarka, he meditated on Krishna, threw his mace into the sky, and proclaimed, "Until this mace falls on my head, you must appear here!" Instantly, Krishna manifested, embraced Bhima, and fulfilled his wish.
कदाचित् कश्चन युवकः गृहं त्यक्त्वा अन्यत्र गतवान् । मातापितरौ पुत्रस्य अन्वेषणार्थं सर्वविधान् प्रयत्नान् कृतवन्तौ । दश वर्षाणि अतीतानि । कदाचित् पिता काशीयात्राम् अगच्छत् । तत्र गङ्गातटे कस्यचन साधोः समीपे उपविश्य पठन्तं कञ्चित् तरुणं दृष्ट्वा एषः स्वस्यैव पुत्रः इति निश्चित्य तम् आलङ्गितुं तस्य समीपं धावितवान् । किन्तु पुत्रः तं वारयन् 'क्षणं प्रतीक्षताम्' इति यदा अवदत् तदा क्रुद्धः पिता तं गुरुं निन्दितवान् । अनन्तरं पुत्रस्य वचनानि श्रुत्वा गुरुसन्निधेः महत्त्वं च ज्ञात्वा पिता मौनम् आश्रित्वान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man once left his home and went elsewhere. His parents searched for him tirelessly, but ten years passed without success. One day, his father traveled to Kashi. On the banks of the Ganges, he saw a young man studying near a sage and immediately recognized him as his own son. Overcome with emotion, he ran to embrace him. However, the son raised his hand to stop him and said, "Please wait a moment". Angered by this, the father criticized the sage, blaming him for keeping his son away. But after listening to his son’s words and understanding the importance of the guru’s presence, the father realized his mistake and fell silent in respect.
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः प्रामाणिकः निष्ठावान् च शिन्धेवर्यः नीतः । राजा प्यारिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्धेवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्धेवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्धेवर्यः । तदा प्रतिनिधिः 'निष्ठायाः प्रामाणिकतायाः बलात् एतावतः धनस्य त्यागं कर्तुम् अपि सिद्धाः जनाः सन्ति खलु भारते' इति साश्चर्यं चिन्तयन् तं मनसा अभिनन्दितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During his foreign travels, King Sayajirao took with him Sindhevaraya, a trusted aide known for his honesty, integrity, and loyalty. While in Paris, the king purchased many gold ornaments from a jewelry shop. Later, a representative from the shop approached Sindhevaraya, offering him a gift as a token of appreciation. However, Sindhevaraya firmly refused. The representative then said, "Ok, at least I will inform the king about your honesty". Even then, Sindhevaraya declined. Amazed by his unwavering integrity, the representative thought to himself, "There are people in India who are so committed to honesty that they are willing to reject even great wealth!" He silently admired and respected Sindhevaraya for his principles.
कदाचित् पुत्रस्य पुस्तकानां निधानिकातः पिपीलिकाः पङ्क्तिशः आगच्छन्ति स्म । पुस्ताकानि निष्कास्य माता तत्र रोटिकाद्वयम् दृष्टवती । विद्यालयतः आगवन्तं पुत्रं माता अपृच्छत् । तदा म्लानमुखः पुत्रः अवदत् 'इतः परं रोटिकानाम् आवश्यकता नास्ति । विद्यालयस्य मार्गे उपविष्टायै वृद्धायै अहं प्रतिदिनं रोटिकाद्वयं ददामि स्म । ह्यः सा न आसीत् इत्यतः निधानिकायां स्थापितवान् आसम् । अद्य ज्ञातवान् यत् सा वृद्धा मृता' इत्युक्त्वा रोदनम् आरब्धवान् । पुत्रस्य एतादृशं स्वभावं दृष्ट्वा माता अतीव सन्तुष्टा जाता । सः बालकः एव क्रान्तिकारी सुभाषचन्द्रः बसुः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a line of ants emerged from a boy’s bookshelf. When his mother removed the books, she discovered two rotis inside. Later, when her son returned from school, she asked him about it. With a downcast face, he replied, "I no longer need these rotis. Every day, I used to give them to an old woman sitting by the roadside near my school. But yesterday, she was not there, so I kept them on the shelf. Today, I found out that she has passed away". Saying this, he began to cry. Seeing her son's kind and compassionate nature, his mother felt immense pride. That boy later grew up to be the revolutionary leader Subhash Chandra Bose.
दुर्गादासः महाराष्ट्रराज्यस्य अप्रतिमशूरेषु अन्यतमः यः मोगलराजानां सिंहस्वप्नायते स्म । मोगलराजाः तं हन्तुं सर्वदा प्रयतन्ते स्म । कदाचित् तीर्थयात्रासमये दुर्गादासः कस्यचित् मराठनायकस्य गृहे उषितवान् । सः मराठनायकः मोगलराजस्य सेवकः आसीत् । दुर्गादासं हत्वा प्रभूतं पारितोषिकं प्राप्यते इति विचिन्त्य स्वपत्नीम् उक्तवान् । परन्तु अतिथिरूपेण आगतं देशभक्तं मारयितुं सा अनिच्छां प्रकटयति । तां नुदित्वा यदा मराठनायकः खड्गेन हन्तुम् उद्युक्तः तदा सा धावित्वा तस्य हस्तात् खड्गम् आकृष्य स्व-उरसः भेदनं कृतवती । एतत् दृष्ट्वा सः मराठनायकः दुर्गादासम् उत्थाप्य क्षमां संप्रार्थ्य स्वयमपि आत्मार्पणं कृतवान्
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Durgadas was one of Maharashtra's greatest warriors, feared like a lion in the dreams of Mughal emperors. The Mughals constantly sought to kill him. Once, during a pilgrimage, Durgadas stayed at the house of a Maratha leader, who was a servant of the Mughal emperor. The leader, tempted by the prospect of a great reward, decided to kill Durgadas and shared his plan with his wife. However, she refused to betray a patriot who had come as a guest. Ignoring her objections, the leader raised his sword to strike. In a desperate act, his wife rushed forward, snatched the sword from his hand, and pierced her own chest. Witnessing this, the Maratha leader was overcome with remorse. He helped Durgadas to his feet, begged for forgiveness, and ultimately sacrificed his own life in repentance.
कदाचित् कश्चन याचकः युधिष्ठरं नमस्कृत्य शतं नाणकानि याचितवान् । 'श्वः दास्यामि' इत्युक्त्वा तं प्रेषितवान् युधिष्ठिरः । एतत् दृष्टवता स्मितहासेन भीमसेनेन विजयघण्टा वादिता । विजयस्य कारणं किम् इति यदा युधिष्ठिरः अपृच्छत् तदा भीमसेनः अवदत् 'श्वः दास्यामि इत्युक्तस्य अर्थः यत् श्वः पर्यन्तं भवान् निश्चयेन जीविष्यति इति । मृत्योः उपरि एव दिनपर्यन्तकः विजयः किं सामान्यः ?’ इति । युधिष्ठिरः भीमेन उक्तस्य तात्पर्यम् अवगत्य लज्जितः सन् गच्छन्तं तं याचकः पुनः आहूय तस्मै शतं नाणकानि दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a beggar approached Yudhishthira, bowed to him, and requested a hundred coins. Yudhishthira told him, "I will give them tomorrow," and sent him away. Observing this, Bhima smiled and rang the victory bell. When Yudhishthira asked the reason for the celebration, Bhima replied, "By saying 'I will give tomorrow,' you are assuming with certainty that you will live until then. Is victory over death for a whole day such a small thing?" Realizing the deeper meaning behind Bhima’s words, Yudhishthira felt ashamed. He immediately called back the beggar and gave him the hundred coins without delay.
गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः । कदाचित् तीर्थयात्रां कुर्वतः तस्य सम्माननं कृत्वा जनाः तस्मै धनमपि दत्तवन्तः । केचन लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा एकस्मिन् कूपे प्रक्षिप्य धनम् अपहृतवन्तः । तस्मिन् एव मार्गे गच्छता गौडेश्वरेण लक्ष्मणसेनेन मनुष्यस्य ध्वनिः श्रुता । कूपतः जयदेवम् आनाय्य राजधानीं नीतवान् । बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये किमपि न उक्तवान् । तस्य भगवद्भक्तिं साधुस्वभावं च दृष्ट्वा महाराजः तं स्वस्य आस्थानपण्डितम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Jayadeva, the renowned poet and composer of the Gita Govinda, once embarked on a pilgrimage. During his journey, people honored him and offered him wealth. However, some robbers severed his hands and feet, threw him into a well, and stole his money. Lakshmanasena, the king of Gauda, was passing by the same route when he heard a voice from the well. He rescued Jayadeva and brought him to the capital. Despite being repeatedly questioned, Jayadeva never revealed the identities of the robbers who had mutilated him. Impressed by his devotion to God and saintly nature, the king appointed him as his court scholar.
कस्यचन कृपणस्य वणिजः धनस्यूतः च्युतः जातः । तस्मिन् चतुस्सहस्ररूप्यकाणि आसन् । ग्रामप्रमुखस्य द्वारा घोषणं कारितवान् यत् यः तं धनस्यूतं यच्छति तस्मै चतुश्शतं रूप्यकाणि ददामि इति । कयाचित् वृद्धया सः धनस्यूतः प्राप्तः । ग्रामप्रमुखं गत्वा दत्तवती । कृपणः वणिक् वृद्धायै चतुश्शतं रूप्यकाणि दातुं नेच्छत् । सः अवदत् 'अस्मिन् धनस्यूते चतुश्शताधिकचतुस्सहस्रं रूप्यकाणि आसन् । एषा वृद्धा पूर्वमेव चतुश्शतं रूप्यकाणि स्वीकृतवती अस्ति' इति । ग्रामप्रमुखेन ज्ञातं यत् एषः असत्यं वदन् अस्ति इति । 'भवता केवलं चतुस्सहस्ररूप्यकाणि एव आसन् इति उक्तमासीत् अतः एषः भवतः स्यूतः नास्ति' इत्युक्त्वा तं धनस्यूतं स्वीकृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A miserly merchant lost his money bag, which contained four thousand rupees. He announced through the village chief that whoever returned the bag would receive four hundred rupees as a reward. An old woman found the bag and handed it over to the village chief. However, the miserly merchant refused to give her the promised reward. He falsely claimed that the bag originally contained four thousand four hundred rupees, implying that the old woman had already taken four hundred rupees. The village chief realized that the merchant was lying and said, "You had stated that the bag contained only four thousand rupees. Therefore, this bag does not belong to you". He then kept the money bag, denying the merchant's claim.
सदाचारसम्पन्नः नरहरिः सुवर्णकारः आसीत् । सः शिवेतरदेवानां देवालयं कदापि न गच्छति स्म । कदाचित् धनिकेन कनकदासेन विठ्ठलमन्दिरं निर्माप्य विठ्ठलाय एका सुवर्णमेखला समर्पणीया इति इच्छा प्रकटिता । तदर्थं सुवर्णकारं नरहरिं यदा अपृच्छत् तदा नरहरिः नेत्रयोः उपरि वस्त्रपट्टिकाबन्धनं कृत्वा विठ्ठलस्य कटेः मापनं कर्तुम् अङ्गीकृतवान् । मापनसमये त्रिवारम् अपि शिवस्य मूर्तिः इव प्रतिभासते तस्मै । तृतीयवारं नेत्रपट्टिकाम् अपसार्य विठ्ठलस्य मूर्तिम् अपश्यत् । मूर्तिः अवदत् 'अहं स्वयं शिवः । एकोऽहं विविधैः रूपैः दृश्ये' इति । तदा प्रभृतिः नरहरिः विठ्ठलस्य परमभक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Narahari, a virtuous goldsmith, never visited temples of deities other than Shiva. Once, a wealthy man named Kanakadasa wished to offer a golden waistband to Lord Vitthala and sought Narahari’s help. Narahari, unwilling to see Vitthala’s idol, blindfolded himself while measuring the deity’s waist. Amazingly, three times also he perceived the idol as Shiva. On the third attempt, he removed the blindfold and saw Vitthala’s idol, which said, "I am Shiva himself, appearing in different forms". From that moment, Narahari became a devoted follower of Vitthala.
विधानचन्द्रः श्रेष्ठः राजनीतिज्ञः चिकित्सकश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबङ्गालस्य मुख्यमन्त्री आसीत् । अत्यन्तं बुद्धिमान् सः छात्रदशायां प्रत्येकं परीक्षायामपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । तत् कथम् इति जानन्ति वा ? तस्य सत्यप्रियतायाः कारणेन । इयं कथा विधानचन्द्रस्य सत्यप्रियतां कथयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Vidhanchandra was an excellent politician and doctor, serving as the Chief Minister of West Bengal and earning the Bharat Ratna. Exceptionally intelligent, he secured the top rank in every exam during his student years. However, once in college, he failed an exam. Do you know why? It was due to his unwavering honesty. This story highlights Vidhanchandra’s deep commitment to truthfulness.
From the publisher's feed