
Sign up to save your podcasts
Or


अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवगन्तुं प्रयासं कुरु' इति अवदत् गुरुः । तस्य मुखमेव आश्चर्येण पश्यन् अतिष्ठत् अलेक्साण्डरः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story is about conversation between Alexander and his teacher, with the teacher emphasizing the spiritual strength of India over any physical conquest. When Alexander said his teacher, Aristotle that he wants to conquer India, Arostotle replies - 'It is impossible to conquer India. In truth, the essence of India lies in its deep spirituality. It is supported by sages who are detached and free from desires. They are invincible. If you wish to understand the unique qualities of India, conquer its land and try to comprehend the spirit of India. Seeing this response, Alexander stood in awe, astonished by his teacher's words.
18
कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति । तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति । तदा बुद्धः - 'जीवस्य सत्ता वादं न अवलम्बते । भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार्गः अन्यः । निर्वाणमार्गस्य उपदेशमात्रं मम कर्तव्यम्' इति अबोधयत् बुद्धः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story reflects the Buddha's emphasis on spiritual guidance and the distinction between worldly logic and the path to enlightenment. Once, a monk asked the Buddha about his doubts but did not receive an answer. Instead, the Buddha simply smiled gently. The monk then said, 'If I cannot find an answer here, I will return to my worldly life.' Buddha replied, 'The existence of life is not based on debate. The answers to the questions arising in your mind will come over time, either through studying scriptures or with the guidance of a teacher. The path of reasoning is different, and the path to nirvana is different. It is my duty to teach the path to nirvana.
कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः कथं करणीयः इति दात्रा चिन्तनीयं नास्ति । अतः एव तत् प्रतिदातुं मया उक्तम्' इति । एतस्मात् विवेकं प्राप्य धनिकः राङ्कवं स्वीकरणीयम् इति प्रार्थयते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wealthy devotee once gave a precious gift to a sanyasi named Shrikrishnabodhananda. The sanyasi then gave the gift to a scholar standing next to him. When the wealthy man learned that the sanyasi was giving it away, he became displeased. In response, the sanyasi told the scholar to return the gift to the wealthy man. The sanyasi said to the wealthy man, 'The person who gives the gift should not worry about how it is used. Therefore, I told the scholar to return it.' After hearing this, the wealthy man realized his mistake and pleaded with the sanyasi to accept the gift.
कालपुरनाम्नि राज्ये विशेषनियमः आसीत् यत् यः राजा भवेत् सः षडेव वर्षाणि राजत्वसुखम् अनुभवेत् । तदनन्तरं सरोवरस्य अपरस्मिन् तीरे स्थिते घोरारण्ये सः परित्यज्यते स्म । राज्यात् निर्गमनावसरे केचन राजानः बहुधा आक्रन्दन्ति स्म, विलपन्ति स्म । एवं राज्यात् च्युतः कालेश्वरनामा कश्चन राजा अरण्यं प्रति गमनसमये हसनमुखः सन् उत्साहेन अरण्यदिशि पदानि अस्थापयत् । नाविकः साश्चर्यं तम् अनुसृत्य पश्यति यत् तत्र भव्यः प्रासादः, रमणीयम् उद्यानं, गृहाणि, जनाः च आसन् । कुतूहलेन नाविकेन कथमेतत् इति पृष्टे वदति राजा - ‘सिंहासनारोहणस्य दिने एव अस्य अरण्यप्रदेशस्य अभिवृद्ध्यर्थम् अवधानं दत्तम् मया । यः भाविजीवनविषये समुचितां पूर्वयोजनां कुर्यात् सः कदापि सन्तप्तः न भवेत् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the kingdom of Kalapur, there was a special rule that the king would enjoy the happiness of ruling for six years. After that, he would be abandoned in a dense forest on the other side of a river. When leaving the kingdom, some kings would cry and lament. However, when King Kaleshwaran, who was exiled from his kingdom, was going toward the forest, he was smiling and full of enthusiasm, placing his footsteps towards the forest direction. A boatman, following him in surprise, saw that there was a grand palace, a beautiful garden, houses, and people in that direction. Curious, the boatman asked the king how this was possible. The king replied, “On the day I ascended the throne, I gave special attention to the development of this forest region. One who plans wisely for future prosperity will never suffer”.
भगवन्तं साकारत्वेन निर्दिश्य प्रार्थनां कुर्वन्तं कञ्चन ग्रामीणकृषिकं कश्चन पण्डितः शास्त्रीयं प्रार्थनाक्रमं बोधयति । अनन्तरदिने पण्डितेन उपदिष्टं प्रार्थनाक्रमं स्मर्तुम् अशक्नुवन् सः कृषिकः नितरां परितप्तः भवति । रात्रौ पण्डितस्य स्वप्ने देवः प्रत्यक्षीभूय वदति - 'कृषिकः स्वीयक्रमम् अनुचितम् इति मन्यते । त्वया बोधितः क्रमः तेन न स्मर्यते । नितरां परिताप्यति । अहमपि परितपामि' इति । प्राप्तविवेकः पण्डितः उषसि एव कृषिकस्य गृहं गत्वा - 'भक्तिः एव गरीयसी । अतः स्वीयेन क्रमेण एव प्राथनां कुरु' इति वदति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story shows that personal devotion is more important than following a strict sequence. A scholar, teaches a farmer, proper way to pray. The next day, the farmer, unable to remember the prayer sequence as the scholar taught him, becomes very sad. That night, the deity appears to the scholar in a dream and says, "The farmer thinks his prayer method is wrong and also does not remember the sequence you taught him. He is suffering greatly, and I too am suffering because of this." The next morning, the scholar, understanding the situation, goes to the farmer's house and says, "Devotion is the most important. So, pray in your own way, as you usually do."
लोके जनाः स्वानुभवानुरूपानेव शास्त्रोपदेशान् गृह्णन्ति इत्यस्य उदाहरणं भवितुमर्हति इयं कथा । कदाचित् तीर्थयात्रां कुर्वन्तौ सुहृदौ मार्गभ्रष्टौ भूत्वा क्षुद्बाधया इतस्ततः अटित्वा अन्ते कस्मिंश्चित् ग्रामे देवपूजानिमित्तं परिकल्पितार्थं भोजनार्थम् उपविष्टवन्तौ । भोजनसमये जनैः उक्तं श्लोकं श्रुत्वा तयोर्मध्ये एकः चिन्तयति यत् भोजने विरलतया लब्धे न अधिकं खादेयम् यतः मम तीर्थयात्रायां विघ्नः भवेत् इति । स्वल्पकालानन्तरं 'अहं वैश्वानरो भूत्वा..’ श्लोकं श्रुत्वा अपरः चिन्तयति यत् अद्य भूरिभोजनं करिष्यामि यतः अन्तः स्थितः वैश्वानररूपः देवः भुक्तम् अन्नं पाचयति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story tells how individuals interpret spiritual teachings based on their personal experiences. Once, two friends, while on a pilgrimage, became lost on their way and, suffering from hunger, wandered here and there. Finally, they reached a village and while they were eating, they heard a verse spoken by the people around them. Upon hearing this, one of them thought to himself, “Since food is scarce, I should not eat too much, for it may hinder my pilgrimage.”. Shortly after, hearing another verse, one of them thought, “Today I shall eat a hearty meal, for the deity in the form of the inner fire will digest the food that I eat”.
कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् । वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति । सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं निरूपयति इति कश्यपेन पृष्टे बुद्धः अवगमयति यत् यः वासनाभिः व्यमोहैः च विमुक्तेन भिक्षुना आशया करण्डकप्राप्त्यर्थं प्रयासः कृतः । पौनःपुन्येन प्राप्तम् एतत् दौर्बल्यं निश्चयेन अधोगतिं प्रापयति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Buddha’s disciple named Kashyapa used his knowledge of mantras to lift a golden sandalwood pot from a pillar while seeking alms. When Buddha heard this, he told Kashyapa that the pot was not his and that his effort has led him downward. Kashyapa, surprised, asked how such a display of skill could be wrong. The Buddha explained that the monk, though free from desires, was driven by past attachments and delusions, and such actions would lead him downward.
कदाचित् प्रभाकरः नामा कश्चन गृहस्थः शङ्काराचार्यं दृष्ट्वा प्रार्थयते यत् तस्य द्वादशवर्षीयं जडबुद्धिपुत्रं आशीर्वादेन अनुगृह्य अस्य जडबुद्धितां निवारयतु इति । शङ्काराचार्यः बालकेन सह सम्भाषणं कृत्वा ज्ञातवान् यत् एषः महात्मा अस्ति इति, अपि च पुत्रं मया सह प्रेषयतु इति वदति । पितुः अनुज्ञां प्राप्य शङ्कराचार्येण सह निगर्तः सः बालकः गच्छता कालेन महावेदान्ती जातः । आत्मस्वरूपादिकं हस्तस्थम् आमलकम् इव तस्य स्पष्टम् आसीत् इत्यतः शङ्काराचार्यः तस्य नाम कृतवान् - ‘हस्तामलकः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a man named Prabhakara met Shankaracharya and asked him to bless his twelve-year-old son, who was slow-witted. After speaking with the boy, Shankaracharya realized that the child was very special. He told Prabhakara to send the boy with him. With his father's permission, the boy left with Shankaracharya. Over time, the boy became a great scholar of Vedanta. He understood the true nature of the self, just like someone clearly seeing a fruit in their hand. Because of this, Shankaracharya gave him the name "Hastamalaka" (meaning "the one with the fruit in his hand").
कदाचित् वयं चिन्तयामः यत् 'अहम् एकाकी अस्मि' इति । अस्यां कथायाम् अपि पुत्रः तथैव चिन्तयति । किन्तु पिता निदर्शनेन दर्शयति यत् जीवने कोऽपि कदापि न एकाकी । भगवान् सदा अस्माभिः सह स्थित्वा अस्मान् रक्षति । सः एव अस्मान् कष्टकाले तारयिष्यति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Sometimes, we think to ourselves, "I am all alone." In this story, the son thinks the same way. However, the father shows through an example that no one is ever truly alone in life. God is always with us, protecting us. It is He who will save us in times of difficulty.
जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् । तदनन्तरं राजा युद्धादिप्रयासं स्थगयित्वा शासनकार्येषु अवधानवान् जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a king named Jagaddeva who was always focused on fighting wars to gain wealth and power. His goal was to conquer the whole world. One day, a wise sage visited him and used simple examples to show the king that it's impossible to enjoy all the land or wealth. The sage also told him that wanting to conquer the world was foolishness. He reminded the king that his main responsibility was to ensure the peace, prosperity, and happiness of his people. After this, the king stopped his wars and started focusing on ruling wisely.
From the publisher's feed