
Sign up to save your podcasts
Or


कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति । तत् कथमिति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, after the Guru’s lecture, when disciple Ananada said, 'I have seen God,' the other disciples laughed. This happened many times. One day, the Guru said, 'If you see God again, you must first ask me what sinful actions I have committed before attaining the state of a guru. Only then will it be confirmed that you have indeed seen God.' A few days later, it was confirmed that God had been seen. Now, listen to the story to understand how this happened.
सर्वे अपि अपत्यस्य जन्मदिनं निमित्तीकृत्य किमपि उपायनं यच्छन्ति । तत् सर्वं लौकिकम् उपयानं भवति प्रायशः । अस्यां कथायां पुत्र्याः जन्मदिननिमित्तं पिता तिस्रः पेटिकाः ददाति । किं भवितुम् अर्हति तासु पेटिकासु ? कीदृशानि उपायनानि ? लौकिकानि वा तत्त्वबोधकानि वा ? आगच्छन्तु कथां शृण्मः । वयम् अपि तादृशानि उपायनानि एव बालेभ्यः दातुं प्रयत्नं कुर्मः
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Everyone gives certain gifts on a child’s birthday. The gifts are usually worldly. In this story, the father gives three boxes on the occasion of his daughter's birthday. What might be in those boxes? What kind of gifts are these? Are they worldly or spiritual in nature? Come, let us listen to the story. Let us also try to give such gifts to our children.
अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम् आधारः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In this story, a teacher teaches the importance of mental strength to his students. The lion is not as strong as the elephant, not as tall as the camel, not as intelligent as the fox, not as fast as the cheetah, and not able to fly like the eagle. Yet, it is the king of the jungle because of its mental strength. Mental strength surpasses all other powers. Even when all the body’s parts fail, mental strength remains the only support we have.
समुद्रतीरे पार्श्वे स्थितं पेयं स्तोकं स्तोकं पिबन्तं कञ्चन युवकम्, अपि च तस्य मूर्ध्नि हस्तं प्रसारयन्तीं काञ्चन महिलां दृष्ट्वा भद्रपुरुषः अचिन्तयत् यत् सः युवकः मद्यपः, सा च महिला प्रेयसी गणिका स्त्री इति । तावता समुद्रतः 'रक्षत रक्षत' इति चीत्कारं श्रुत्वा सः युवकः झटिति समुद्रं प्रविश्य परित्राणकार्यम् आरभ्य भद्रपुरुषेण सह सर्वान् रक्षितवान् । तदनन्तरं भद्रपुरुषः ज्ञातवान् यत् सः बालकः रोगस्य कारणेन औषधं पिबन्नासीत्, अपि च तस्य पार्श्वे उपविष्टवती सा महिला तस्य माता इति । स्वस्य चिन्तनविषये लज्जाम् अनुभवन् अन्यस्य विषये दुर्भावः न वहनीयः अपि च पूर्वाग्रहः त्यक्तव्यः इति भद्रपुरुषः निश्चितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At the seashore, a coast guard saw young man drinking something and a woman sitting next to him, placing her hand on his head. The guard thought the young man was a drunkard and the woman was his lover or a prostitute. Then, hearing cries of "Help! Help!" from the sea, the young man quickly jumped in and, with the guard’s help, saved everyone. Later, the guard learned that the young man had been taking medicine because he was sick, and the woman was his mother. Feeling ashamed of his earlier judgment, the man realized that one should not judge others based on assumptions and should avoid prejudice.
'ज्येष्ठाः नन्तव्याः' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सहजतया 'अखण्डसौभाग्यवती भव' इति आशीर्वादं कृतवान् । द्रौपद्याः एकेन नमस्कारेण पाण्डवानां जीवदानं लब्धम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There is a custom in the world that the elders should be respected. By nurturing love, trust, and closeness, one builds a protective shield through the act of salutation. This story serves as an example of that. During the Kurukshetra war, when Bhishma declared that he would kill the Pandavas, Krishna instructed Draupadi to visit Bhishma’s camp and get his blessings. Following Krishna’s advice, Draupadi went to Bhishma’s tent at midnight and respectfully bowed to him. Seeing his granddaughter-in-law bowing, Bhishma naturally blessed her, saying, "May you be eternal Sowbhagyavati". Through this single act of respect, Draupadi ensured the Pandavas' survival.
कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छन् अत्युत्तमं चित्रकारम् अन्वेष्टुम् आदिशति लभते च । यदा राजा चित्रकाराय स्वस्य इच्छां कथयति, तदा सः 'कियन्मूल्यकं चित्रं लेखनीयम्' इति पृच्छति । कुतूहली सः राजा अल्पमूल्यके चित्रे किं भवति, अधिकमूल्यके चित्रे किं भवति इति पृच्छति । तदा तस्य उत्तरं किं ददाति इत्यादि सर्वं कथां श्रुत्वा जानीयाम ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king, wishing to have his portrait painted, ordered the search for the finest painter, and he was found. When the king told the painter about his wish, the painter asked, "What value should the painting have?" Curious, the king asked, "What happens in a painting of low value, and what happens in one of high value?" Let us hear what the painter replies.
कदाचित् कश्चन पण्डितः नद्यां स्नानं कुर्वन् कञ्चन श्रेष्ठतत्त्वयुतश्लोकम् यदा उच्चारितवान् तदा वस्त्रप्रक्षालानाय आगतवती काचित् महिला हसितवती । ग्राममुख्यः यदा महिलाम् आनाय्य किमर्थं पण्डितं अपमानितवती इति पृष्टे, 'अपमानं न कृतवती । लोके अन्यानि अपि श्रेष्ठानि तत्त्वानि सन्ति' इत्युक्त्वा तानि कानि इति विवृणोति । कथां श्रुत्वा ज्ञास्यामः यत् एकैकः कथं भिन्नरीत्या चिन्तयति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a scholar was bathing in a river reciting a verse containing great truths. At that moment, a woman who had come to wash clothes laughed. When the village chief brought the woman to the scholar and asked why she had insulted him, she replied, "I did not insult him. There are other greater truths also in the world," and then explained what those truths were. Let us hear the story to know how each person thinks in a different way.
कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः? इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव इति । तस्याः सात्विकं कोपं, धैर्यं च दृष्ट्वा अशोकः स्वदोषम् अवगत्य राज्ञीं च क्षमां याचित्वा वीरसेनं विमोचितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Emperor Ashoka, attacked Vijayapura and defeated the King Virasena, imprisoning him. Later, a woman wearing a veil approached the king and, having secured her land and wealth, asked him to release her husband, who had been unjustly imprisoned. When Ashoka asked, "Who is he?" the woman removed her veil and said, "It is none other than you."Seeing her calm but firm anger, Ashoka realized his mistake. He sought forgiveness from the queen and freed King Virasena.
कदाचित् सम्राट् श्रोणिकः भगवन्तं बुद्धं दृष्ट्वा पृच्छति - ‘सर्वविधानि सुखानि चेदपि कथं मनः प्रसन्नं न भवति इति । तदा बुद्धः वदति - ‘चापल्यत्यागः, विलासिजीवने अल्पप्रवृत्तिः, भोगसाधनानाम् उपयोगे न्यूनतासम्पादनम्, दयास्नेहादीनाम् अवलम्बनं, यावत् प्राप्येत तावता सन्तुष्टिः, दानशीलता इत्यादयाः अंशाः अवलम्बिताः चेत् प्रासादे अपि सन्तोषः प्रातुं शक्यः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, King Shronika asked the Buddha: "Why does the mind not remain happy, even when all kinds of pleasures are available?" Buddha replied: "If one abandons impatience, leads a simple life, indulges little in luxuries, uses material possessions with moderation, relies on compassion and affection, remains content with whatever one has, practices generosity and similar virtues—only then can one attain true happiness, even within a palace".
कदाचित् महानौकायाम् उत्पन्नायाः समस्यायाः परिहारम् अनवगच्छन्तः तन्त्रज्ञाः असहायकतां दर्शितवन्तः । तावता व्यवस्थापकेन आनीतः कश्चन विशेषतन्त्रज्ञः अनुभवी वृद्धः, अल्पेन कालेन दोषं परिहृतवान् । तेन सर्वैः यन्त्रैः कार्यम् आरब्धम् । कौशलस्य मूल्यमपि अधिकम् इति ज्ञात्वा सः व्यवस्थापकः दशसहस्ररूप्यकाणि विशेषज्ञाय दत्त्वा प्रेषितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The engineers could not figure out the solution to the problem that arose in the ship. In the meantime, the manager brought in an experienced, senior technician. Within a short time, he fixed the problem, and soon the machines started working. Realizing the value of his skill, he was rewarded with ten thousand rupees.
From the publisher's feed