
Sign up to save your podcasts
Or


पुरा मङ्गलवेढाग्रामे दामाजीपन्तः नाम परमदयालुः दैवभक्तः दानशीलश्च आसीत् । यवनराजस्य शासनाधिकारिरूपेण कार्यं करोति स्म । कदाचित् पण्ढरपुरतः आगवद्भ्यः जनेभ्यः धान्यागारतः यथेष्टं धान्यं वितीर्णवान् । एतेन कुपितः यवनराजः पान्थम् आनाययति । मार्गमध्ये सः पण्ढरिनाथस्य मदिरं गत्वा भक्त्या प्रार्थितवान् । भक्तवत्सलः पण्ढरिनाथः दामाजीपन्तस्य सेवकरूपं धृत्वा सपादलक्षमुद्रायुक्तं स्यूतं यवनराजाय दत्त्वा प्राप्तिपत्रं च स्वीकृत्य ततः अन्तर्हितः अभवत् । तदनु प्रवृत्तं सर्वं ज्ञात्वा पण्ढरिनाथः एव एवं कृतवान् स्यात् इति पान्थः साश्रुलोचनः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, in the village of Mangalvedha, there lived a kind and devout man named Damajipant, known for his generosity. He served as an officer under the Yavana king. Once, he freely distributed grain from the royal granary to pilgrims from Pandharpur. Angered by this, the king summoned him. On his way, Damajipant visited the temple of Pandharinath and prayed with devotion. Moved by his devotion, Lord Pandharinath, disguised as a servant, delivered a bag containing 1.25 lakh gold coins to the king along with a receipt, then disappeared. Realizing the divine intervention, Damajipant was overwhelmed with tears of gratitude.
कश्चित् श्रान्तः पथिकः अग्रे गन्तुम् अनिच्छन् वृक्षस्य अधः उपविष्टं वृद्धं 'ग्रामः कियत् दूरे अस्ति?’ इति अपृच्छत् । किन्तु सः वृद्धः किमपि न उक्तवान् । कुपितः पथिकः मनसा एव वृद्धं निन्दन् यदा अग्रे गन्तुम् उद्युक्तः तदा वृद्धः उच्चस्वरेण तम् आहूय अवदत् 'ग्रामः क्रोशमितदूरे अस्ति' इति । उत्तरं दत्त्वा अपि भवान् अग्रे न चलति चेत्, मम उत्तरं व्यर्थं स्यात् । अतः पूर्वम् उत्तरं न दत्तवान् । यदा भवान् अग्रे गन्तुं निर्णयम् अकरोत् तदा उत्तरं दत्तवान् । यः चलति सः एव गन्तव्यं स्थानं प्राप्नोति । अतः एव उच्यते 'चरति चरतो भगः' इति । यत्नशीलस्य जनस्य भाग्यं फलति इति तात्पर्यम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A weary traveler sat under a tree and asked an old man, "How far is the village?" The old man remained silent. Annoyed, the traveler mentally criticized him and prepared to move forward. At that moment, the old man called out, "The village is a mile away". He explained, "If you do not move forward, my answer is meaningless. I waited until you decided to walk before responding. Only those who move forward reach their destination". Thus, it is said, "Fortune favors those who strive". The meaning is that effort leads to success.
कस्मिंश्चित् गृहे द्वौ मृद्घटौ दुग्धेन पूर्णौ आस्ताम् । प्रथमघटस्थं दुग्धं 'सुवर्णकुम्भे मां स्थापयतु इति गृहस्वामिने' अवदत् । तथैव अकरोत् स्वामी । 'उष्णीकरणं मास्तु, आतञ्चनं मास्तु' इत्यादि अवदत् प्रथमघटस्थं दुग्धम् । किन्तु मृद्घटस्थेन दुग्धेन किमपि नोक्तम् । अतः स्वामी तम् उष्णीकृत्य तस्मिन् आतञ्चनमपि कृतवान् । एतत् सर्वं दृष्ट्वा प्रथमघटस्थं दुग्धं मृद्घटस्य दुग्धस्य उपहासं करोति 'भवतः वर्णः नास्ति, रुचिः नास्ति .....’ इति । अनन्तरदिने स्वामी मृद्घटस्थस्य दुग्धस्य मथनम् अकरोत् । मथनात् आगतं नवनीतं स्वीकृत्य मन्दिरं गत्वा ईश्वरस्य अलङ्कारम् अकरोत् । दुर्गन्धपूर्णं सुवर्णकुम्भस्थं दुग्धं बहिः अक्षिपत् च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a house, two clay pots were filled with milk. The milk in the first pot demanded to be placed in a golden vessel and refused heating or churning. The milk in the clay pot remained silent, allowing the owner to heat and churn it. The milk in the golden vessel mocked the other for lacking color and taste. The next day, the owner churned the milk from the clay pot, extracting fresh butter, which was used to adorn the deity in the temple. The foul-smelling milk in the golden vessel was discarded.
प्रतिदिनं काचित् गोपिका साधोः आश्रमम् आगत्य अर्धलीटर्मितं दुग्धं मापकेन मापयित्वा साधोः भाण्डे स्थापयति । किन्तु आश्रमस्य पार्श्वे वसते ब्रह्माचरिणे दुग्धपात्रे अवशिष्टं समग्रं दुग्धं समर्पयति । वस्तुतः ब्रह्मचारिणे अपि अर्धलीटर्मितं दुग्धम् एव दातव्यम् । एतत् निरीक्ष्य साधुः पृष्ट्वान् किमर्थम् एषा प्रतारणा इति । तदा गोपिका अवदत् 'भवान् जपमालां गृहीत्वा मणिभिः गणनां कुर्वन् जपं करोति । अतः भवते मापकेन मापनं कृत्वा दुग्धं यच्छामि । किन्तु ब्रह्मचारी विना जपमालां सदा मुखेन नामस्मरणं करोति । अतः तस्मै मापनम् अकृत्वा दुधं यच्छामि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Every day, a cowherd woman visited a sage's hermitage and measured half a liter of milk using a measuring vessel before placing it in the sage's container. However, she would give the remaining milk in the vessel to a young celibate monk living nearby. In reality, the brahmachari was also supposed to receive only half a liter of milk. Observing this, the sage questioned why she was deceiving him. The cowherd woman replied, "You chant using a japamala, counting the beads as you recite. So, I measure the milk precisely for you. But the brahmachari chants continuously with his mouth without using a japamala, remembering the divine name at all times. Therefore, I do not measure the milk for him and give it freely".
कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः दरिद्रः च आसीत् । कस्यचित् संन्यासिनः वचनानुसारं तस्य भाग्यान्वेषणार्थं पूर्वाभिमुखं प्रयाणम् आरब्धवान् । मार्गमध्ये एकः सिंहः, एकः उद्यानपालः, एकः राजा च तेषां समस्यायाः समाधानं भाग्यदेवतां पृष्ट्वा वदतु इति निवेदितवन्तः । चतुर्दशदिनानि यावत् प्रयाणं कृत्वा संन्यासिना उक्तं पर्वतं प्राप्य गुहायां कश्चन निद्रितवान् आसीत् । भवान् कः ? इति पृष्टे सः उक्तवान् 'अहमेव भवतः भाग्यम्' इति । ततः सः प्रश्नत्रयस्य समाधानं पृष्ट्वा ततः निर्गतवान् । ततः सः राज्ञः, उद्यानपालस्य, सिंहस्य च कृते समाधानं वदति वा ? तर्हि सः महामूर्खः कथं जातः ? भ्रमनिवारणार्थं संपूर्णतया कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain village, there was a poor and foolish man named Damodara. Following the advice of a sage, he set out eastward in search of his fortune. On his journey, he encountered a lion, a gardener, and a king, who each asked him to inquire about solutions to their problems from the deity of fortune. After traveling for fourteen days, he reached a mountain where a mysterious person was sleeping in a cave. Upon asking who he was, the person replied, "I am your fate." Damodara then asked his three questions and left with the answers. Did he later provide solutions to the king, the gardener, and the lion? And how did he become known as a great fool? Listen to the full story to clear any doubts.
यदा श्रीरामः रावणं निहत्य प्रत्यागत्य सिंहासने अभिषिक्तः तदा सीतालक्ष्मणभरतशत्रुघ्नाः रामस्य समीपं गत्वा 'एतावत्पर्यन्तं हनूमान् एव सकलां सेवां करोति स्म । अतः अस्मभ्यं भवतः सेवाभाग्यं ददातु' इति अयाचन्त । रामः वदति 'भवन्तः कार्याणाम् आवलींं लिखन्तु । किमपि कार्यम् अवशिष्टं चेत् तत् हनूमान् करोति' इति । सीतादयः सुसूक्ष्मतया आवलीं सज्जीकृतवन्तः । हनूमान् यदा आवलीम् अपश्यत् तदा सर्वाणि कार्याणि तैः अपहृतानि आसन् । विषण्णः सन् किञ्चित् कालानन्तरम् आनन्देन नर्तनं कृतवान् । जृम्भणसमये दोषनिवारणाय मुखस्य पुरतः अङ्गुलेः स्फोटनकार्यम् अवशिष्टम् अस्ति इति यदा हनूमान् उक्तवान् तदा सीतादयः हनूमतः भक्तेः माहात्म्यं ज्ञात्वा लज्जाम् अनुभूतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After Lord Rama defeated Ravana and was crowned king, Sita, Lakshmana, Bharata, and Shatrughna approached him. They requested the privilege of serving him, as Hanuman had been the sole devotee performing all services. Rama instructed them to list all tasks, stating that if anything remained, Hanuman would do it. Sita and others meticulously created the list. When Hanuman saw it, he realized that they had taken away all his duties, leaving him disheartened. However, after a moment, he joyfully danced, declaring that one task remained—snapping his fingers near his mouth to prevent drowsiness while yawning. Realizing Hanuman’s deep devotion, Sita and the others felt humbled.
कश्चन नितरां धर्मनिष्ठः दानशीलः च आसीत् । कदाचित् राजभवनम् आगतवते तापसाय राजा अवदत् 'अहं भवते अत्यमूल्यं कमपि उपहारं ददामि' इति । तापसः 'आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु' इति अवदत् । राजा राज्यकोषं, राजभवनं, रथादिकं ददामि इति यदा वदत् तदा तत्सर्वं प्रजाजनानम् इति अवदत् तापसः । शरीरमपि मातापितृभ्यां दत्तम्, अतः तदपि भवतः न इत्युक्तं तापसेन । यदा राजा विस्मयेन मूढः जातः तदा तापसः अवदत् 'भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव, तस्य दानं करोतु' इति । अनन्तरदिनतः राजा अनासक्तः योगी इव शासनं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A deeply righteous and generous ascetic visited the king, who offered him a precious gift. The ascetic requested the king’s most beloved possession. The king offered his treasury, palace, and chariot, but the ascetic reminded him these belonged to the people. Even his body was a gift from his parents. Perplexed, the king asked what he could give. The ascetic replied, “Your ego is entirely your own. Offer that”. From that day, the king ruled with detachment, like a true yogi.
कदाचित् कश्चित् दरिद्रः मन्दिरे गणेशं प्रार्थयते यत् गृहगमनसमये मार्गे यथा धनं प्राप्नुयां तथा माम् अनुगृह्णातु इति । यत् प्राप्नोमि तस्य अर्धभागं भवते अर्पयामि इति । आश्चर्यम्! मार्गमध्ये किञ्चित् धनं दृष्टिगोचरम् अभवत् । तत्र पञ्चाशत् रूप्यकाणि आसन् । मन्दिरं गत्वा गणेशस्य पुरतः स्थित्वा 'किं भवतः मयि विश्वासः नास्ति ? यद् लभ्यते तत्र अर्धभागं निश्चयेन भवते समर्पयामि इति अहम् उक्तवान् खलु? तर्हि भवान् किमर्थं पूर्वमेव पञ्चाशत् रूप्यकाणि स्वीकृत्य अवशिष्टानि पञ्चाशत् रूप्यकाणि तत्र स्थापितवान्' इति उक्त्वा गणेशाय किमपि समर्पणम् अकृत्वा सः ततः गृहं प्रति गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A poor man prayed to Lord Ganesha at a temple, asking for a blessing to find money on his way home. He promised to offer half of whatever he received to Ganesha. Miraculously, he found fifty coins on the road. Returning to the temple, he stood before Ganesha and said, “Do you not trust me? I promised to offer half of whatever I find. But why have you already taken fifty coins and left only fifty for me?” Thinking this way, he left without making any offering to Ganesha.
मृगयाव्यसनः कश्चन युवा भुषुण्डिम् आदाय अश्वम् आरुह्य मृगयार्थं वनम् अगच्छत् । तत्र च हंसयूथं रममाणं दृष्ट्वा तेन स्वभुषुण्डितः गोलिका मुक्ता । गोलिकया एकः हंसः विद्धः सन् चीत्कारं कृतवान् । सः युवा अश्वात् अवतीर्य तत्पार्श्वे गतः । तीव्रव्यथया चीत्कुर्वन्तं हंसं च दृष्टवान् । किञ्चित्कालनन्तरं सः हंसः प्राणैः विमुक्तः जातः । मृतं स्वप्रियतमं विज्ञाय तत्प्रियतमा हंसी करुणं विलपति स्म । सर्वं दृश्यं दृष्टवतः तस्य यूनः हृदयम् आर्द्रं जातम् - 'मया न सुष्ठु कृतम् । अद्यारभ्य अहं कदापि मृगयां निरर्थिकां हिंसां वा न आचरिष्यामि' इति अवदत् । सः एव अग्रे अमेरिकायाम् अब्राहमलिङ्कननामकः प्रसिद्धः प्रमुखः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man, passionate about hunting, rode into the forest with his firearm. There, he saw two swans enjoying and fired a shot, wounding one. Hearing its cries of pain, he dismounted and approached the injured bird. Shortly after, the swan succumbed to its wounds. Seeing its mate mourn deeply, the young man's heart softened. Overcome with regret, he vowed never to engage in hunting or senseless violence again. That young man would later become Abraham Lincoln, the renowned leader of America.
कदाचित् विश्वामित्रस्य तपोबलं श्रेष्ठम् उत वसिष्ठस्य सत्सङ्गफलं श्रेष्ठम् इति प्रश्नः उद्भूतः । तद्विषये निर्णयं कर्तुं तौ ब्रह्मणः समीपं गतवन्तौ किन्तु ब्रह्मा विष्णोः समीपं प्रेषयति । विष्णुः शिवस्य समीपं, शिवः आदिशेषस्य समीपं प्रेषयति च । विश्वामित्रवसिष्ठयोः विवादं श्रुत्वा आदिशेषः अवदत् 'भवतोः कोऽपि स्वप्रभावेण मम मस्तकस्थां पृथिवीं क्षणकालं यावत् आकाशे निरालम्बां धारयतु' इति । महर्षिः विश्वामित्रः हस्तेन जलं गृहीत्वा सङ्कल्पं कृतवान् 'मया कृतस्य एकसहस्रवर्षात्मकस्य तपसः बलेन एषा पृथिवी अन्तरिक्षे निरालम्बा तिष्ठतु' इति । किन्तु पृथिवी किञ्चिदपि उपरि न स्थिता । ततः वसिष्ठः 'मया कृतस्य अर्धघटिकात्मस्य सत्सङ्गस्य बलेन पृथिवी अन्तरिक्षे तिष्ठतु' इति । आश्चर्यम्! पृथिवी अन्तराले निरालम्बा अतिष्ठत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A debate arose about whether Vishvamitra’s power of penance or Vasishtha’s spiritual wisdom was superior. Seeking a decision, they approached Brahma, who directed them to Vishnu, then to Shiva, and finally to Adishesha. Adishesha challenged them, saying, “With your own abilities, hold the Earth, resting on my head, suspended in the sky for a moment”. Vishvamitra declared, “By the strength of my thousand-year-long penance, let the Earth remain suspended!” But nothing happened. Then Vasishtha proclaimed, “By the power of just half an hour of spiritual wisdom, let the Earth stay in space!” Miraculously, the Earth floated effortlessly. Thus, Vasishtha’s wisdom proved stronger than Vishvamitra’s penance.
From the publisher's feed